भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 6.61

6.61.1

द्रौणिर्भूरिश्रवाः शत्यश्चित्रसेनश्च मारिषः ।
पुत्रः सांयमनेश्चैव सौभद्रं पर्यवारयन् ॥

6.61.2

संसक्तमतितेजोभिस्तमेकं ददृशुर्जनाः ।
पञ्चभिर्मनुजव्याघ्रैर्गजैः सिंहशिशुं यथा ॥

6.61.3

नातिलक्ष्यतया कश्चिन्न शौर्ये न पराक्रमे ।
बभूव सदृशः कार्ष्णेर्नास्त्रे नापि च लाघवे ॥

6.61.4

तथा तमात्मजं युद्धे विक्रमन्तमरिन्दमम् ।
दृष्ट्वा पार्थः सुसंयत्तं सिंहनादमथानदत् ॥

6.61.5

पीडयानं तु तत्सैन्यं पौत्रं तव विशाम्पते ।
दृष्ट्वा त्वदीया राजेन्द्र समन्तात्पर्यवारयन् ॥

6.61.6

ध्वजिनीं धार्तराष्ट्राणां दीनशत्रुरदीनवत् ।
प्रत्युद्ययौ स सौभद्रस्तेजसा च बलेन च ॥

6.61.7

तस्य लाघवमार्गस्थमादित्यसदृशप्रभम् . व्यदृश्यत महच्चापं समरे युध्यतः परैः ।

6.61.8

स द्रौणिमिषुणैकेन विद्ध्वा शल्यं च पञ्चभिः ।
ध्वजं सांयमनेश्वैव सोऽष्टाभिश्चिच्छिदे ततः ॥

6.61.9

रुक्मदण्डां महाशक्तिं प्रेषितां सौमदत्तिन ।
शितेनोरगसन्काशां पत्रिणाभिजघान ताम् ॥

6.61.10

शल्यस्य च महावेगानस्यतः समरे शरान् । धनुश्चिच्छेद भल्लेन तीव्रवेगन फाल्गुनिः
जघानार्जुनदायादश्चतुर्भिश्चतुरो हयान् ॥

6.61.11

भूरिश्रवाश्च शल्यश्च द्रौणिः सांयमनिः शलः ।
नाभ्यवर्तन्तं संरब्धाः कार्ष्णेर्बाहुबलोदयात् ॥

6.61.12

ततस्त्रिगर्ता राजेन्द्र मद्राश्च सह केकयैः ।
पञ्चविंशतिसाहस्रास्तव पुत्रेण चोदिताः ॥

6.61.13

धनुर्वेदविदो मुख्या अजेयाः शत्रुभिर्युधि ।
सह पुत्रं जिघांसन्तं परिवव्रुः किरीटिनम् ॥

6.61.14

तौ तु तत्र पितापुत्रौ परिक्षिप्तौ महारथौ ।
ददर्श राजन्पाञ्चल्यः सेनापतिररिन्दम ॥

6.61.15

स वारणरथोघानां सहस्रैर्बहुभिर्वृतः ।
वाजिभिः पत्तिभिश्चैव वृतः शतसहस्रशः ॥

6.61.16

पारावताश्वः स रथमास्थाय परवीरहा धनुर्विष्फार्य सन्क्रुद्धो नोदयित्वा च वाहिनीम् ।
ययौ तं मद्रकानीकं केकयांश्च परन्तप ॥

6.61.17

तेन कीर्तिमता गुप्तमनीकं दृढधन्वना ।
संरब्धरथनागाश्वं योत्स्यमानमशोभत ॥

6.61.18

सोऽर्जुनप्रमुखे यान्तं पाञ्चालकुलवर्धनः ।
त्रिभिः शारद्वतं बाणैर्जत्रदेशे समार्पयत् ॥

6.61.19

ततः स मद्रकान्हत्वा दशैव दशभिः शरैः ।
पृष्ठरक्षं जघानाशु भल्लेन कृतवर्मणः ॥

6.61.20

दमनं चापि दायादं पौरवस्य महात्मनः ।
जघान विमलाग्नेण नाराचेन परन्तपः ॥

6.61.21

ततः सांयमनेः पुत्रः पाञ्चाल्यं युद्धदुर्मदम् ।
अविध्यत्रिंशता बाणैर्दशभिश्चास्य सारथिम् ॥

6.61.22

सोऽतिविद्धो महेष्वासः सृक्किणी परिसंलिहन् ।
भल्लेन भृशतीक्ष्णेन निचकर्तास्य कार्मुकम् ॥

6.61.23

अथैनं पञ्चविंशत्या क्षिप्रमेव समार्पयत् ।
अश्वांश्चास्यावधीद्राजन्नुभौ तौ पार्ष्णिसारथी ॥

6.61.24

स हताश्वे रते तिष्ठन्ददर्श भरतर्षभ ।
पुत्रः सांयमनेः पुत्रं पाञ्चाल्यस्य महात्मनः ॥

6.61.25

स प्रगृह्य महाघोरं निस्त्रिंशवरमायसम् ।
पदातिस्तूर्णमानर्च्छद्रथस्यं पुरुषर्षभः ॥

6.61.26

तं महौघमिवायान्तं स्वात्पतन्तमिवोरगम् ।
भ्रान्तावरणनिस्त्रिंशं कालोत्सृष्टमिवान्तकम् ॥

6.61.27

दीप्यमानमिवादित्यं मत्तवारणविक्रमम् ।
अपश्यन्पाण्डवास्तत्र धृष्टद्युम्नश्च पार्षतः ॥

6.61.28

तस्य पाञ्चालदायादः प्रतीपमभिधावतः ।
शितनिस्त्रिंशहस्तस्य शरावरणधारिणः ॥

6.61.29

बाणवेगमतीतस्य तथाभ्याशमुपेयुषः ।
त्वरन्सेनापतिः क्रुद्धो बिभेद गदया शिरः ॥

6.61.30

तस्य राजन्सनिस्त्रिंशं सुप्रभं च शरावरम् ।
हतस्य पततो हस्ताद्वेगेन न्यपतद्भुवि ॥

6.61.31

तं निहत्य गदाग्रेण स लेभे परमां मुदम् ।
पुत्रः पाञ्चालराजस्य महात्मा भीमविक्रमः ॥

6.61.32

तस्मिन्हते महेष्वासे शल्यपुत्रे महारथे ।
हाहाकारो महानासीत्तव सैन्यस्य मारिष ॥

6.61.33

ततः सांयमनिः क्रुद्धो दृष्ट्वा निहतामात्मजम् ।
अभिदुद्राव वेगेन पाञ्चाल्यं युद्धदुर्मदम् ॥

6.61.34

तौ तत्र समरे शूरौ समेतौ युद्धदुर्मदौ ।
ददृशुः सर्वराजानः कुरवः पाण्डवास्तथा ॥

6.61.35

ततः सांयमनिः क्रुद्धः पार्षतं परवीरहा ।
आजघान त्रिभिर्बाणैस्तोत्रैरिव महाद्विपम् ॥

6.61.36

तथैव पार्षतं शूरं शल्यः समितिशोभनः ।
आजघानोरसि क्रुद्धस्ततो युद्धमवर्तत ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc