भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 6.60

6.60.1

व्युष्टां निशां भारत भारताना- मनीकिनीनां प्रमुखे महात्मा ।
ययौ सपत्नान्प्रति जातकोपो वृतः समग्रेण बलेन भीष्मः ॥

6.60.2

तं द्रोणदुर्योधनबाह्लिकाश्च तथैव दुर्मर्षणचित्रसेनौ ।
जयद्रथश्चातिबलो बलौघै- र्नृपास्तथान्ये प्रययुः समन्तात् ॥

6.60.3

स तैर्महद्भिश्च महारथैश्च तेजस्विभिर्वीर्यवद्भिश्च राजन् ।
रराज राजा स तु राजमुख्यै- र्वृतः सदेवैरिव वज्रपाणिः ॥

6.60.4

तस्मिन्ननीकप्रमुखे विषक्ता दोधूयमानाश्च महापताकाः ।
सुरक्तपीतासितपाण्डुराभा महागजस्कन्धगता विरेजुः ॥

6.60.5

सा वाहिनी शान्तनवेन गुप्ता महारथैर्वारणवाजिभिश्च ।
बभौ सविद्युत्स्तनयित्नुकल्पा जलागमे द्यौरिव जातमेघा ॥

6.60.6

ततो रणायाभिमुखी प्रयाता प्रत्यर्जुनं शान्तनवाभिगुप्ता ।
सेनामहोग्ना सहसा कुरूणां वेगो यथा भीम इवापगायाः ॥

6.60.7

तं व्यालनानाविधगूढसारं गजाश्वपादातरथौघपक्षम् ।
व्यूहं महामेघसमं महात्मा ददर्श दूरात्कपिराजकेतुः ॥

6.60.8

विनिर्ययौ केतुमता रथेन नरर्षभः श्वेतहयेन काले ।
जये धृतः शत्रुवरूथिनीनां यथा सुरेन्द्रोऽसुरवाहिनीनाम् ॥

6.60.9

नारायणेनेन्द्र इवाभिगुप्तः शशीव सूर्येण समेयिवान्यथा ।
तथा महात्मा सह केशवेन वरीथिनीनां प्रमुखे रराज ॥

6.60.10

सोपस्करं सोत्तरबन्धुरेषं यत्तं यदूनामृषभेण सङ्ख्ये ।
कपिध्वजं प्रेक्ष्य रथं विषेदुः सहैव पुत्रैस्तव कौरवेयाः ॥

6.60.11

प्रकल्पितं गुप्तमुदायुधेन किरीटिना लोकमहारथेन ।
तं व्यूहराजं ददृशुस्त्वदीया- श्चतुश्चतुर्व्यालसहस्रकीर्णम् ॥

6.60.12

यथैव पूर्वेऽहनि धर्मराज्ञा व्यूहः कृतः कौरवसत्तमेन ।
यथा न भूतो भुवि मानुषेषु न दृष्टपूर्वो न च संश्रुतश्च ॥

6.60.13

ततो यथादेशमुपेत्य तस्थुः पाञ्चालमुख्याः सह चेदिमुख्यैः ।
ततः समादेशसमाहतानि भेरीसहस्राणि विनेदुराजौ ॥

6.60.14

शङ्खस्वनास्तूर्यरवाः प्रणेदुः सर्वेष्वनीकेषु ससिंहनादाः ।
ततः सबाणानि महास्वनानि विस्फार्यमाणानि धनूंषि वीरैः ॥

6.60.15

क्षणेन भेरीपणवप्रणादा- नन्तर्दधुः शङ्खमहास्वनांश्च ।
तच्छङ्खशब्दावृतमन्तरिक्ष- मुद्धूतभौमद्रुतरेणुजालम् ॥

6.60.16

महानुभावाश्च ततः प्रकाश- नालोक्य वीराः सहसाऽभिपेतुः ।
रथी रथेनाभिहतः ससूतः पपात साश्वः सरथः सकेतुः ॥

6.60.17

गजो गजेनाभिहताः पपात पदातिना चाभिहतः पदातिः ।
आवर्तमानान्यभिवर्तमानै- र्घोरीकृतान्यद्भुतदर्शनानि ॥

6.60.18

प्रासैश्च खङ्गैश्च समाहतानि सदश्वबृन्दानि सदश्वबृन्दैः ।
सुवर्णतारागणभूषितानि सूर्यप्रभाभानि शरावराणि ॥

6.60.19

विदार्यमाणानि परश्वथैश्च प्रासैश्च स्वङ्गैश्च निपेतुरुर्व्याम् ।
गजैर्विषणापरगात्ररुग्णाः केचित्ससूता रथिनः प्रपेतुः ॥

6.60.20

गजर्षभाश्चापि जगर्षभेण निपातिता बाणहताः पृथिव्याम् ।
गजौघवेगोद्धतसादितानां श्रुत्वा विषेदुः सहसा मनुष्याः ॥

6.60.21

आर्तस्वनं सादिपदातियूनां विषाणगात्रावरताडितानाम् ।
सम्भ्रान्तनागाश्वरथे मुहूर्ते महाक्षये सादिपदातियूनाम् ॥

6.60.22

महारथैः सम्परिवार्यमाणं सन्दृश्य दूरात्कपिराजकेतुम् ।
तं पञ्चतालोच्छ्रिततालकेतुः सदश्ववेगाद्भुतवीर्ययानः ॥

6.60.23

महास्त्रबाणाशनिदीप्तमन्तं किरीटिनं शान्तनवोऽभ्यधावत् ।
तथैव शक्रप्रतिमप्रभाव- मिन्द्रात्मजं द्रोणमुखा विसस्नुः ॥

6.60.24

कृपश्च शल्यश्च विविंशतिश्च दुर्योधनः सौमदत्तिश्च राजन् ।
ततो रथानां प्रमुखादुपेत्य सर्वास्त्रिवित्काञ्चनचित्रवर्मा ॥

6.60.25

जवेन शूरोऽभिससार सर्वां- स्तानर्जुनस्यात्मभवोऽभिमन्युः ।
तेषां महास्त्राणि महारथाना- मसह्यकर्मा विनिहत्य कार्ष्णिः ॥

6.60.26

बभौ महामन्त्रहुतार्चिमाली सदोगतः सन्भगवानिवाग्निः ।
ततः स तूर्णं रुधिरोदफेनां कृत्वा नदीमाशु रणे रिपूणाम् ॥

6.60.27

जगाम सौभद्रमतीत्य भीष्मो महारथं पार्थमदीनसत्वः ।
ततः प्रहस्याद्भुतविक्रमेण गाण्डीवमुक्तेन शिलाशितेन ॥

6.60.28

विपाठजालेन महास्त्रजालं विनाशयामास किरीटमाली ।
तमुत्तमं सर्वधनुर्धराणा- मसक्तकर्मा कपिराजकेतुः ॥

6.60.29

भीष्मं महात्माऽभिववर्ष तूर्णं शरौघजालैर्विमलैश्च भल्लैः ।
तथैव भीष्माहतमन्तरिक्षे महास्त्रजालं कपिराजकेतोः ॥

6.60.30

विशीर्यमाणं ददृशुस्त्वदीया दिवाकरेणेव तमोभिभूतम् ।
एवंविधं कार्मुकभीमनाद- मदीनवत्सत्पुरुषोत्तमाभ्याम् । ददर्श लोकः कुरुसृञ्जयाश्च
तद्द्वैरथं भीष्मधनञ्जयाभ्याम् ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc