भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 6.62

6.62.1

दैवमेव परं मन्ये पौरुषादपि सञ्जय ।
यत्सैन्यं मम पुत्रस्य पाण्डुपुत्रेण वध्यते ॥

6.62.2

नित्यं हि मामकांस्तात हतानेव हि शंससि ।
अव्यग्रांश्च प्रहृष्टांश्च नित्यं शंशसि पाण्डवान् ॥

6.62.3

विभग्नांश्च प्रनष्टांश्च नित्यं शंससि मामकान् । हीनान्पुरुषकारेण मामकानद्य सञ्जय ।
पातितान्पात्यमानांश्च हतानेव च शंससि ॥

6.62.4

युध्यमानान्यथाशक्ति घटमानाञ्जयं प्रति ।
पाण्डवा हि जयन्त्येव जीयन्ते चैव मामकाः ॥

6.62.5

सोऽहं तीव्राणि दुःस्वानि दुर्योधनकृतानि च ।
श्रोष्यामि सततं तात दुःसहानि बहूनि च ॥

6.62.6

तमुपायं न पश्यामि जीयेरन्येन पाण्डवान् ।
मामका विजयं युद्धे प्राप्नुयुर्येन सञ्जय ॥
सञ्जय उवाच ।

6.62.7

क्षयं मनुष्यदेहानां गजवाजिरथक्षयम् ।
श्रृणु राजन्स्थिरो भूत्वा तवैवापनयो महान् ॥

6.62.8

धृष्टद्युम्नस्तु शल्येन पीडितो नवभिः शरैः ।
पीडयामास सन्क्रुद्धो मद्राधिपतिमायसैःक ॥

6.62.9

तत्राद्भुतमपश्याम पार्षस्य पराक्रमम् ।
न्यवारयत यस्तूर्णं शल्यं समितिशोभनम् ॥

6.62.10

नान्तरं दृश्यते तत्र तयोश्च रथिनोस्तदा ।
मुहूर्तमिव तद्युद्धं तयोः सममिवाभवत् ॥

6.62.11

ततः शल्यो महाराज धृष्टद्युम्नस्य संयुगे ।
धनुश्चिच्छेद भल्लेन पीतेन निशितेन च ॥

6.62.12

अथैनं शरवर्षेण च्छादयामास संयुगे ।
गिरिं जलागमे यद्वञ्जलदा जलवृष्टिभिः ॥

6.62.13

अभिमन्युस्ततः क्रुद्धो धृष्टद्युम्ने च पीडिते ।
अभिदुद्राव वेगेन मद्रराजरथं प्रति ॥

6.62.14

ततो मद्राधिपस्थं कार्ष्णिः प्राप्यातिकोपनः ।
आर्तायनिममेयात्मा विव्याध निशितैः शरैः ॥

6.62.15

ततस्तु तावका राजन्परीप्सन्तोऽर्जुनं रणे ।
मद्रराजरथं तूर्णं परिवार्यावतस्थिरे ॥

6.62.16

दुर्योधनो विकर्णश्च दुःशासनविविंशती ।
दुर्मर्षणो दुःसहश्च चित्रसेनोऽथ दुर्मुखः ॥

6.62.17

सत्यव्रतश्च भद्रं ते पुरुमित्रश्च भारत ।
एते मद्राधिपरथं पालयन्तः स्थिता रणे ॥

6.62.18

तान्भीमसेनः सन्क्रुद्धो धृष्टद्युम्नश्च पार्षतः ।
द्रौपदेयाभिमन्युश्च माद्रीपुत्रौ च पाण्डवौ ॥

6.62.19

धार्तराष्ट्रान्दश रथान्दशैव प्रत्यवारयन् ।
नानारूपाणि शस्त्राणि विसृजन्तो विशाम्पते ॥

6.62.20

अभ्यवर्तन्तं संहृष्टाः परस्परवधैषिणः ।
ते वै समेयुः सन्ग्रामे राजन्दुर्मन्त्रिते तव ॥

6.62.21

तस्मिन्दशरथे क्रुद्धे वर्तमाने महाभये ।
तावकानां परेषां वा प्रेक्षका रथिनोऽभवन् ॥

6.62.22

शस्त्राण्यनेकरूपाणि विसृजन्तो महारथाः ।
अन्योन्यमभिनर्दन्तः सम्प्रहारं प्रचक्रिरे ॥

6.62.23

ते तदा जातसंरम्भाः सर्वेऽन्योन्यं जिघांसवः ।
अन्योन्यमभिमर्दन्तः स्पर्धमानाः परस्परम् ॥

6.62.24

अन्योन्यस्पर्धया राजञ्ज्ञातयः सन्गता मिथः ।
महास्राणि विमुञ्चन्तः समापेतुरमर्षिणः ॥

6.62.25

दुर्योधनस्तु सन्क्रुद्धो धृष्टद्युम्नं महारणे ।
विव्याध निशितैर्बाणैश्चतुर्भिः समरे द्रुतम् ॥

6.62.26

दुर्मर्षणश्च विंशत्या चित्रसेनश्च प़ञ्चभिः ।
दुर्मुखो नवभिर्बाणैर्दुःसहश्चापि सप्तभिः ॥

6.62.27

विविंशतिः पञ्चभिश्च त्रिभिर्दुःशासनस्तथा ।
तान्प्रत्यविध्यद्राजेन्द्र पार्षतः शत्रुतापनः ॥

6.62.28

एकैकं पञ्चविंशत्या दर्शयन्पाणिलाघवम् ।
सत्यव्रतं च समरे पुरुमित्रं च भारत ॥

6.62.29

अभिमन्युरविध्यत्तु दशभिर्दशभिः शरैः ।
माद्रीपुत्रौ तु समरे मातुलं मातृनन्दनौ ॥

6.62.30

अविध्येतां शरैस्तीक्ष्णैस्तदद्भुतमिवाभवत् ।
ततः शल्यो महाराज स्वस्त्रीयौ रथिनां वरौ ॥

6.62.31

शरैर्बहुभिरानर्च्छत्कृतप्रतिकृतैषिणौ ।
छाद्यमानौ ततस्तौ कतु माद्रीपुत्रौ न चेलतुः ॥

6.62.32

अथ दुर्योधनं दृष्ट्वा भीमसेनो महाबलः ।
विधित्सुः कलहस्यान्तं गदां जग्राह पाण्डवः ॥

6.62.33

तमुद्यतगदं दृष्ट्वा कैलासमिव श्रृङ्गिणम् ।
भीमसेनं महाबाहुं पुत्रास्ते प्राद्रवन्भयात् ॥

6.62.34

दुर्योधनस्तु सन्क्रुद्धो मागधं समचोदयत् ।
अनीकं दशसाहस्रं कुञ्जराणां तरस्विनाम् ॥

6.62.35

गजानीकेन सहितस्तेन राजा सुयोधनाः ।
मागधं पुरतः कृत्वा भीमसेनं समभ्ययात् ॥

6.62.36

आपतन्तं च तं दृष्ट्वा गजानीकं वृकोदरः ।
गदापाणिरवारोहद्रथान्त्सिंह इवोन्नदन् ॥

6.62.37

अद्रिसारमयीं गुर्वीं प्रगृह्य महतीं गदाम् ।
अभ्यधावद्गजानीकं व्यादितास्य इवान्तकः ॥

6.62.38

स गजान्गदया निघ्नन्व्यचरत्समरे बली ।
भीमसेनो महाबाहुः सवज्र इव वासवः ॥

6.62.39

तस्य नादेन महता मनोहृदयकम्पिना ।
व्यत्यचेष्टन्त संहत्य गजा भिमस्य गर्जतः ॥

6.62.40

ततस्तु द्रौपदीपुत्राः सौभद्रश्च महारथः ।
नकुलः सहदेवश्च धृष्टद्युम्नश्च पार्षतः ॥

6.62.41

पृष्ठं भीमस्य रक्षन्तः शरवर्षेण वारणान् ।
अभ्यवर्षन्त धावन्तो मेघा इव गिरिव्रजान् ॥

6.62.42

नाकुलिस्तु शतानीकः समरे शत्रुपूगहा . क्षुरैः क्षुरप्रैर्भल्लैश्च पीतैश्चाञ्जलिकैः शितैः ।
न्यहनच्चोत्तमाङ्गानि पाण्डवो गजयोधिनाम् ॥

6.62.43

शिरोभिः प्रपतद्भिश्च बाहुभिश्च विभूषितैः ।
अश्मवृष्टिरिवाभाति पाणिभिश्च सहाङ्कुशैः ॥

6.62.44

हृतोत्तमाङ्गाः स्कन्धेषु गजानां गजयोधिनः ।
अदृश्यन्ताचलाग्रेकषु द्रुमा भग्नशिखा इव ॥

6.62.45

धृष्टद्युम्नहतानन्यानपश्याम महागजान् ।
पततः पात्यमानांश्च पार्षतेन महात्मना ॥

6.62.46

मागधोऽथ महीपालो गजमैरावणोपमम् ।
प्रेषयामास समरे सौभद्रस्य रथं प्रति ॥

6.62.47

तमापतन्तं सम्प्रेक्ष्य मागधस्य महागजम् ।
जघानैकेषुणा वीरःत सौभद्रः परवीरहा ॥

6.62.48

तस्यावर्जितनागस्य कार्ष्णिः परपुरञ्जयः ।
राज्ञो रजतपुङ्खेन भल्लेनापाहरच्छिरः ॥

6.62.49

विगाह्य तद्गजानीकं भीमसेनोऽपि पाण्डवः ।
व्यचरत्समरे मृद्गन्गजानिन्द्रो गिरीनिव ॥

6.62.50

एकप्रहारनिहतान्भीमसेनेन दन्तिनः ।
अपश्याम रणे तस्मिन्गिरीन्वज्रहतानिव ॥

6.62.51

भग्नदन्तान्भग्नकरान्भग्नसक्थीश्च वारणान् ।
भग्नपृष्ठत्रिकानन्यान्निहतान्पर्वतोपमान् ॥

6.62.52

नदतः सीदतश्चान्यान्विमुखान्समरे गतान् ।
विद्रुतान्भयसंविग्नांस्तथा विशकृतोऽपरान् ॥

6.62.53

भीमसेनस्य मार्गेषु पतितान्पर्वतोपमान् ।
अपश्यं निहतान्नागान्राजन्निष्ठीवतोपरान् ॥

6.62.54

वमन्तो रुधिरं चान्ये भिन्नकुम्भा महागजाः ।
विह्नलन्तो गता भूमिं शैला इव धरातले ॥

6.62.55

मेदोरुधिरदिग्धाङ्गो वसामज्जासमुक्षितः ।
व्यचरत्समरे भीमो दण्डपाणिरिवान्तकः ॥

6.62.56

गजानां रुधिरक्लिन्नां गदां बिभ्रद्वृकोदरः ।
घोरः प्रतिभयश्चासीत्पिनाकीव पिनाकभृत् ॥

6.62.57

सम्मथ्यमानाः क्रुद्धेन भीमसेनेन दन्तिनः ।
सहसा प्राद्रवन्क्लिष्ठा मृद्गन्तस्तव वाहिनीम् ॥

6.62.58

तं हि वीरं महेष्वासं सौभद्रप्रमुखा रथाः ।
पर्यरक्षन्त युध्यन्तं वज्रायुधमिवामराः ॥

6.62.59

शोणिताक्तां गदां बिभ्रदुक्षितां गजशोणितैः ।
कृतान्त इव रोद्रात्मा भीमसेनो व्यदृश्यत ॥

6.62.60

व्यायच्छमानं गदया दिक्षु सर्वासु भारत ।
अपश्याम रणे भीमं नृत्यन्तमिव शङ्करम् ॥

6.62.61

यमदण्डोपमां गुर्वीमिन्द्राशनिसमकस्वनाम् ।
अपश्याम महाराय रौद्रां विशसनीं गदाम् ॥

6.62.62

विमिश्रां केशमञ्जाभिः प्रदिग्धां रुधिरेण च ।
पिनाकमिव रुद्रस्य क्रुद्धस्याभिघ्नतः पशून् ॥

6.62.63

यथा पशूनां सङ्घातं यष्ट्या पालः प्रकालयेत् ।
तथा भीमो गजानीकं गदया समकालयत् ॥

6.62.64

गदया वध्यमानास्ते मार्गणैश्च समन्ततः ।
स्वान्यनीकानि मृद्गन्तः प्राद्रवन्कुञ्जरास्तव ॥

6.62.65

महावात इवाभ्राणि विधमित्वा स वारणान् ।
अतिष्ठत्तुमुले भीमः श्मशान इव शूलभृत् ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc