भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 6.88

6.88.1

भीष्मं तु समरे क्रुद्धं प्रतपन्तं समन्ततः ।
न शेकुः पाण्डवा द्रष्टुं तपन्तमिव भास्करम् ॥

6.88.2

ततः सर्वाणि सैन्यानि धर्मपुत्रस्य शासनात् ।
अभ्यद्रवन्त गाङ्गेयं मर्दयन्तं शितैः शरैः ॥

6.88.3

स तु भीष्मो रणश्लाघी तोमकान्सहसृज्जयान् ।
पाञ्चालांश्च महेष्वासान्पातयामास सायकैः ॥

6.88.4

ते वध्यमाना भीष्मेण पाञ्चालाः पाण्डवैः सह ।
भीष्ममेवाभ्ययुस्तूर्णं त्यक्त्वा मृत्युकृतं भयम् ॥

6.88.5

स तेषां रथिनां वीरो भीष्मः शान्तनवो युधि ।
चिच्छेद सहसा राजन्बाहूनथ शिरांसि च ॥

6.88.6

विरथान्रथिनश्चक्रे पिता देवव्रतस्तव ।
पतितान्युत्तमाङ्गानि हयेभ्यो हयसादिनाम् ॥

6.88.7

निर्मनुष्यांश्च मातङ्गाञ्शयानान्पर्वतोपमान् ।
अपश्याम महाराज भीष्मास्त्रेण प्रमाथितान् ॥

6.88.8

न तत्रासीत्पुमान्कश्चित्पाण्डवानां विशाम्पते ।
अन्यत्र रथिनां श्रेष्ठद्भीमसेनान्महाबलात् ॥

6.88.9

स हि भीष्मं समासाद्य छादयामास सायकैः ।
ततो निष्टानको घोरो भीष्मभीमसमागमे ॥

6.88.10

बभूव सर्वसैन्यानां घोररूपो भयानकः ।
तथैव पाण्डवा हृष्टाः सिंहनादमथानदन् ॥

6.88.11

ततो दुर्योधनो राजा सोदर्यैः परिवारितः ।
भीष्मं जुगोप समरे वर्तमाने जनक्षये ॥

6.88.12

भीमस्तु सारथिं हत्वा भीष्मस्य रथिनां वरः ।
प्रद्रुताश्वे रथे तस्मिन्द्रवमाणे समन्ततः ॥

6.88.13

सुनाभस्य शरेणाशु शिरश्चिच्छेद भारत ।
क्षुरप्रेण सुतीक्ष्णेन स हतो न्यपतद्भुवि ॥

6.88.14

हते तस्मिन्महाराज तव पुत्रे महारथे ।
नामृष्यन्त रणे शूराः सोदराः सप्त संयुगे ॥

6.88.15

आदित्यकेतुर्बह्वाशी कुण्डधारो महोदरः ।
अपराजितः पण्डितको विशालाक्षः सुदुर्जयः ॥

6.88.16

पाण्डवं चित्रसन्नाहा विचित्रकवचध्वजाः ।
अभ्यद्रवन्त सन्ग्रामे योद्धुकामारिमर्दनाः ॥

6.88.17

महोदरस्तु समरे भीमं विव्याध पत्रिभिः ।
नवभिर्वद्रसन्काशैर्नमुचिं वृत्रहा यथा ॥

6.88.18

आदित्यकेतुः सप्तत्या बह्वाशी चापि पञ्चभिः ।
नवत्या कुण्डधारश्च विशालाक्षश्च पञ्चभिः ॥

6.88.19

अपराजितो महाराज पराजिष्णुर्महारथम् ।
शरैर्बहुभिरानर्च्छद्भीमसेनं महाबलम् ॥

6.88.20

रणे पण्डितकश्चैनं त्रिभिर्बाणैः समार्पयत् ।
स तं न ममृषे भीमः शत्रुभिर्वधमाहवे ॥

6.88.21

धनुः प्रपीड्य वामेन करेणामित्रकर्सनः ।
शिरश्चिच्छेद समरे शरेणानतपर्वणा ॥

6.88.22

अपराजितस्य सुनसं तव पुत्रस्य संयुगे ।
पराजितस्य भीमेन कृत्तं गामपतच्छिरः ॥

6.88.23

अथापरेण भल्लेन कुण्डधारं महारथम् ।
प्राहिणोन्मृत्युलोकाय सर्वलोकस्य पश्यतः ॥

6.88.24

ततः पुनरमेयात्मा प्रसन्धाय शिलीमुखम् ।
प्रेषयामास समरे पण्डितं प्रति भारत ॥

6.88.25

स शरः पण्डितं हत्वा विवेश धरणीतलम् ।
यथा नरं निहत्याशु भुजगः कालचोदितः ॥

6.88.26

विशालाक्षशिरश्छित्त्वा पातयामास भूतले ।
त्रिभिः शरैरदीनात्मा स्मरन्क्लेशं पुरातनम् ॥

6.88.27

महोदरं महेष्वासं नाराचेन स्तनान्तरे ।
विव्याध समरे राजन्स हतो न्यपतद्भुवि ॥

6.88.28

आदित्यकेतोः केतुं च च्छित्त्वा बाणेन संयुगे ।
भल्लेन भृशतीक्ष्णेन शिरश्चिच्छेद भारत ॥

6.88.29

बह्वाशिनं तत भीमः शरेणानतर्वणा ।
प्रेषयामास सन्क्रुद्धो यमस्य सदनं प्रति ॥

6.88.30

प्रदुद्रुवुस्ततस्तेऽन्ये पुत्रास्तव विशाम्पते ।
मन्यमाना हि तत्सत्यं सभायां तस्य भाषितम् ॥

6.88.31

ततो दुर्योधनो राजा भ्रातृव्यसनकर्शितः ।
अब्रवीत्तावकान्योधान्भीमोऽयं वध्यतामिति ॥

6.88.32

एवमेते महेष्वासाः पुत्रास्त्व विशाम्पते ।
भ्रातॄन्सन्दृश्य निहतान्प्रस्मरंस्ते हि तद्वचः ॥

6.88.33

यदुक्तवान्महाप्राज्ञः क्षत्ता हितमनामयम् ।
तदिदं समनुप्राप्तं वचनं दिव्यदर्शिनः ॥

6.88.34

लोभमोहसमाविष्टः पुत्रप्रीत्या जनाधिप ।
न बुध्यसे पुरा यत्तत्तथ्यमुक्तं वचो महत् ॥

6.88.35

तथैव च वधार्थाय पुत्राणां पाण्डवो बली ।
नूनं जातो महाबाहुर्यथा हन्ति स्म कौरवान् ॥

6.88.36

ततो दुरयोधनो राजा भीष्ममासाद्य संयुगे ।
दुःखेन महताऽविष्टो विललाप सुदुःखितः ॥

6.88.37

निहता भ्रातरः शूरा भीमसेनेन मे युधि ।
यतमानास्तथान्येऽपि हन्यन्ते सर्वसैनिकाः ॥

6.88.38

भवांश्च मध्यस्थतया नित्यमस्मानुपेक्षते ।
सोऽहं कुपथमारूढः पश्य दैवमिदं मम ॥

6.88.39

एतच्छ्रुत्वा वचः क्रूरं पिता देवव्रतस्तव ।
दुर्योधनमिदं वाक्यमब्रवीत्समाश्रुलोचनः ॥

6.88.40

उक्तमेतन्मया पूर्वं द्रोणेन विदुरेण च ।
गान्धार्या च यशस्विन्या तत्त्वं तात न बुद्धवान् ॥

6.88.41

समयश्च मया पूर्वं कृतो वै शत्रुकर्शन ।
नाहंयुधि नियोक्तव्यो नाप्याचार्यः कथञ्चना ॥

6.88.42

यय हि धर्तराष्ट्राणां भीमो द्रक्ष्यति संयुगे ।
हनिष्यति रणे नित्यं सत्यमेतद्ब्रवीमि ते ॥

6.88.43

स त्वं राजन्स्थिरो भूत्वा रणे कृत्वा दृढां मतिम् ।
योधयस्व रणे पार्थान्स्वर्गं कृत्वा परायणम् ॥

6.88.44

न शक्यः पाण्डवा जेतुं सेन्द्रैरपि सुरासुरैः ।
तस्माद्युद्धे स्थिरां कृत्वा मतिं युद्ध्यस्व भारत ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc