भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 6.91

6.91.1

इरावन्तं तु निहतं दृष्ट्वा पार्था महारथाः ।
सन्ग्रामे किमकुर्वन्त तन्ममाचक्ष्व सञ्जय ॥
सञ्जय उवाच ।

6.91.2

इरावन्तं तु निहतं सन्ग्रामे वीक्ष्य राक्षसः ।
व्यनदत्सुमहानादं भैमसेनिर्घटोत्कचः ॥

6.91.3

नदतस्तस्य शब्देन पृथिवी सागराम्बरा ।
सपर्वतवना राजंश्चचाल सुभृशं तदा ॥

6.91.4

अन्तरिक्षं दिशश्चैव सर्वाश्च प्रदिशस्तथा . चेलुश्च सहसा तत्र तेन नादेन नादिताः

6.91.5

तं श्रुत्वा सुमहानादं तव सैन्यस्य भारत ॥ ऊरुस्तम्भः समभवद्वेपथुः स्वेद एव च ।

6.91.6

सर्व एव महाराज तावका दीनचेतसः ॥ सर्वतः समचेष्टन्त सिंहभीता गजा इव ।

6.91.7

नर्दित्वा सुमहानादं निर्घातमिव राक्षसः ॥ ज्वलितं शूलमुद्यम्य रूपं कृत्वा विभीषणम् ।

6.91.8

नानारूपप्रहरणैर्वृतो राक्षसपुङ्गवैः ॥ आजघान सुसन्क्रुद्धः कालान्तकयमोपभः ।

6.91.9

तमापतन्तं सम्प्रेक्ष्य सन्क्रुद्धं भीमदर्शनम् ॥ स्वबलं च भयात्तस्य प्रायशो विमुखीकृतम् ।

6.91.10

ततो दुर्योधनो राजा घटोत्कचमुपाद्रवत् ॥ प्रगृह्य विपुलं चापं सिंहवद्विनदन्मुहुः ।

6.91.11

पृष्ठतोऽनुययौ चैनं स्रवद्भिः पर्वतोपमैः ॥
कुञ्जरैर्दशसाहस्रैर्वङ्गानामधिपः स्वयम् ॥

6.91.12

पुत्रं तव महाराज चुकोप स निशाचरः ।
ततः प्रववृते युद्धं तुमुलं रोमहर्षणम् ॥

6.91.13

राक्षसानां च राजेन्द्र दुर्योधनबलस्य च ।
गजानीकं च सम्प्रेक्ष्य मेघबृन्दमिवोदितम् ॥

6.91.14

अभ्यधावन्त सन्क्रुद्धा राक्षसाः शस्त्रपाणयः ।
नदन्तो विविधान्नादान्मेघा इव सविद्युतः ॥

6.91.15

शरशक्त्यृष्टिनाराचैर्निघ्नन्तो गजयोधिनः ।
भिण्डिपालैस्तथा शूलैर्मुद्गरैः सपरश्वथैः ॥

6.91.16

पर्वताग्रैश्च वृक्षैश्च निजघ्नुस्ते महागजान् ।
भिन्नकुम्भान्विरुधिरान्भिन्नगात्रांश्च वारणान् ॥

6.91.17

अपश्याम महाराज वध्यमानान्निशाचरैः ।
तेषु प्रक्षीयमाणेषु भग्नेषु गजयोधिषु ॥

6.91.18

दुर्योधनो महाराज राक्षसान्समुपाद्रवत् ।
अमर्षवशमापन्नस्त्यक्त्वा जीवितात्मनः ॥

6.91.19

मुमोच निशितान्बाणान्राक्षसेषु परन्तप ।
जघान च महेष्वासः प्रधानांस्तत्र राक्षसान् ॥

6.91.20

सन्क्रुद्धो भरतश्रेष्ठ पुत्रो दुर्योधनस्तव ।
वेगवन्तं महारौद्रं विद्युज्जिह्वं प्रमाथिनम् ॥

6.91.21

शरैश्चतुर्भिश्चतुरो निजघान महाबलः ।
ततः पुनरमेयात्मा शरवर्षं दुरासदम् ॥

6.91.22

मुमोच भरतश्रेष्ठो निशाचरबलं प्रति ।
तत्तु दृष्ट्वा महत्कर्म पुत्रस्य तव मारिष ॥

6.91.23

क्रोधेनाभिप्रजज्वाल भैमसेनिर्महाबलः ।
स विष्फार्य महच्चापमिन्द्राशनिसमप्रभम् ॥

6.91.24

अभिदुद्राव वेगेन दुर्योधनमरिन्दमम् ।
तमापतन्तमुद्वीक्ष्य कालसृष्टमिवान्तकम् ॥

6.91.25

न विव्यथे महाराज पुत्रो दुर्योधनस्तव ।
अथैनमब्रवीत्क्रुद्धः क्रूरः संरक्तलोचनः ॥
घटोत्कच उवाच ।

6.91.26

अद्यानृण्यं गमिष्यामि पितॄणां मातुरेव च ।
ये त्वया सुनृशंसेन दीर्घकालं प्रवासिताः ॥

6.91.27

यच्च ते पाण्डवा राजंश्छलद्यूते पराजिताः ।
यच्चैव द्रौपदी कृष्णा एववस्त्रा रजस्वला ॥

6.91.28

सभामानीय दुर्बुद्धे बहुधा क्लेशिता त्वया ।
तव च प्रियकामेन आश्रमस्था दुरात्मना ॥

6.91.29

सैन्धवेन परामृष्टा परिभूय पितॄन्मम ।
एतेषामपमानानामन्येषां च कुलाधम ॥

6.91.30

अन्तमद्य गमिष्यामि यदि नोत्सृजसे रणम् ।
एवमुक्त्वा तु हैडिम्बो महद्विष्फार्य कार्मुकम् ॥

6.91.31

सन्दश्य दशनैरोष्ठं सृकिणी परिसंलिहन् । शरवर्षेण महता दुर्योधनमवाकिरत् ।
पर्वतं वारिधाराभिः प्रावृषीव बलाहकः ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc