भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 6.84

6.84.1

ततो युधिष्ठिरो राजा मध्यं प्राप्ते दिवाकरे ।
श्रुतायुपमभिप्रेक्ष्य प्रेषयामास वाजिनः ॥

6.84.2

ततस्तु त्वरितो राजञ्श्रुतायुषमरिन्दमन् ।
निजघ्ने सायकैस्तीक्ष्णैर्नवभिर्नतपर्वभिःक ॥

6.84.3

स संवार्य रमे राजा प्रेषितान्धर्मसूनुना ।
शरान्सप्त महेष्वासः कौन्तेयाया समार्षयत् ॥

6.84.4

ते तस्व कवचं भित्त्वा पपुः शोणितमाहवे ।
असूनिव विचिन्वन्तो देहे तस्य महात्मनः ॥

6.84.5

पाण्डवस्तु भृशं क्रुद्धो विद्धस्तेन महात्मना ।
रणे वराहकर्णेन राजानं हृद्यविध्यता ॥

6.84.6

अथापरेण भल्लेन केतुं तस्य महात्मनः ।
रथश्रेष्ठो रथात्तूर्णं भूमौ पार्थो न्यपातयत् ॥

6.84.7

केतु निपतितं दृष्ट्वा श्रुतायुः स तु पार्थिवः ।
पाण्डवं विशिखैतीक्ष्णै राजन्विव्याध सप्तभिः ॥

6.84.8

ततः क्रोघात्प्रजज्वल धर्मपुत्रो युधिष्ठिरः ।
यथा युगान्ते भूतानि दिधक्षुरिव पावकः ॥

6.84.9

क्रुद्धं तु पाण्डवं दृष्ट्वा देवगन्धर्वराक्षसाः ।
प्रविव्यधुर्महाराज व्याकुलं जाप्यभूज्जगत् ॥

6.84.10

सर्वेषां चैव भूतानामिदमासीन्मनोगतम् ।
त्रींल्लोकान्म सन्क्रुद्धो नृपोऽयं धक्ष्यतीति वै ॥

6.84.11

ऋष ॥ . देवाश्च चक्रुः स्वस्त्ययनं महत् ।
लोकानां नृपाशान्त्यर्थं क्रोधिते पाण्डवे तदा ॥

6.84.12

स च क्रोधसमाविष्टः सृक्विणी परिसंलिहन ।
इवारात्सवपुर्घोरं युगान्तादित्यसन्निभम् ॥

6.84.13

ततः सैन्यानि सर्वाणि तावकानि विशाम्पते ।
निराशान्यभवंस्तत्र जीवितं प्रति भारत ॥

6.84.14

स तु धैर्येण तं कोपं सन्निवार्य महायशाः ।
श्रुतायुषः प्रचिच्छेद मुष्टिदेशे महाधनुः ॥

6.84.15

अथैनं छिन्नधन्वानं नाराचेन स्तनान्तरे ।
निर्बिभेद रणे राजा सर्वसैन्यस्य पश्यतः ॥

6.84.16

सत्वरं च रणे राजंस्तस्य वाहान्महात्मनः ।
निजघान शरैः क्षिप्रं सूतं च सुमहाबलः ॥

6.84.17

हताश्वं तु रथं त्यक्त्वा दृष्ट्वा राज्ञोऽस्य पौरुषम् ।
विप्रदुद्राव वेगेन श्रुतायुः समरे तदा ॥

6.84.18

तस्मिञ्जिते महेष्वासे धर्मपुत्रेण संयुगे ।
दुर्योधनबलं राजन्सर्वमासीत्पराङ्भुखम् ॥

6.84.19

एवं जित्वा महाराज धर्मपुत्रो युधिष्ठिरः ।
व्यात्ताननो यथा कालस्तव सैन्यं जघान ह ॥

6.84.20

चेकितानस्तु वार्ष्णेयो गौतमं रथिनां वरम् ।
प्रेक्षतां सर्वसैन्यानां छादयामास सायकैः ॥

6.84.21

सन्निवार्य शरांस्तांस्तु कृपः शारद्वतो युधि ।
चेकितानां रणे यत्तं राजन्विव्याध पत्रिभिः ॥

6.84.22

अथापरेण भल्लेन धनुश्चिच्छेद मारिष ।
सारथिं चास्य समरे क्षिप्रहस्तो न्यपातयत् ॥

6.84.23

अश्वांस्छास्यावधीद्राजन्नुभौ तौ पार्ष्णिसारथी ।
अवप्लुत्य रथात्तूर्णं गदां जग्राह सात्वतः ॥

6.84.24

स तया वीरघातिन्या गदया गदिनां वरः ।
गौतमस्य हयान्हत्वा सारथिं च न्यपातयत् ॥

6.84.25

भूमिष्ठो गौतमस्तस्य शरांश्चिक्षेप षोडशक ।
शरास्ते सात्वतं भित्त्वा प्राविशन्धरणीतलम् ॥

6.84.26

चेकितानस्ततः क्रुद्धः पुनश्चिक्षेप तां गदाम् ।
गौतमस्य वधाकाङ्क्षी वृत्रस्येव पुरन्दरः ॥

6.84.27

तामापतन्तीं विमलामश्यमगर्भां महागदाम् ।
शरैरनेकसाहस्त्रैर्वारयामास गौतमः ॥

6.84.28

चेकितानस्ततः खङ्गं क्रोधादुद्धृत्य भारत ।
लाघवं परमास्थाय गौतमं समुपाद्रवत् ॥

6.84.29

गौतमोऽपि धनुस्त्यक्त्वा प्रगृह्यासिं सुसंयतः ।
वेगेन महता राजंश्चेकितानमुपाद्रवत् ॥

6.84.30

तावुभौ बलसम्पन्नौ निस्त्रिंशवरधारिणौ ।
निस्त्रिंशाभ्यां सुतीक्ष्णाभ्यामन्योन्यं सन्ततक्षतुः ॥

6.84.31

निस्त्रिंशवेगाभिहतौ ततस्तौ पुरुषर्षभौ ।
धरणीं समनुप्राप्तौ सर्वभूतनिषेविताम् ॥

6.84.32

मूर्छयाऽभिपरीताङ्गौ व्यायामेन तु मोहितौ ।
ततोऽभ्यधावद्वेगेन भीमसेनः सुहृत्तया ॥

6.84.33

चेकितानं तथाभूतं दृष्ट्वा समरदुर्मदः ।
रथमारोपयच्चैनं सर्वसैकन्यस्य पश्यतः ॥

6.84.34

तथैव शकुनि शूरः स्यालस्तव विशाम्पतेक ।
आरोपयद्रथं तूर्णं गौतमं रथिनां वरम् ॥

6.84.35

सौमदत्तिं ततः क्रुद्धो धृष्टकेतुर्महाबलः ।
नवत्या सायकैः क्षिप्रं राजन्विव्याध वक्षसि ॥

6.84.36

सौमदत्तिरुरस्थैस्तैर्भृशं बाणैरशोभत ।
मध्यन्दिने महाराज रश्मिभिस्तपनो यथा ॥

6.84.37

भूरिश्रवास्तु समरे धृष्टकेतुं महारथम् ।
हतसूतहयं चक्रे विरथं सायकोत्तमैः ॥

6.84.38

विरथं तं समालोक्य हताश्वं हतसारथिम् ।
महता शरवर्षेण च्छादयामास संयुगे ॥

6.84.39

स तु तं रथमुत्सृज्य धृष्टकेतुर्महामनाः ।
आरुरोह ततो यानं शतानीकस्य मारिष ॥

6.84.40

चित्रसेनो विकर्णश्च राजन्दुर्मर्षणस्तथा ।
रथिनो हेमसन्नाहाः सौभद्रमभिदुद्रुवुः ॥

6.84.41

अभिमन्योस्ततस्तैस्तु घोरं युद्धमवर्तत ।
शरीरस्य यथा राजन्वातपित्तकफैस्त्रिभिः ॥

6.84.42

विरथांस्तव पुत्रांस्तु कृत्वा राजन्महाहवे ।
न जघान नरव्याघ्रः स्मरन्भीमवचस्तदा ॥

6.84.43

ततो राज्ञां बहुशतैर्गजाश्वरथयायिभिः ।
संवृतं समरे भीष्मं देवैरपि दुरासदम् ॥

6.84.44

प्रयान्तं शीघ्रमुद्वीक्ष्य परित्रातुं सुतांस्तव ।
अभिमन्युं समुद्दिश्य बालमेकं महारथम् ॥

6.84.45

वासुदेवमुवाचेदं कौन्तेयः श्वेतवाहनः ।
चोदयाश्वान्हृषीकेश यत्रैते बहुला रथाः ॥

6.84.46

एते हि बहवः शूराः कृतास्त्रा युद्धदुर्मदाः ।
यथा हन्युर्न नः सेनां तथा माधव चोदय ॥

6.84.47

एवमुक्तः स वार्ष्णेयः कौन्तेयेनामितौजसा ।
रथं श्वेतहयैर्युक्तं प्रेषयामास संयुगे ॥

6.84.48

निष्ठानको महानासीत्तव सैन्यस्य मारिष ।
यदर्जुनो रणे क्रुद्धः संयातस्तावकान्प्रति ॥

6.84.49

समासाद्य तु कौन्तेयो राज्ञस्तान्भीष्मरक्षिणः ।
सुशर्माणमथो राजन्निदं वचनमब्रवीत् ॥

6.84.50

जानामि त्वां युधां श्रेष्ठमत्यन्तं पूर्ववैरिणम् ।
अनयस्याद्य सम्प्राप्तं फलं पश्य सुदारुणम् ॥

6.84.51

अद्य ते दर्शयिष्यामि पूर्वप्रेतान्पितामहान् ।
एवं सञ्जल्पतस्तस्य बीभत्सोः शत्रुघातिनः ॥

6.84.52

श्रुत्वापि परुषं वाक्यं सुशर्मा रथयूथपः ।
न चैनमब्रवीत्किञ्चिच्छुभं वा यदि वाऽशुभम् ॥

6.84.53

अभिगम्यार्जुनं वीरं राजभिर्बहुभिर्वृतः ।
पुरस्तात्पृष्ठतश्चैव पार्श्वतश्चैव सर्वतः ॥

6.84.54

परिवार्यार्जुनं सङ्ख्ये तव पुत्रैर्महारथः ।
शरैः सञ्छादयामास मेघैरिव दिवाकरम् ॥

6.84.55

ततः प्रवृत्तः सुमहान्सन्ग्रामः शोणितोदकः । तावकानां च समरे पाण्डवानां च भारत ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc