भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 6.81

6.81.1

अथात्मजं तव पुनर्गाङ्गेयो ध्यानमास्थितम् ।
अब्रवीद्भरतश्रेष्ठः सम्प्रहर्षकर वचः ॥
भीष्म उवाच ।

6.81.2

अहं द्रोणश्च शल्यश्च कृतवर्मा च सात्वतः ।
अश्वत्थामा विकर्णश्च भगदत्तोऽथ सौबलः ॥

6.81.3

विन्दानुविन्दावावन्त्यौ बाह्लीकः सह बाह्लिकैः ।
त्रिगर्तराजो बलवान्मागधश्च सुदुर्जयः ॥

6.81.4

बृहद्बलश्च कौसल्यश्चित्रसेनो विविंशतिः . कृपश्च सह सोदर्यैस्तव राजन्पदानुगाः ।
रथाश्च बहुसाहस्राः शोभनाश्च महाध्वजाः ॥

6.81.5

देशजाश्च हया राजन्स्वारूढा हयसादिभिः ।
गजेन्द्राश्च मदोद्वृत्ताः प्रभिन्नकरटामुखाः ॥

6.81.6

पादाताश्च तथा शूरा नानाप्रहरणा युधि ।
नानादेशसमुत्पन्नास्त्वदर्थे योद्धुमुद्यताः ॥

6.81.7

एते चान्ये च बहवस्त्वदर्थे त्यक्तजीविताः ।
देवानपि रणे जेतुं समर्था इति मे मतिः ॥

6.81.8

अवश्यं हि मया राजंस्तव वाच्यं हितं सदा ।
अशक्याः पाण्डवा जेतुं देवैरपि सवासवैः ॥

6.81.9

वासुदेवसहायाश्च महेन्द्रसमविक्रमाः ।
सर्वथाऽहं तु राजेन्द्र करिष्ये वचनं तव ॥

6.81.10

पाण्डवांश्च रणे जेष्ये मां वा जेष्यन्ति पाण्डवाः ।
सञ्जय उवाच ।
एवमुक्त्वा ददावस्मै विशल्यकरणीं शुभाम् ॥

6.81.11

ओषधीं वीयसम्पन्नां विशल्यश्चाभवत्तदा ।
ततः प्रभाते विमले स्वेन सैन्येन वीर्यवान् ॥

6.81.12

अव्यूहत स्वयं व्यूहं भीष्मो व्यूहविशारदः ।
मण़्डलं मनुजश्रेष्ठो नानाशस्त्रसमाकुलम् ॥

6.81.13

सम्पूर्णं योधमुख्यैश्च तथा दन्तिपदातिभिः ।
रथैरनेकसाहस्रैः समन्तत्परिवारितम् ॥

6.81.14

अश्ववृन्दैर्महद्भिश्च रिष्टितोमरधारिभिः ।
नागेनागे रथाः सप्त सप्त चाश्वा रथेरथे ॥

6.81.15

अन्वश्वं दश धानुष्का धानुष्के दश चर्मिणः ।
एवं व्यूहं महाराज तव सैन्यस्य दंशितम् ॥

6.81.16

स्थितं रणाय महते भीष्मेण युधि पालितम् ।
दशाश्वानां सहस्राणि दन्तिनां च तथैव च ॥

6.81.17

रथानामयुतं चापि पुत्राश्च तव दंशिताः ।
चित्रसेनादयः शूरा अभ्यरक्षन्तितामहम् ॥

6.81.18

रक्ष्यमाणाः स तैः शूरैर्गोप्यमानाश्च तेन ते ।
सन्नद्धाः समदृश्यन्त राजानश्च महाबलाः ॥

6.81.19

दुर्योधनस्तु समरे दंशितो रथमास्थितः ।
व्यराजत श्रिया जुष्टो यथा शक्रस्त्रिविष्टपे ॥

6.81.20

ततः शब्दो महानासीत्पुत्राणां तव भारत ।
रथघोषश्च विपुलो वादित्राणां च निःस्वनः ॥

6.81.21

भीष्मेण धार्तराष्ट्राणां व्यूढः प्रत्यङ्भुखो युधि ।
मण्डलः स महाव्यूहो दुर्भेद्योऽमित्रघातनः ॥

6.81.22

सर्वतः शुशुभे राजन्रणेऽरीणां दुरासदः ।
मण्डलं तु समालोक्य व्यूहं परमदुर्ययम् ॥

6.81.23

स्वयं युधिष्ठिरो राजा वज्रं व्यूहमथाकरोत् ।
तथा व्यूढेष्वनीकेषु यथास्थानमवस्थिताः ॥

6.81.24

रथिनः सादिनः सर्वे सिंहनादमथानदन् ।
बिभित्सवस्ततो व्यूहं निर्ययुर्युद्धकाङ्क्षिणः ॥

6.81.25

इतरेतरतः शूराः सहसैन्याः प्रहारिणः ।
भारद्वाजो ययौ मत्स्यं द्रौणिश्चापि सिखण्डिनम् ॥

6.81.26

स्वयं दुर्योधनो राजा पार्षतं समुपाद्रवत् ।
नकुलः सहदेवश्च मद्रराजानमीयतुः ॥

6.81.27

विन्दानुविन्दावावन्त्यौ युयुधानमभिद्रुतौ ।
सर्वे नृपास्तु समरे धनञ्जयमयोधयन् ॥

6.81.28

भीमसेनो रणे यान्तं हार्दिक्यं समवारयत् ।
चित्रसेनं विकर्णं च तथा दुर्मर्षणं विभुः ॥

6.81.29

आर्जुनिः समरे राजंस्तव मुत्रानयोधयत् ।
प्राग्ज्योतिषो महेष्वासो हैडिम्बं राक्षसोत्तमम् ॥

6.81.30

अभिदुद्राव वेगेन मत्तो मत्तमिव द्विपम् ।
अलम्बुसस्तदा राजन्सात्यकिं युद्धदुर्मदम् ॥

6.81.31

ससैन्यं समरे क्रुद्धो राक्षसः समुपाद्रवत् ।
भूरिश्रवा रणे यत्तो धृष्टकेतुमयोधयत् ॥

6.81.32

श्रुतायुषं च राजानं धर्मपुत्रो युधिष्ठिरः ।
चेकितानश्च समरे कृपमेवान्वयोधयत् ॥

6.81.33

शेषाः प्रतिययुर्यत्ता भीष्ममेव महारथम् ।
ततो राजसमूहास्ते परिवव्रुर्धनञ्जयम् ॥

6.81.34

शक्तितोमरनाराचगदापरिघपाणयः ।
अर्जुनोऽथ भृशं क्रुद्धो वार्ष्णेयमिदमब्रवीत् ॥

6.81.35

पश्य माधव सैन्यानि धार्तराष्ट्रस्य संयुगे ।
व्यूढानि व्यूहविदुषा गाङ्गेयेन महात्मना ॥

6.81.36

युद्धाभिकामाञ्शूरांश्च पश्य माधव दंशितान् ।
त्रिगर्तराजं सहितं भ्रातृभिः पश्य केशव ॥

6.81.37

अद्यैतान्नाशयिष्यामि पश्यतस्ते जनार्दन ।
य इमे मां यदुश्रेष्ठ योद्धुकामा रणाजिरे ॥

6.81.38

एतदुक्त्वा तु कौन्तेयो धनुर्ज्यामवमृद्य च ।
ववर्ष शरवर्षाणि नराधिपगणान्प्रति ॥

6.81.39

तेऽपि तं परमेष्वासाः शरवर्षैरपूरयन् ।
तटाकं वारिधाराभिर्यथा प्रावृषि तोयदाः ॥

6.81.40

हाहाकारो महानासीत्तव सैन्ये विशाम्पते ।
छाद्ममानौ रणे कृष्णौ शरैर्दृष्ट्वा महारणे ॥

6.81.41

देवा देवर्षयश्चैव गन्धर्वाश्च सहोरगैः ।
विस्मयं परमं जग्मुर्दृष्ट्वा कृष्णौ तथाऽगतौ ॥

6.81.42

ततः क्रुद्धोऽर्जुनो राजन्नैन्द्रमस्त्रमुदैरयत् ।
तत्राद्भुतमपश्याम विजयस्य पराक्रमम् ॥

6.81.43

शस्त्रवृष्टिं परैर्मुक्तां शरौघैर्यदवारयत् ।
न च तत्राप्यनिर्भिन्नः कश्चिदासीद्विशाम्पते ॥

6.81.44

तेषां राजसहस्राणां हयानां दन्तिनां तथा ।
द्वाभ्यां त्रिभिः शरैश्चान्यान्पार्थो विव्याध मारिष ॥

6.81.45

ते हन्यमानाः पार्थेन भीष्मं शान्तनवं ययुः ।
अगाधे मञ्जमानानां भीष्मः पोतोऽभवत्तदा ॥

6.81.46

आपतद्भिस्तु तैस्तत्र प्रभग्नं तावकं बलम् ।
सञ्चुक्षुभे महाराज वातैरिव महार्णवः ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc