भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 6.90

6.90.1

वर्तमाने तथा रौद्रे राजन्वीरवरक्षये ।
शकुनिः सौबलः श्रीमान्पाण्डवान्समुपाद्रवत् ॥

6.90.2

तथैव सात्वतो राजन्हार्दिक्यः परवीरहा ।
अभ्यद्रवत सन्ग्रामे पाण्डवानां वरूथिनीम् ॥

6.90.3

ततः काम्भोजमुख्यानां नदीजानां च वाजिनाम् ।
आरट्टानां महीजानां सिन्धुजानां च सर्वशः ॥

6.90.4

वनायुजानां शुभ्राणां तथा पर्वतवासिनाम् ।
वाजिनां बहुभिः सङ्ख्ये समन्तात्परिवारयन् ॥

6.90.5

ये चापरे तित्तिरिजा जवना वातरंहसः ।
सुवर्णालङ्कृतैरेतैर्वर्मवद्भिः सुकल्पितैः ॥

6.90.6

हयैर्वातजवैर्मुख्यैः पाण्डवस्य सुतो बली ।
अभ्यवर्तत तत्सैन्यं हृष्टरूपः परन्तपाः ॥

6.90.7

अर्जुनस्य सुतः श्रीमानिरावान्नाम वीर्यवान् ।
सुतायां नागराजस्य जातः पार्थेन धीमता ॥

6.90.8

ऐरावतेन सा दत्ता अनपत्या महात्मना ।
पत्यौ हते सुपर्णेन कृपणा दीनचेतना ॥

6.90.9

कार्यार्थं तां च जग्राह पार्थः कामवशानुगाम् ।
एवमेष समुत्पन्नः परक्षेत्रेऽर्जुनात्मजः ॥

6.90.10

स नागलोके संवृद्धो मात्रा च परिरक्षितः ।
पितृव्येण परित्यक्तः पार्थद्वेषाद्दुरात्मना ॥

6.90.11

खमुत्पत्य महाराज नागराट् सत्यविक्रमः ।
इन्द्रलोकं जगामाशु श्रुत्वा तत्रार्जुनं गतम् ॥

6.90.12

सोऽभिगम्य महाबाहुः पितरं सत्यविक्रमः ।
अभ्यवादयदव्यग्रो विनयेन कृताञ्जलिः ॥

6.90.13

न्यवेदयत चात्मानमर्जुनस्य महात्मनः ।
इरावानस्मि भद्रं ते पुत्रश्चाहं तव प्रभो ॥

6.90.14

मातुः समागमो यश्च तत्सर्वं प्रत्यवेदयत् ।
तच्च सर्वं यथावृत्तमनुसस्मार पाण्डवः ॥

6.90.15

परिष्वज्य सुतं चापि आत्मनः सदृशं गुणैः ।
प्रीतिमाननयत्पार्थो देवराजनिवेशनम् ॥

6.90.16

सोऽर्जुनेन समाज्ञप्तो देवलोके तदा नृप ।
प्रीतिपूर्वं महाबाहुः स्वकार्यं प्रति भारत ॥

6.90.17

स चापि नरशार्दूलः शार्दूलसमविक्रमः । अब्रवीच्च तदा पार्थमयमस्मि तवानघ ॥

6.90.18

स्थितः प्रेष्यश्च पुत्रश्च सर्वथा त्वं प्रशाधि माम् ।
कं करोमि च ते कामं कं च कामं त्वमिच्छसि ॥

6.90.19

परिष्वज्य सुतं प्रेम्णा वासविः प्रत्युवाच तम् । प्रीतिपूर्वं च कार्यं च कार्या प्रीतिश्च मानदः ॥

6.90.20

युद्धकाले तु साहाय्यं दातव्यं नो भवेदिति ।
बाढमित्येवमुक्त्वा तु युद्धकाल इहागतः ॥

6.90.21

कामवर्णजवैरश्वैः सर्वतः शुशुभे वृतः ।
ते हयाः काञ्चनापीडा नानावर्णा मनोजवाः ॥

6.90.22

उत्पेतुः सहसा राजन्हंसा इव महोदधौ ।
ते त्वदीयान्समासाद्य हयसन्घान्मनोजवान् ॥

6.90.23

क्रोडैः क्रोडानभिघ्नन्तो घोणाभिश्च परस्परम् ।
निपेतुः सहसा राजन्सुवेगाभिहता भुवि ॥

6.90.24

निपतद्भिस्तथा तैश्च हयसङ्घैः परस्परम् ।
शुश्रुवे दारुणः शब्दः सुपर्णपतने यथा ॥

6.90.25

तथैव तावका राजन्समेत्यान्योन्यमाहवे ।
परस्परवधं घोरं चक्रुस्ते हयसादिनः ॥

6.90.26

तस्मिंस्तथा वर्तमाने सन्कुले तुमुले भृशम् ।
उभयोरपि संशान्ता हयसङ्घाः समन्ततः ॥

6.90.27

प्रक्षीणसायकाः शूरा निहताश्वाः श्रमातुराः ।
विलयं समनुप्राप्तास्तक्षमाणाः परस्परम् ॥

6.90.28

ततः क्षीणे हयानिके किञ्चिच्छेषे च भारत ।
सौबलस्यानुजाः शूरा निर्गता रणमूर्धनि ॥

6.90.29

वायुवेगसमस्पर्शाञ्जवे वायुसमांश्च ते ।
आरुह्य बलसम्पन्नान्वयःस्थांस्तुरगोत्तमान् ॥

6.90.30

गजो गवाक्षो वृषकश्चर्मवानार्जयः शुकः ।
षडेते बलसम्पन्ना निर्ययुर्महतो बलात् ॥

6.90.31

वार्यमाणाः शकुनिना स्वैश्च योधैर्महाबलैः ।
सन्नद्धा युद्धकुशला रौद्ररूपा महाबलाः ॥

6.90.32

तदनीकं महाबहो भित्त्वा परमदुर्जयम् ।
बलेन महता युक्ताः स्वर्गाय विजयैषिणः ॥

6.90.33

विविशुस्ते तदा हृष्टा गान्धारा युद्धदुर्मदाः ।
तान्प्रविष्टांस्तदा दृष्ट्वा इरावानपि वीर्यवान् ॥

6.90.34

अब्रवीत्समरे योधान्स्वान्विचित्रहयस्थितान् ।
यथैते धार्तराष्ट्रस्य योधाः सानुगवाहनाः ॥

6.90.35

हन्यन्ते समरे सर्वे तथा नीतिर्विधीयताम् ।
बाढमित्येवमुक्त्वा ते सर्वे योधा इरावतः ॥

6.90.36

जघ्नुस्तेषां बलानीकं दुर्जयं समरे परैः ।
तदनीकमनीकेन समरे वीक्ष्य पातितम् ॥

6.90.37

अमृष्यमाणास्ते सर्वे सुबलस्यात्मजा रणे ।
इरावन्तमभिद्रुत्य सर्वतः पर्यवारयन् ॥

6.90.38

ताडयन्तः शितैः प्रासैश्चोदयन्तः परस्परम् ।
ते शूराः पर्यधावन्त कुर्वन्तो महदाकुलम् ॥

6.90.39

इरावानथ निर्भिन्नः प्रासैस्तीक्ष्णैर्महात्मभिः ।
स्रवता रुधिरेणाक्तस्तोत्रैर्विद्ध इव द्विपः ॥

6.90.40

उरस्यपि च पृष्ठे च पार्श्वयोश्च भृशाहतः ।
एको बहुभिरत्यर्थं धैर्याद्राजन्न विव्यथे ॥

6.90.41

इरावानपि सन्क्रुद्धः सर्वास्तान्निशितैः शरैः ।
मोहयामास समरे विद्ध्वा परपुरञ्जयः ॥

6.90.42

प्रासानुत्कृष्य तरसा स्वशरीरादरिन्दमः ।
तैरेव ताडयामास सुबलस्यात्मजान्रणे ॥

6.90.43

विकृष्य च शितं खङ्गं गृहीत्वा च शरावरम् ।
पदातिर्द्रुतमागच्छज्जिघांसुः सौबलान्युधि ॥

6.90.44

ततः प्रत्यागतप्राणाः सर्वे ते सुबलात्मजाः ।
भूयः क्रोधसमाविष्टा इरावन्तमभिद्रुताः ॥

6.90.45

इरावानपि खङ्गेन दर्शयन्पाणिलाघवम् ।
अभ्यवर्तत देवांश्च मानुषांश्चैव संयुगे ॥

6.90.46

लाघवेनाथ चरतः सर्वे ते सुबलात्मजाः ।
अन्तरं नाभ्यगच्छन्त चरन्तः शीघ्रगैर्हयैः ॥

6.90.47

भूमिष्ठमथ तं सह्ख्ये ह्यन्तरिक्षादवप्लुतम् ।
परिवार्य भृशं सर्वे ग्रहीतुमुपचक्रमुः ॥

6.90.48

अथाभ्याशगतानां तेषां गात्राण्यकृन्तत ।
असिहस्तोऽस्त्रहस्तानां तेषां गात्राण्यकृन्तत ॥

6.90.49

आयुधानि च सर्वेषां बाहूनपि विभूषितान् ।
अपतन्त निकृत्ताङ्गा मृता भूमौ गतासवः ॥

6.90.50

वृषकस्तु महाराज बहुधा विपरिक्षतः ।
अमुच्यत महारौद्रात्तस्माद्वीरावकर्तनात् ॥

6.90.51

तान्सर्वान्पतितान्दृष्ट्वा भीतो दुर्योधनस्ततः ।
अभ्यधावत सन्क्रुद्धो राक्षसं घोरदर्शनम् ॥

6.90.52

आर्श्यशृङ्गिं महेष्वासं मायाविनमरिन्दमम् ।
वैरिणं भीमसेनस्य पूर्वं बकवधेन वै ॥

6.90.53

पश्य वीर यथा ह्येष फल्गुनस्य सुतो बली ।
मायावी विप्रियं कर्तुमकार्षीन्मे बलक्षयम् ॥

6.90.54

त्वं च कामगमस्तात मायास्त्रे च विशारदः ।
कृतवैरश्च पार्थेन तस्मादेनं रणे जहि ॥

6.90.55

बाढमित्येवमुक्त्वा तु राक्षसो घोरदर्शनः ।
प्रययौ सिंहनादेन यत्रार्जुनसुतो युवा ॥

6.90.56

स योधैर्युद्धकुशलैर्विमलप्रासयोधिभिः ।
वीरैः प्रहारिभिर्युक्तैः स्वैरनीकैः समावृतः ॥

6.90.57

[हतशेषैर्महाराज द्विसाहस्त्रैर्हयोत्तमैः] निहन्तुकामः समरे इरावन्तं महाबलम् ॥

6.90.58

इरावानपि सन्क्रुद्धस्त्वरमाणः पराक्रमी हन्तुकाममयित्रघ्नो राक्षसं प्रत्यवारयत् ॥

6.90.59

तमापतन्तं सम्प्रेक्ष्य राक्षसः सुमहाबलः ।
त्वरमाणस्ततो मायां प्रयोक्तुमुपचक्रमे ॥

6.90.60

तेन मायामयाः सृष्टा हयास्तावन्त एव हि ।
स्वारूढा राक्षसैर्घोरैः शूलपट्टसधारिभिः ॥

6.90.61

ते संरब्धाः समागम्य द्विसाहस्राः प्रहारिणः ।
अचिराद्गमयामासुः प्रेतलोकं परस्परम् ॥

6.90.62

तस्मिंस्तु निहते सैन्ये तावुभौ युद्धदुर्मदौ ।
सन्ग्रामे समतिष्ठेतां यथा वै वृत्रवासवौ ॥

6.90.63

आद्रवन्तमभिप्रेक्ष्य राक्षसं युद्धदुर्मदम् ।
इरावाथ संरब्धः प्रत्यधावन्महाबलः ॥

6.90.64

समभ्याशगतस्याजौ तस्य खङ्गेन दुर्मदः ।
चिच्छेद कार्मुकं दीप्तं शरवापं च कञ्चुकम् ॥

6.90.65

स निकृत्तं धनुर्दृष्ट्वा खं जवेन समाविशत् ।
इरावन्तमभिक्रुद्धं मोहयन्निव मायया ॥

6.90.66

ततोऽन्तरिक्षमुत्पत्य इरावानपि राक्षसम् ।
विमोहयित्वा मायाभिसत्स्य गात्रामि सायकैः ॥

6.90.67

चिच्छेद सर्वमर्मज्ञः कामरूपो दुरासदः ।
तथा स राक्षसश्रेष्ठः शरैः कृत्तः पुनः पुनः ॥

6.90.68

सम्बभूव महाराज समवाप च यौवनम् ।
माया हि सहराज समवाप च यौवनम् ॥

6.90.69

एवं तद्राक्षसस्याङ्गं छिन्नञ्छिन्नं व्यरोहत ।
इरावानपि सन्क्रुद्धो राक्षसं त महाबलम् ॥

6.90.70

परश्वथेन तीक्ष्णेन चिच्छेद च पुनः पुनः . स तेन बलिना वीरश्छिद्यमान इव द्रुमः ॥ 6-90-71अराक्षसो व्यनदद्धोरं स शब्दस्तुमुलोऽभवत् । परश्वथक्षतं रक्षः सुस्राव बहुशोणितम् ॥

6.90.72

ततश्रुक्रोध बलवांश्चक्रे वेगं च संयुगे ।
आर्श्यशृङ्गिस्ततो दृष्ट्वा समरे शत्रुमूर्चितम् ॥

6.90.73

कृत्वा घोरं महद्रूपं ग्रहीतुमुपचक्रमे ।
अर्जुनस्य सुतं वीरमिरावन्तं यशस्विनम् ॥

6.90.74

सन्ग्रामशिरसो मध्ये सर्वेषां तत्र पश्यताम् ।
तां दृष्ट्वा तादृशीं मायां राक्षसस्य दुरात्मनः ॥

6.90.75

इरावानपि सन्क्रुद्धो मायां स्रष्टुं प्रचक्रमे ।
तस्य क्रोधाभिभूतस्य समरेष्वनिवर्तिनः ॥

6.90.76

योऽन्वयो मातृकस्तस्य स एनमभिपेदिवान् ।
स नागैर्बहुभी राजन्निरावान्संवृतो रणे ॥

6.90.77

दधार सुमहद्रूपमनन्त इव भोगवान् ।
ततो बहुविधैर्नागैश्छादयामास राक्षसम् ॥

6.90.78

छाद्यमानस्तु नागैः स ध्यात्वा राक्षसपुङ्गवः ।
सौपर्णं रूपमास्थाय भक्षयामास पन्नगम् ॥

6.90.79

मायया भक्षिते तस्मिन्नन्वये तस्य मातृके ।
विमोहितमिरावन्तं न्यहनद्राक्षसोऽसिना ॥

6.90.80

सकुण्डलं समुकुटं पद्मेन्दुसदृशप्रभम् ।
इरावतः शिरो रक्षः पातयामास भूतले ॥

6.90.81

तस्मिंस्तु निहते वीरे राक्षसेनार्जुनात्मजे ।
विशोकाः समपद्यन्त धार्तराष्ट्राः सराजकाः ॥

6.90.82

तस्मिन्महति सन्ग्रामे तादृशे भैरवे पुनः ।
महान्व्यतिकरो घोरः सेनयोः समपद्यत ॥

6.90.83

गजा हयाः पदाताश्च विमिश्रा दन्तिभिर्हताः ।
रथाश्वा दन्तिनश्चैव पत्तिभिस्तत्र सूदिताः ॥

6.90.84

तथा पत्तिरथौघाश्च हयाश्च बहवो रणे ।
रथिभिर्निहता राजंस्तव तेषां च सन्कुले ॥

6.90.85

अजानन्नर्जुनश्चापि निहतं पुत्रमौरसम् ।
जघान समरे शूरान्राज्ञस्तान्भीष्मरक्षिणः ॥

6.90.86

तथैव तावका राजन्सृञ्जयाश्च सहस्रशः ।
जुह्वतः समरे प्राणान्निजघ्रुरितरेतरम् ॥

6.90.87

मुक्तकेशा विकवचा विरथाश्छिन्नकार्मुकाः ।
बाहुभिः समयुध्यन्त समवेताः परस्परम् ॥

6.90.88

तथा मर्मातिगैर्भीष्मो निजघान महारथान् ।
कम्पयन्समरे सेनां पाण्डवानां परन्तपः ॥

6.90.89

तेन यौधिष्ठिरे सैन्ये बहवो मानवा हताः ।
दन्तिनः सादिनश्चैव रथिनोऽथ हयास्तथा ॥

6.90.90

तत्र भारत भीष्मस्य रणे दृष्ट्वा पराक्रमम् ।
अत्यद्भुतमपश्याम शक्रस्येव पराक्रमम् ॥

6.90.91

तथैव भीमसेनस्य पार्षतस्य च भारत ।
रौद्रमासीद्रणे युद्धं सात्यकस्य च धन्विनः ॥

6.90.92

दृष्ट्वा द्रोणस्य विक्रान्तं पाण्डवान्भयमाविशत् ।
एक एव रणे शक्तो निहन्तुं सर्वसैनिकान् ॥

6.90.93

किं पुनः पृथिवीशूरैर्योधव्रातैः समावृतः ।
इत्यब्रुवन्महाराज रणे द्रोणेन पीडिताः ॥

6.90.94

वर्तमाने तथा रौद्रे सन्ग्रामे भरतर्षभ ।
उभयोः सेनयोः शूरा नामृष्यन्त परस्परम् ॥

6.90.95

आविष्टा इव युध्यन्ते रक्षोभूतैर्महाबलैः ।
तावकाः पाण्डवेयाश्च संरब्धास्तात धन्विनः ॥

6.90.96

न स्म पश्यामहे कञ्चित्प्राणान्यः परिरक्षति ।
दैवासुराभे समरे तस्मिन्योधा नराधिप ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc