भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 6.82

6.82.1

प्रवृत्तमात्रे सन्ग्रामे निवृत्ते च सुशर्मणि ।
भग्नेषु चापि वीरेषु पाण्डवेन महात्मना ॥

6.82.2

क्षुभ्यमाणे बले तूर्णं सागरप्रतिमे तव ।
प्रत्युद्याते च गाङ्गेये त्वरितं विजयं प्रति ॥

6.82.3

दृष्ट्वा दुर्योधनो राजा रणे पार्थस्य विक्रमम् . त्वरमाणः समभ्येत्य सर्वांस्तानब्रवीन्नृपान् ॥ 6-82-4अतेषां तु प्रमुखे शूरं सुशर्माणं महाबलम् . मध्ये सर्वस्य सैन्यस्य भृशं संहर्षयन्निव ॥

6.82.5

एष भीष्मः शान्तनवो योद्धुकामो धनञ्जयम् ।
सर्वात्मना कुरुश्रेष्ठस्त्यक्त्वा जीवितमात्मनः ॥

6.82.6

तं प्रयान्तं रणे वीरं सर्वसैन्येन भारतम् ।
संयत्ताः समरे सर्वे पालयध्वं पितामहम् ॥

6.82.7

बाढमित्येवमुक्त्वा तु तान्यनीकानि सर्वशः ।
नरेन्द्राणां महाराज समाजग्मुः पितामहम् ॥

6.82.8

ततः प्रयातः सहसा भीष्मः शान्तनवोऽर्जुनम् ।
रणे भारतमायान्तमाससाद महाबलः ॥

6.82.9

महाश्वेताश्वयुक्तेन भीमवानरकेतुना ।
महता मेघनादेन रथेनातिविराजता ॥

6.82.10

समरे सर्वसैन्यानामुपयानं धनञ्जयम् ।
अभवत्तुमुलो नादो भयाद्दृष्ट्वा किरीटिनम् ॥

6.82.11

अभीशुहस्तं कृष्णं च दृष्ट्वादित्यमिवापरम् ।
मध्यन्दिनगतं सङ्ख्ये न शेकुः प्रतिवीक्षितुम् ॥

6.82.12

तथा शान्तनवं भीष्मं श्वेताश्वं श्वेतकार्मुकम् ।
न शेकुः पाण्डवा द्रष्टुं श्वेतं ग्रहमिवोदितम् ॥

6.82.13

स सर्वतः परिवृतस्त्रिगर्तैः सुमहात्मभिः ।
भ्रातृभिः सह पुत्रैश्च तथाऽन्यैश्च महारथैः ॥

6.82.14

भारद्वाजस्तु समरे मत्स्यं विव्याध पत्रिणा ।
ध्वजं चास्य शरेणाजौ धनुश्चैकेन चिच्छिदे ॥

6.82.15

तदपास्य धनुश्छिन्नं विराटो वाहिनीपतिः ।
अन्यदादत्त वेगेन धनुर्भारसहं दृढम् ॥

6.82.16

शरांश्चाशीविषाकाराज्ज्वलितान्पन्नगानिव ।
द्रोणं त्रिभिश्च विव्याध चतुर्भिश्चास्य वाजिनः ॥

6.82.17

ध्वजमेकेन विव्याधक सारथिं चास्य पञ्चभिः ।
धनुरेकेषुणाऽविध्यत्तत्राक्रुध्यद्द्विजर्षभः ॥

6.82.18

तस्य द्रोणोऽवधीदश्वाञ्शरैः सन्नतपर्वभिः ।
अष्टाभिर्भरतश्रेष्ठ सूतमेकेन पत्रिणा ॥

6.82.19

स हताश्वादवप्लुत्य स्यन्दनाद्धतसारथिः ।
आरुरोह रथं तूर्णं पुत्रस्य रथिनां वरः ॥

6.82.20

ततस्तु तौ पितापुत्रौ भारद्वाजं रथे स्थितौ ।
महता शरवर्षेण वारयामाससतुर्बलात् ॥

6.82.21

भारद्वाजस्ततः क्रुद्धः शरमाशीविषोपमम् ।
चिक्षेप समरे तूर्णं शङ्खं प्रति जनेश्वरः ॥

6.82.22

स तस्य हृदयं भित्त्वा पीत्त्वा शोणितमाहवे ।
जगाम धरणीं बाणो लोहितार्द्रवरच्छदः ॥

6.82.23

स पपात रणे तूर्णं भारद्वाजशराहतः ।
धनुस्त्यक्त्वा शरांश्चैव पितुरेव समीपतः ॥

6.82.24

हतं तमात्मजं दृष्ट्वा विराटः प्राद्रवद्भयात् ।
उत्सृज्य समरे द्रोणं व्यात्ताननमिवान्तकम् ॥

6.82.25

भारद्वाजस्ततस्तूर्णं पाण्डवानां महाचमूम् ।
दारयामास समरे शतशोऽथ सहस्रशः ॥

6.82.26

शिखण्डी तु महाराज द्रौणिमासाद्य संयुगे ।
आजघान भ्रवोर्मध्ये नाराचैस्त्रिभिराशुगैः ॥

6.82.27

स बभौ रथशार्दूलो ललाटे संस्थितैस्त्रिभिः ।
शिखरैः काञ्चनमयैर्मेरुस्त्रिभिरिवोच्छ्रितैः ॥

6.82.28

अश्वत्थाम ततः क्रुद्धो निमेषार्धाच्छिखण्डिनः ।
ध्वजं सूतमथो राजंस्तुरगानायुधानि च ॥

6.82.29

शरैर्बहुभिराच्छिद्य पातयामास संयुगे ष ।
स हताश्वादवप्लुत्य रथाद्वै रथिनां वरः ॥

6.82.30

खङ्गमादाय सुशितं विमलं च शरावरम् ।
श्येनवद्व्यचरत्क्रुद्धः शिखण्डी शत्रुतापनः ॥

6.82.31

सखङ्गस्य महाराज चरतस्तस्य संयुगे ।
नान्तरं ददृशे द्रौणिस्तदद्भुतमिवाभवत् ॥

6.82.32

ततः शरसहस्राणि बहूनि भरतर्षभ ।
प्रेषयामास समरे द्रौणिः परमकोपनः ॥

6.82.33

तामापतन्तीं समरे शरवृष्टिं सुदारुणाम् ।
असिना तीक्ष्णधारेण चिच्छेद बलिनां वरः ॥

6.82.34

ततोऽस्य विमलं द्रौणिः शतचन्द्रं मनोरमम् ।
चर्माच्छिनदसिं चास्थ खण्डयामास संयुगे ॥

6.82.35

शितैस्तु बहुशो राजंस्तं च विव्याध पत्रिभिः ।
शिखण्डी तु ततः खङ्गं खण्डितं तेन सायकैः ॥

6.82.36

आविध्य व्यसृजत्तूर्णं ज्वलन्तमिव पन्नगम् ।
तमापतन्तं सहसा कालानलसमप्रभम् ॥

6.82.37

चिच्छेद समरे द्रौणिर्दर्शयन्पाणिलाघवम् ।
शिखण्डिनं च विव्याध शरैर्बहुभिरायसैः ॥

6.82.38

शिखण्डी तु भृशं राजंस्तड्यमानः शितैः शरैः ।
आरुरोह रथं तूर्णं माधवस्य महात्मनः ॥

6.82.39

सात्यकिश्चापि सन्क्रुद्धो राक्षसं क्रूरमाहवे ।
अलम्बुसं शरैस्तीक्ष्णैर्विव्याध बलिनां वरः ॥

6.82.40

राक्षसेन्द्रस्ततस्तस्य धनुश्चिच्छेद भारत ।
अर्धचन्द्रेण समरे तं च विव्याध सायकैः ॥

6.82.41

मायां च राक्षसीं कृत्वा शरवर्षैरवाकिरत् ।
तत्राद्भुतमपश्याम शैनेयस्य पराक्रमम् ॥

6.82.42

असम्भ्रमस्तु समरे वध्यमानः शितैः शरैः ।
ऐन्द्रमस्त्रं च वार्ष्णेयो योजयामास भारत ॥

6.82.43

विजयाद्यदनुप्राप्तं माधवेन यशस्विना ।
तदस्त्रं भस्मासात्कृत्वा मायां तां राक्षसीं तदा ॥

6.82.44

अलम्बुसं शरैरन्यैरभ्याकिरत सर्वतः ।
पर्वतं वारिधाराभिः प्रावृषीव बलाहकः ॥

6.82.45

तत्तथा पीडितं तेन माधवेन यशस्विना ।
प्रदुद्राव भयाद्रक्षस्त्यक्त्वा सात्यकिमाहवे ॥

6.82.46

॥ माघवता जित्वा भारत सात्यकिः ।
शैनेयः प्राणद़ज्जित्वा योधानां तव पश्यताम् ॥

6.82.47

न्यहनत्तावकांश्चापि सात्यकिः सत्यविक्रमः ।
निशितैर्बहुभिर्बाणैस्तेऽद्रवन्त भयार्दिताः ॥

6.82.48

एतस्मिन्नेव काले तु द्रुपदस्यात्मजो बली ।
धृष्टद्युम्नो महाराज पुत्रं तव जनेश्वरम् ॥

6.82.49

छादयामास समरे शरैः सन्नतपर्वभिः ।
स च्छाद्यमानो विशिखैर्धृष्टद्युम्नेन भारत ॥

6.82.50

विव्यथे न च राजेन्द्र तव पुत्रो जनेश्वर ।
धृष्टद्युम्नं च समरे तूर्णं विव्याध पत्रिभिःक ॥

6.82.51

षष्ट्या च त्रिंशता चैव तदद्भुतमिवाभवत् ।
तस्य सेनापतिः क्रुद्धो धनुश्चिच्छेद मारिष ॥

6.82.52

हयांश्च चतुरः शीघ्रं निजघान महाबलः ।
शरैश्चैनं सुनिशितैः क्षिप्रं विव्याध सप्तभिः ॥

6.82.53

स हताश्वान्महाबाहुरवप्लुत्य रथाद्बली ।
पदातिरसिमुद्यम्य प्राद्रवत्पार्षतं प्रति ॥

6.82.54

शकुनिस्तं समभ्येत्य राजगृद्धी महाबलः ।
राजानं सर्वलोकस्य रथमारोपयत्स्वकम् ॥

6.82.55

ततो नृपं पराजित्य पार्षतः परवीरहा ।
न्यहनत्तावकं सैन्यं वज्रपाणिरिवासुरान् ॥

6.82.56

कृतवर्मा रणे भीमं शरैरार्च्छन्महारथः ।
प्रच्छादयामास च तं महामेघो रविं यथा ॥

6.82.57

ततः प्रहस्य समरे भीमसेनः परन्तपः ।
प्रेषयामास सन्क्रुद्धः सायन्कान्कृतवर्मणे ॥

6.82.58

तैरर्द्यमानोऽतिरथः सात्वतः शस्त्रकोविदः ।
नाकम्पत महाराज भीमं चार्च्छच्छितैः शरैः ॥

6.82.59

तस्याश्वांश्चतुरो हत्वा भीमसेनो महारथः ।
सारथिं पातयामास सध्वजं सुपरिष्कृतम् ॥

6.82.60

शरैर्बहुविधैश्चैनमाचिनोत्परवीरहा ।
शकलीकृतसर्वाङ्गः श्वावित्तु शललैर्यथा ॥

6.82.61

हताश्वश्च ततस्तूर्णं सुबलस्य रथं ययौ ।
स्वालस्य ते महाराज तव पुत्रस्य पश्यतः ॥

6.82.62

भीमसेनोऽपि सन्क्रुद्धस्तव सैन्यमुपाद्रवत् ।
निजघान च सन्क्रुद्धो दण्डपाणिरिवान्तकः ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc