भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 6.89

6.89.1

दृष्ट्वा मे निहतान्पुत्रान्बहूनेकेन सञ्जय ।
भीष्मो द्रोणः कृपश्चैव किमकुर्वत संयुगे ॥

6.89.2

अहन्यहनि मे पुत्राः क्षयं गच्छन्ति सञ्जय ।
मन्येऽहं सर्वथा पुत्रान्दैवेनोपहतान्भृशम् ॥

6.89.3

यत्र मे तनयाः सर्वे जीयन्ते न जयन्त्युत ।
यत्र भीष्मस्य द्रोणस्य कृपस्य च महात्मनः ॥

6.89.4

सौमदत्तेश्च वीरस्य भगदत्तस्य चोभयोः ।
अश्वत्थाम्नस्तथा तात शूराणामनिवर्तिनाम् ॥

6.89.5

अन्येषां चैव शूराणां मध्यगास्तनया मम ।
यदहन्यन्त सन्ग्रामे किमन्यद्भागधेयतः ॥

6.89.6

न हि दुर्योधनो मन्दः पुरा प्रोक्तमबुध्यत ।
वार्यमाणो मया तात भीष्मेण विदुरेण च ॥

6.89.7

गन्धार्या चैव दुर्मेधाः सततं हितकाम्यया ।
नाबुध्यत पुरा मोहात्तस्य प्राप्तमिदं फलम् ॥

6.89.8

यद्भीमसेनः समरे पुत्रान्मम विचेतसः ।
अहन्यहनि सन्क्रुद्धो नयते यमसादनम् ॥

6.89.9

इदं तत्समनुप्राप्तं क्षत्तुर्वचनमुत्तमम् ।
न बुद्धवानस्मि विभो प्रोच्यमानमिदं तदा ॥

6.89.10

निवारय सुतं द्यूतात्पाण्डवान्मा द्रुहेति च ।
सुहृदां हितकामानां ब्रुवतां तत्तदेव च ॥

6.89.11

न शृणोमि पुरा वाक्यं मर्त्यः पथ्यमिवौषधम् ।
तदिदं समनुप्राप्तं वचनं साधु भाषितम् ॥

6.89.12

विदुरद्रोणभीष्माणां तथाऽन्येषां हितैषिणाम् ।
अकृत्वा वचनं पथ्यं क्षयं गच्छन्ति कौरवाः ॥

6.89.13

तदेतत्समतिक्रान्तं पूर्वमेव हि सञ्जय ।
तस्मान्मे वद तत्त्वेन यथा युद्धमवर्तत ॥
सञ्जय उवाच ।

6.89.14

मध्याह्ने मुमहारौद्रः सन्ग्रामः समुपद्यत ।
लकक्षयकरो राजंस्तन्मे निगदतः शृणु ॥

6.89.15

ततः सर्वाणि सैन्यानि धर्मपुत्रस्य शासनात् ।
संरब्धान्यभ्यवर्तन्त भीष्ममेव जिघांसया ॥

6.89.16

धृष्टद्युम्नः शिखण्डी च सात्यकिश्च महारथः ।
युक्तानीका महाराज भीष्ममेव समभ्ययुः ॥

6.89.17

विराटो द्रुपदश्चैव सहिताः सर्वसोमकैः ।
अभ्यद्रवन्त सन्ग्रामे भीष्ममेव महारथम् ॥

6.89.18

केकया धृष्टकेतुश्च कुन्तिभोजश्च दंशितः ।
शुक्तानीका महाराज भीष्ममेव समभ्ययुः ॥

6.89.19

अर्जुनो द्रौपदश्चैव कुन्तिभोजश्च दंशितः ।
दुर्योधनसमादिष्टान्राज्ञः सर्वान्समभ्ययुः ॥

6.89.20

अभिमन्युस्तथा शूरो हैडिम्बश्च महारथः ।
भीमसेनश्च सन्क्रुद्धस्तेऽभ्यधावन्त कौरवान् ॥

6.89.21

त्रिधाभूतैरवध्यन्त पाण्डवैः कौरवा युधि ।
तथैव कौरवै राजन्नवध्यन्त परे रणे ॥

6.89.22

द्रोणस्तु रथिनां श्रेष्ठः सोमकान्सृञ्जयैः सह ।
अभ्यधावत सन्क्रुद्धः प्रेषयिष्यन्यमक्षयम् ॥

6.89.23

तत्राक्रन्दो महानासीत्सृञ्जयानां महात्मानाम् ।
वध्यतां समरे राजन्भारद्वाजेन धन्विना ॥

6.89.24

द्रोणेन निहतास्तत्र क्षत्रिया बहवो रणे ।
विचेष्टन्तो हृदृश्यन्त व्याधिक्लिष्टा वरा इव ॥

6.89.25

कूजतां क्रन्दतां चैव स्तनतां चैव भारत ।
अनिशं शुश्रुवे शब्दः क्षुत्क्लिष्टानां नृणामिव ॥

6.89.26

तथैव कौरवेयाणां भीमसेनो महाबलः ।
चकार कदनं घोरं क्रुद्धः काल इवापरः ॥

6.89.27

वध्यतां तत्र सैन्यानामन्योन्येन महारणे ।
प्रावर्तत नदी घोरा रुधिरौघपरवाहिनी ॥

6.89.28

स सन्ग्रामो महाराज घोररूपोऽभवन्महान् ।
कुरूणां पाणडवानां च यमराष्ट्रविवर्धनः ॥

6.89.29

ततो भीमो रणे क्रुद्धो रभसश्च विशेषतः ।
गजानीकं समासाद्य प्रेषयामास मृत्यवे ॥

6.89.30

तत्र भारत भीमेन नाराचाभिहता गजाः ।
पेतुर्नेदुश्च सेदुश्च दिशश्च परिबभ्रमुः ॥

6.89.31

छिन्नहस्ता महानागाश्छिन्नगात्राश्च मारिष ।
क्रौञ्चवद्व्यनदन्भीताः पृथिवीमधिशेरते ॥

6.89.32

नकुलः सहदेवश्च हयानीकमभिद्रुतौ ।
ते हयाः काञ्चनापीडा रुक्मभाण्डपरिच्छदाः ॥

6.89.33

वध्यमाना व्यदृश्यन्त शतशोऽथ सहस्रशः ।
पतिद्भिस्तुरगै राजन्समास्तीर्यत मेदिनी ॥

6.89.34

निर्जिह्वैश्च श्वसद्भिश्च कूजद्भिश्च गतासुभिः ।
हयैर्बभौ नरश्रेष्ठ नानारूपधरैर्धरा ॥

6.89.35

अर्जुनेन हतैः सङ्ख्ये तथा भारत राजभिः ।
प्रबभौ वसुधा घोरा तत्रतत्र विशाम्पते ॥

6.89.36

रथैर्भग्नैर्ध्वजैश्छिन्नैर्निकृत्तैश्च महायुधैः ।
चामरैर्व्यजनैश्चैव च्छत्रैश्च सुमहाप्रभैः ॥

6.89.37

हरैर्निष्कैः सकेयूरैः शिरोभिश्च सकुण्डलैः ।
उष्णीषैरपविद्धैश्च पताकाभिश्च सर्वशः ॥

6.89.38

अनुकर्षैः शुभै राजन्योक्रैश्चैव सरश्मिभिः ।
सन्कीर्णा वसुधा भाति वसन्ते कुसुमैरिव ॥

6.89.39

एवमेष क्षयो वृत्तः पाण्डूनामपि भारत ।
क्रुद्धे शान्तनवे भीष्मे द्रोणे च रथसत्तमे ॥

6.89.40

अश्वत्थाम्नि कृपे चैव तथैव कृतवर्मणि ।
तथेतरेषु क्रुद्धेषु तावकानामपि क्षयः ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc