भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 6.83

6.83.1

बहूनि हि विचित्राणि द्वैरथानि स्म सञ्जय ।
पाण्डूनां मामकैः सार्धमश्रौषं तव जल्पतः ॥

6.83.2

न चैव मामकं किञ्चिद्धृष्टं शंससि सञ्जय ।
नित्यं पाण्डुसुतान्हृष्टानभग्नान्सम्प्रशंससि ॥

6.83.3

जीयमानान्विमनसो मामकान्विगतौजसः ।
वदसे संयुगे सूत दिष्टमेतन्न संशयः ॥
सञ्जय उवाच ।

6.83.4

यथाशक्ति यथोत्साहं युद्धे चेष्टन्ति तावकाः ।
दर्शयानाः परं शक्त्या पौरुषं पुरुषर्षभ ॥

6.83.5

गङ्गायाः सुरनद्या वै स्वादुभूतं यथोदकम् ।
महोदधिसमभ्याशे लवणत्वं निगच्छति ॥

6.83.6

तथा तत्पौरुषं राजंस्तावकानां परन्तप ।
प्राप्य पाण्डुसुतान्वीरान्व्यर्थं भवति संयुगे ॥

6.83.7

घटमानान्यथाशक्ति कुर्वाणान्कर्म दुष्करम् ।
न दोषेण कुरुश्रेष्ठ कौरवान्गन्तुमर्हसि ॥

6.83.8

तवापराधात्सुमहान्सपुत्रस्य विशाम्पते ।
पृतिव्याः प्रक्षयो घोरो यमराष्ट्रविवर्धनः ॥

6.83.9

आत्मदोषात्समुत्पन्नं शोचितुं नार्हसे नृप ।
न हि रक्षन्ति राजानः सर्वथाऽत्रापि जीवितम् ॥

6.83.10

युद्धे सुकृतिनां लोकानिच्छन्तो वसुधाधिपाः ।
चमूं विगाह्य युद्ध्यन्ते नित्यं स्वर्गपरायणाः ॥

6.83.11

पूर्वाह्णे तु महाराज प्रावर्तत जनक्षयः ।
तं त्वमेकमना भूत्वा शृणु देवासुरोपमम् ॥

6.83.12

आवन्त्यौ तु महेष्वासौ महासेनौ महाबलौ ।
युधामन्युमभिप्रेक्ष्य समेयता रणोत्कटौ ॥

6.83.13

तेषां प्रववृते युद्धं समुहद्रोणहर्षणम् ।
युधामन्युः सुसन्क्रुद्धो भ्रातरौ देवरूपिणौ ॥

6.83.14

विव्याध निशितैस्तूर्णं शरैः सन्नतपर्वभिः ।
तावेनं प्रत्यविध्येतां समरे चित्रयोधिनौ ॥

6.83.15

युध्यतां हि तथा राजन्विशेषो न व्यदृश्यत ।
यततां शत्रुनाशाय कृतप्रतिकृतैषिणाम् ॥

6.83.16

युधामन्युस्ततो राजन्ननुविन्दस्य सायकैः ।
चतुर्भिश्चतुरो वाहाननयद्यमसादनम् ॥

6.83.17

भल्लाभ्यां च सुतीक्ष्णाभ्यां धनुः केतुं च मारिष ।
चिच्छेद समरे राजंस्तदद्भुतमिवाभवत् ॥

6.83.18

त्यक्त्वाऽनुविन्दोऽथ रथं विन्दस्य रथमास्थितः ।
धनुर्गृहीत्वा परमं भारसाधनमुत्तमम् ॥

6.83.19

तावेकस्थौ रणे वीरावावन्त्यौ रथिनां वरौ ।
शरान्मुमुचतुस्तूर्णं युधामन्यौ महात्मनि ॥

6.83.20

ताभ्यां मुक्ता महावेगाः शराः काञ्चनभूषणाः ।
दिवाकरपथं प्राप्य च्छादयामासुरम्बरम् ॥

6.83.21

युधामन्यू रणे क्रुद्धो भ्रातरौ तौ महारथौ ।
ववर्ष शरवर्षेण सारथिं चाप्यपातयत् ॥

6.83.22

तस्मिंस्तु पतिते भूमौ गतसत्वे तु सारथौ ।
रथः प्रदुद्राव दिशः समुद्धान्तहयस्ततः ॥

6.83.23

तौ स जित्वा महाराज यज्ञसेनसुतः प्रभुः ।
पौरुषं ख्यापयंस्तूर्णं व्यधमत्तव वाहिनीम् ॥

6.83.24

सा वध्यमाना समरे धार्तराष्ट्री महाचमूः ।
वेगान्बहुविधांश्चक्रे विषं पीत्वेन मानवः ॥

6.83.25

हैडिम्बो राक्षसेन्द्रस्तु भगदत्तं समाद्रवत् ।
रथेनादित्यवर्णेन सध्वजेन महाबलः ॥

6.83.26

ततः प्राग्ज्योतिषो राजा नागराजं समास्थितःक ।
यथा वज्रधरः पूर्वं सन्ग्रामे तारकामये ॥

6.83.27

तत्र देवाः सगन्धर्वा ऋषयश्च समागताः ।
विशेषं न स्म विविदुर्हैडिम्बभगदत्तयोः ॥

6.83.28

यथा सुरपतिः शक्रस्त्रासयामास दानवान् ।
तथैव समरे राजा द्रावयामास पाण्डवान् ॥

6.83.29

तेन विद्राव्यमाणास्ते पाण्डवाः सर्वतो दिशम् ।
त्रातारं नाभ्यगच्छन्तः स्वेष्वनीकेषु भारत ॥

6.83.30

भैमसेनिं रथस्थं तु तत्रापश्याम भारत ।
शेषा विमनसो भूत्वा प्राद्रवन्त महारथाः ॥

6.83.31

निवृत्तेषु तु पाण्डूनां पुनः सैन्येषु भारत ।
आसीन्निष्ठानको घोरस्तव सैन्यस्य संयुगे ॥

6.83.32

घटोत्कचस्ततो राजन्भगदत्तं महारणे ।
शरैः प्रच्छादयामास मेरुं गिरिमिवाम्बुदः ॥

6.83.33

निहत्य ताञ्शरान्राजा राक्षसस्य धनुश्र्युतान् ।
भैमसेनिं रणे तूर्णं सर्वमर्मस्वताडयत् ॥

6.83.34

स ताड्यमानो बहुभिः शरैः सन्नतपर्वभिः ।
न विव्यथे राक्षसन्द्रो भिद्यमान इवाचलः ॥

6.83.35

तस्य प्राग्ज्योतिषः क्रुद्धस्तोमरांश्च चतुर्दश ।
प्रेषयामास समरे तांश्चिच्छेद स राक्षसः ॥

6.83.36

स तांश्छित्त्वा महाबाहुस्तोमरान्निशितैः शरैः ।
भगदत्तं च विव्याध सप्तत्या कङ्कपत्रिभिः ॥

6.83.37

ततः प्राग्ज्योतिषो राजा प्रहसन्निव भारत ।
तस्याश्वांश्चतुरः सङ्ख्ये पातयामास सायकैः ॥

6.83.38

स हताश्वे रथे तिष्ठन्राक्षसेन्द्रः प्रतापवान् ।
शक्तिं चिक्षेप वेगेन प्रग्ज्योतिषगजं प्रति ॥

6.83.39

तामापतन्तीं सहसा हेमदण्डां सुवेगिनीम् ।
त्रिधा चिच्छेद नृपतिः सा व्यकीर्यत मेदिनीं ॥

6.83.40

शक्तिं विनिहतां दृष्ट्वा हैडिम्बः प्राद्रवद्भयात् ।
यथेन्द्रस्य रणात्पूर्वं नमुचिर्दैत्यसत्तमः ॥

6.83.41

तं विजित्य रणे शूरं विक्रान्तं ख्यातपौरुषम् ।
अजय्यं समरे वीरं यमेन वरुणेन च ॥

6.83.42

पाण्डवीं समरे सेनां सम्ममर्द स कुञ्जरः ।
यथा वनगजो राजन्मृद्गश्चरति पद्मिनीम् ॥

6.83.43

मद्रेश्वरस्तु समरे यमाभ्यां समसञ्जत ।
स्वस्त्रीयौ छादयाञ्चक्रे शरौघैः पाण्डुनन्दनौ ॥

6.83.44

सहदेवस्तु समरे मातुलं दृश्य सन्गतम् ।
अवारयच्छरौघेण मेघो यद्वद्दिवाकरम् ॥

6.83.45

छाद्यमानः शरौघेण हृष्टरूपतरोऽभवत् ।
तयोश्चाप्यभवत्प्रीतिरतुला मातृकारणात् ॥

6.83.46

ततः प्रहस्य समरे नकुलस्य महारथः ।
ध्वजं चिच्छेद बाणेन धनुश्चैकेन मारिष ॥

6.83.47

अथैनं छिन्नधन्वानं छादयामास भारत ।
निजघान रणे तं तु सूतं चास्य न्यपातयत् ॥

6.83.48

ततः प्रसह्य समरे नकुलस्य महारथः ।
अश्वांश्च चतुरो राजंश्चतुर्भिः सायकोत्तमैः ॥

6.83.49

प्रेषयामास समरे यमस्य सदनं प्रति ।
हताश्वात्तु रथात्तूर्णमवप्लुत्य महारथः ॥

6.83.50

आरुरोह ततो यानं भ्रातुरेव यशस्विनः ।
एकस्थौ तु रणे शूरौ दृढे विक्षिप्य कार्मुके ॥

6.83.51

मद्रराजरथं तूर्णं च्छादयामासतुः क्षणात् ।
स च्छाद्यमानो बहुभिः शरैः सन्नतपर्वभिः ॥

6.83.52

स्वस्त्रीयाभ्यां नरव्याघ्रो नाकम्पत यथाऽचलः ।
प्रहसन्निव तां चापि शस्त्रवृष्टिं जघान ह ॥

6.83.53

सहदेवस्ततः क्रुद्धः शरमुद्गृह्य वीर्यवान् ।
मद्रराजमभिप्रेक्ष्य प्रेषयामास भारत ॥

6.83.54

स शरः प्रेषितस्तेन गरुडानिलवेगवान् ।
मद्रराजं विनिर्भिद्य निपपात महीतले ॥

6.83.55

स गाढविद्धो व्यथितो रथोपस्थे महारथः ।
निषसाद महाराज कश्मलं च जगाम ह ॥

6.83.56

तं विसञ्ज्ञं निपतितं सूतः सम्प्रेक्ष्य संयुगे ।
अपोवाह रथेनाजौ यमाभ्यामभिपीडितम् ॥

6.83.57

दृष्ट्वा मद्रेश्वररथं धार्तराष्ट्राः पराङ्भुखम् ।
सर्वे विमनसो भूत्वा नेदमस्तीत्यचिन्तयन् ॥

6.83.58

निर्जित्य मातुलं सङ्ख्ये माद्रीपुत्रौ महारथौ ।
दध्यतुर्मुदितौ शङ्खौ सिंहनादं च नेदतुः ॥

6.83.59

अभिदुद्रुवतुर्हृष्टौ तव सैन्यं विशाम्पते ।
यथा दैत्यचमूं राजन्निन्द्रोपेन्द्राविवामरौ ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc