भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 6.80

6.80.1

क्षत्रियास्ते महाराज परस्परकृतागसः ।
जग्मुः स्वशिबिराण्येव रुधिरेण समुक्षिताः ॥

6.80.2

विश्रम्य च यथान्यायं पूजयित्वा परस्परम् ।
सन्नद्धाः समदृश्यन्त भूयो युद्धचिकीर्षवः ॥

6.80.3

ततस्तव सुतो राजंश्चिन्तयाभिपरिप्लुतः ।
विस्रवच्छोणिताक्ताङ्गः पप्रच्छेदं पितामहम् ॥

6.80.4

सैन्यानि रौद्राणि भयानकानि व्यूढानि सम्यग्बहुलध्वजानि ।
विदार्य हत्वा च निपीड्य शूरां- स्ते पाण्डवा लब्धजयाः प्रहृष्टाः ॥

6.80.5

सम्मोह्य सर्वान्युधि कीर्तिमन्तो व्यूहं च तं मकरं मृत्युकल्पम् ।
प्रविश्य भीमेन रणे हतोऽस्मि घोरैः शरैर्मृत्युदण्डप्रकाशैः ॥

6.80.6

क्रुद्धं तमुद्वीक्ष्य भयेन राज- न्सम्मूर्च्छितो न लभे शान्तिमद्य ।
इच्छे प्रसादात्तव सत्यसन्ध प्राप्तुं जयं पाण्डवेयांश्च हन्तुम् ॥

6.80.7

तेनैवमुक्तः प्रहसन्महात्मा दुर्योधनं मन्युगतं विदित्वा ।
तं प्रत्युवाचाविमना मनस्वी गङ्गासुतः सस्त्रभृतां वरिष्ठः ॥

6.80.8

परेण यत्नेन विगाह्य सेनां सर्वात्मनाऽहं तव राजपुत्र ।
इच्छामि दातुं विजयं सुखं च न चात्मानं छादयेऽहं त्वदर्थे ॥

6.80.9

एते तु रौद्रा बहवो महारथा यशस्विनः शूरतमाः कृतास्त्राः ।
ये पाण्डवानां समरे सहाया जितक्लमा रोषविषं वमन्ति ॥

6.80.10

केनेह शक्याः सहसा विजेतुं वीर्योद्धताः कृतवैरास्त्वया च ।
अहं ह्येतान्प्रतियोत्स्यामि राज- न्सर्वात्मना जीवितं त्यज्य वीर ॥

6.80.11

रणे तवार्थाय महानुभाव न जीवितं रक्षितव्यं ममाद्य ।
सर्वांस्तवार्थाय सदेवदैत्याँ- ल्लोकान्दहेयं किमु शत्रुसेनाम् ॥ 6-80-12अतान्पाण्डवान्योधयिष्यामि राजन् प्रियं च ते सर्वमहं करिष्ये ।
सञ्जय उवाच ।
श्रुत्वा पितुस्ते वचनं प्रतीतो दुर्योधनः प्रीतमना बभूव ॥

6.80.13

सर्वाणि सैन्यानि ततः प्रहृष्टो निर्गच्छतेत्याह नृपांश्च सर्वान् ।
तदाक्षया तानि विनिर्ययुर्द्रुतं गजाश्वपादातरथायुतानि ॥

6.80.14

प्रहर्षयुक्तानि तु तानि राज- न्महान्ति नानाविधशस्त्रवन्ति ।
स्थितानि नागाश्वपदातिमन्ति विरेजुराजौ तव राजन्बलानि ॥

6.80.15

शस्त्रास्त्रविद्भिर्नरवीरयोधै- रधिष्ठिताः सैन्यगणास्त्वदीयाः ।
रथौघपादातगजाश्वसङ्घैः प्रयाद्भिराजौ विधिवत्प्रणुन्नैः ॥

6.80.16

समुद्धतं वै तरुणार्कवर्णं रजो बभौ च्छादयत्सूर्यश्मीन् ।
रेजुः पताका रथदन्तिसंस्था वातेरिता भ्राम्यमाणाः समन्तात् ॥

6.80.17

नानालिङ्गैः समरे तत्र राजन् मेघैर्युता विद्युतः खे यथैव ।
वृन्दैः स्थिताश्चापि सुसम्प्रयुक्ता- श्चकाशिरे दन्तिगणाः समन्तात् ॥

6.80.18

धनूंषि विष्फारयतां नृपाणां बभूव शब्दस्तुमुलोऽतिघोरः ।
विमथ्यतो देवमहासुरौघै- र्यथार्णवस्यादियुगे तदानीम् ॥

6.80.19

तदुग्रनागं बहुरूपवर्णं तवात्मजानां समुदीर्णकोपम् ।
बभूव सैन्यं रिपुसैन्यहन्त- युगान्तमेघौघनिभं तदानीम् ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc