भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 6.92

6.92.1

ततस्तद्बाणवर्षं तु दुःसहं दानवैरपि ।
दधार युधि राजेन्द्रो यथा वर्षं महाद्विपः ॥

6.92.2

ततः क्रोधसमाविष्टो निःश्वसन्निव पन्नगः ।
संशयं परमं प्राप्तः पुत्रस्ते भरतर्षभ ॥

6.92.3

मुमोच निशितांस्तीक्ष्णान्नाराचान्पञ्चविंशतिम् ।
तेऽपतन्सहसा राजंस्तस्मिन्राक्षसपुङ्गवे ॥

6.92.4

आशीविषा इव क्रुद्धाः पर्वते गन्धमादने ।
स तैर्विद्धः स्रवन्रक्तं प्रभिन्न इव कुञ्जरः ॥

6.92.5

दध्रे मतिं विनाशाय राज्ञः स पिशिताशनः ।
जग्राह च महाशक्तिं गिरीणामपि दारिणीम् ॥

6.92.6

सम्प्रदीप्तां महोल्काभामशनिं ज्वलितामिव ।
तमागच्छन्महाबाहुर्जिघांसुस्तनयं तव ॥

6.92.7

तामुद्यतामभिप्रेक्ष्य वङ्गानामधिपस्त्वरन् ।
कुञ्जरं गिरिसन्काशं राक्षसं प्रत्यचोदयत् ॥

6.92.8

स नागप्रवरेणाजौ बलिना शीघ्रगामिना ।
यतो दुर्योधनरथस्तं मार्गं प्रत्यषेधयत् ॥

6.92.9

पन्थानं वारयामास कुञ्जरेण सुतस्य ते ।
मार्गमावारितं दृष्ट्वा राज्ञा वङ्गेन धीमता ॥

6.92.10

घटोत्कचो महाराज क्रोधसंरक्तलोचनः ।
उद्यतां तां महाशक्तिकं तस्मिंश्चिक्षेप वारणे ॥

6.92.11

स तयाऽभिहतो राजंस्तेन बाहुप्रमुक्तया ।
सञ्जातरुधिरोत्पीडः पपात च ममार च ॥

6.92.12

पतत्यथ गजे चापि वङ्गानामीश्वरो बली ।
जवेन समभिद्रुत्य जगाम धरणीतलम् ॥

6.92.13

दुर्योधोऽपि सम्प्रेक्ष्य पतितं वरवारणम् ।
प्रभग्नं च बलं दृष्ट्वा जगाम परमां व्यथाम् ॥

6.92.14

अशक्तः प्रतियोद्धुं वै दृष्ट्वा तस्य पराक्रमम् । क्षत्रधर्मं पुरस्कृत्य आत्मनश्चातिमानिताम् ।
प्राप्तेऽपक्रनये राजा तस्थौ गिरिरिवाचलः ॥

6.92.15

राधान च शितं बाणं कालाग्निसमतेजसम् ।
सुयोच धरमक्रुद्धस्तस्मिन्घोरे निशाचरे ॥

6.92.16

तमापतन्तं सम्प्रेक्ष्य वणिमिन्द्राशनिप्रभम् ।
लाघवान्मोचयामास महात्मा वै घटोत्कचः ॥

6.92.17

भूयश्च निननादोषं क्रोधसंरक्तलोचनः ।
त्रासयामास रौन्यानि युगन्ते जलदो यथा ॥

6.92.18

तं श्रुत्वा निनिदं घोरं तस्व भीमस्य रक्षसः ।
आचार्यमुसन्गम्य भीष्मः शान्तनवोऽब्रवीत् ॥

6.92.19

यथैव निनन्दो घोरः श्रूयते राक्षसेरितः ।
हैडिम्बो युध्यते नूनं राज्ञा दुर्योधनेन च ॥

6.92.20

नैष शक्यो हि सन्ग्रामे जेतुं भूतेन केनचित् ।
तत्र गच्छत भद्रं वो राजानं परिरक्षितुम् ॥

6.92.21

अभिद्रुत्य महाबाहुं राक्षसेन प्रपीडितम् ।
एतद्धि परमं कृत्यं सर्वेषां नः परन्तपाः ॥

6.92.22

पितामहवचः श्रुत्वा त्वरमाणा महारथाः ।
उत्तमं जवमास्थाय प्रययुर्यत्र कौरवः ॥

6.92.23

द्रोणश्च सोमदत्तश्च बाह्लीकोऽथ जयद्रथः ।
कृपो भिरिश्रवाः शल्य आवन्त्यः स बृहद्बलः ॥

6.92.24

अश्वत्थामा विकर्णश्च चित्रसेनो विविंशतिः ।
रथाश्चानेकसाहस्रा ये तेषामनुयायिनः ॥

6.92.25

अभिद्रुतं परीप्सन्तः पुत्रं दुर्योधनं तव ।
तदनीकमनाधृष्यं पालितं तु महारथैः ॥

6.92.26

पाततायिनमायान्तं प्रेक्ष्य राक्षससत्तमः ।
॥ .कम्पत महाबाहुर्मैनाक इव पर्वतःक ॥

6.92.27

प्रगृह्य विपुलं चापं ज्ञातिभिः परिवारितः ।
शूलमुद्गरहस्तैश्च नानाप्रहरणैरपि ॥

6.92.28

ततः समभवद्युद्धं तुमुलं रोमहर्षणम् ।
राक्षसानां च मुख्यस्य दुर्योधनबलस्य च ॥

6.92.29

धनुषां कूजतां शब्दः सर्वतस्तुमुलो रणे ।
अश्रूयत महाराज वंशानां दह्यतामिव ॥

6.92.30

शस्त्राणां पात्यमानानां कवचेषु शरीरिणाम् ।
शब्दः समभवद्राजन्गिरीणामिव भिद्यताम् ॥

6.92.31

वीरबाहुविसृष्टानां तोमराणां विशाम्पते ।
रूपमासीद्वियत्स्थानां सर्पाणामिव सर्पताम् ॥

6.92.32

ततः परमसन्क्रुद्धो विष्फार्य सुमहद्धनुः ।
राक्षसन्द्रो महाबाहुर्विनदन्भैरव रवम् ॥

6.92.33

आचार्यस्यार्धचन्द्रेण क्रुद्धश्चिच्छेद कार्मुकम् ।
सोमदत्तस्य भल्लेन ध्वजं चोन्मथ्य चानदत् ॥

6.92.34

बाह्लीकं च त्रिभिर्बाणैः प्रत्यविध्यत्स्तनान्तरे ।
कृपमेकेन विव्याध चित्रसेनं त्रिभिः शरैः ॥

6.92.35

पूर्णायतविसृष्टेन सम्यक्प्रणिहितेन च ।
जत्रुदेशे समासाद्य विकर्णं समताडयत् ॥

6.92.36

न्यषीदत्स्वरथोपस्थे शोणितेन परिप्लुतः ।
ततः पुनरमेयात्मा नाराचान्दश पञ्च च ॥

6.92.37

भूरिश्रवसि सन्क्रुद्धः प्राहिणोद्भरतर्षभ ।
ते वर्म भित्त्वा तस्याशु विविशुर्धरणीतलम् ॥

6.92.38

विविंशतेश्च द्रौणेश्च यन्तारौ समताडयत् ।
तौ पेततू रथोपस्थे रश्मीनुत्सृज्य वाजिनाम् ॥

6.92.39

सिन्धुराज्ञोऽर्धचन्द्रेण वाराहं स्वर्णभूषितम् ।
उन्ममाथ महाराज द्वितीयेनाच्छिनद्धनुः ॥

6.92.40

चतुर्भिरथ नाराचैरावन्त्यस्य महात्मनः ।
जघान चतुरो वाहान्क्रोधसंरक्तलोचनः ॥

6.92.41

पूर्णायतविसृष्टेन पीतेन निशितेन च ।
निर्बिभेद महाराज राजपुत्रं बृहद्बलम् ॥

6.92.42

स गाढविद्धो व्यथितो रथोपस्थ उपाविशत् ।
भृशं क्रोधेन चाविष्टो रथस्थो राक्षसाधिपः ॥

6.92.43

चिक्षेप निशितांस्तीक्ष्णाञ्छरानाशीविषोपमान् ।
बिभिदुस्ते महाराज शल्यं युद्धविशारदम् ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc