भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 6.59

6.59.1

प्रतिज्ञाते ततस्तस्मिन्युद्धे भीष्मेण दारुणे ।
क्रोधितो मम पुत्रेण दुःखितेन विशेषतः ॥

6.59.2

भीष्मः किमकरोत्तत्र पाण्डवेयेषु भारत ।
पितामहे वा पञ्चालास्तन्ममाचक्ष्व सञ्जय ॥
स्̤अञ्जय उवाच ।

6.59.3

गतपूर्वाह्णभूयिष्ठे तस्मिन्नहनि भारत ।
पश्चिमां दिशमास्थाय स्थिते चापि दिवाकरे ॥

6.59.4

जयं प्राप्तेषु हृष्टेषु पाण्डवेषु महात्ससु ।
सर्वधर्मविशेषज्ञः पिता देवव्रतस्तव ॥

6.59.5

अभ्ययाञ्जवनैरश्वैः पाण्डवानामनीकिनीम् ।
महत्या सेनया गुप्तस्तव पुत्रैश्च सर्वशः ॥

6.59.6

प्रावर्तत ततो युद्धं तुमुलं रोमहर्षणम् ।
अस्माकं पाण्डवैः सार्धमनायात्तव भारत ॥

6.59.7

घनुषां कूजतां तत्र तलानां चाभिहन्यताम् ।
महान्समभवच्छब्दो गिरीणामिव दीर्यताम् ॥

6.59.8

तिष्ठ स्थितोऽस्मि विद्ध्यैनं निवर्तस्व स्थिरो भव ।
स्थिरोऽस्मि प्रहरस्वेति शब्दोऽश्रूयत सर्वशः ॥

6.59.9

काञ्चनेषु तनुत्रेषु किरीटेषु ध्वजेषु च ।
शिलानामिव शैलेषु पतितानामभूद्ध्वनिः ॥

6.59.10

पतितान्युत्तमाङ्गानि बाहवश्च विभूषिताः ।
व्यचेष्टन्त महीं प्राप्य शतशोऽथ सहस्रशः ॥

6.59.11

हृतोत्तमाह्गाः केचित्तु तथैवोद्यतकार्मुकाः ।
प्रगृहीतायुधाश्चापि तस्थुः पुरुषसत्तमाःक ॥

6.59.12

प्रावर्तत महावेगा नदी रुधिरवाहिनी ।
मातङ्गाङ्गशिला रौद्रा मांसशोणितकर्दमा ॥

6.59.13

वरश्वनरनागानां शरीरप्रभवा तदा ।
परलोकार्णवमुखी गृध्रगोमायुमोदिनी ॥

6.59.14

न दृष्टं न श्रुतं वापि युद्धमेतादृशं नृप ।
यथा तव सुतानां च पाण्डवानां च भारत ॥

6.59.15

नासीद्रथपथस्तत्र यौधैर्युधि निपातितैः ।
गजैश्च पतितैर्नीलैर्गिरिश्रृङ्गैनिरवावृतः ॥

6.59.16

विकीर्णैः कवचैश्चित्रैः शिरस्त्रणैश्च मारिष ।
शुशुभे तद्राणस्थानं शरदीव नभस्तलम् ॥

6.59.17

विनिर्भिन्नाः शरैः केचिदन्त्रापीडप्रकर्षिणः ।
अभीताः समरे शत्रूनभ्यधावन्त दर्पिताः ॥

6.59.18

तात भ्रातः सखे बन्धो वयस्य मम मातुल ।
मा मां परित्यजेत्यन्ये चुक्रुशुः पतिता रणे ॥

6.59.19

अथाभ्येहि त्वमागच्छ किं भीतोसि क्व यास्यसि ।
स्थितोऽहं समरे मा भैरिति चान्ये विचुक्रुशुः ॥

6.59.20

तत्र भीष्मः शान्तनवो नित्यं मण्डलकार्मुकः ।
मुमीच बाणान्दीप्ताग्रानहीनाशीविषानिव ॥

6.59.21

शरैरेकायनीकुर्वन्दिशः सर्वा यतव्रतः ।
जघान पाण्डवरथानादिश्य भारतर्षभ ॥

6.59.22

स नृत्यन्वै रथोपस्थे दर्शयन्पाणिलाघवम् ।
अलातचक्रवद्राजंस्तत्र तत्र स्म दृश्यते ॥

6.59.23

तमेकं समरे शूरं पाण्डवाः सृञ्जयैः सह ।
अनेकशतसाहस्रं समपश्यन्त लाघवात् ॥

6.59.24

मायाकृतात्मानमिव भीष्मं तत्र स्म मेनिरे ।
पूर्वस्यां दिशि तं दृष्ट्वा प्रतीच्यां ददृशुर्जनाः ॥

6.59.25

उदीच्यां चैवमालोक्य दक्षिणस्यां पुनः प्रभो ।
एवं स समरे शूरो गाङ्गेयः प्रत्यदृश्यत ॥

6.59.26

न चैवं पाण्डवेयानां कश्चिच्छक्नोति वीक्षितुम् ।
विशिखानेव पश्यन्ति भीष्मचापच्युतान्बहून् ॥

6.59.27

कुर्वाणं समरे कर्म सूदयानं च वाहिनीम् ।
व्याक्रोशन्त रणे तत्र नरा बहुविधा बहु ॥

6.59.28

अमानुषेण रूपेण चरन्तं पितरं तव ।
शलभा इव राजानः पतन्ति विधिचोदिताः ॥

6.59.29

भीष्माग्निमभिसन्क्रुद्धं विनाशाय सहस्रशः ।
न हि मोघः शरः कश्चिदासीद्भीष्मस्य संयुगे ॥

6.59.30

नरनागाश्वकायेषु बहुत्वाल्लघुयोधिनः ।
भिनत्त्येकेन बाणेन सुमुखेन पतत्रिणा ॥

6.59.31

गजं कन्कटसन्नद्धं वज्रेणेव शिलोच्चयम् ।
द्वौ त्रीनपि गजारोहान्पिण्डितान्वर्मितानपि ॥

6.59.32

नाराचेन सुमुक्तेन निजघान पिता तव ।
यो यो भीष्मं नरव्याघ्रमभ्येति युधि कश्चन ॥

6.59.33

मुहूर्तदृष्टः स मया पतितो भुवि दृश्यते ।
एवं सा धर्मराजस्य वध्यमाना महाचमूः ॥

6.59.34

भीष्मेणातुलवीर्येण व्यशीर्यत संहस्रधा ।
प्राकम्पत महासेना शरवर्षेण तापिता ॥

6.59.35

पश्यतो वासुदेवस्य पार्थस्याथ शिखण्डिनः ।
यतमानाऽपि ते वीरा द्रवमाणान्महारथान् ॥

6.59.36

नाशक्नुवन्वारयितुं भीष्मबाणप्रपीडितान् ।
महेन्द्रसमवीर्येण वध्यमाना महाचमूः ॥

6.59.37

अभज्यत महाराज न च द्वौ सह धावतः ।
आविद्धरनागाश्वं पतितध्वजकूबरम् ॥

6.59.38

अनीकं पाण्डुपुत्राणां हाहाभूतमचेतनम् ।
जघानात्र पिता पुत्रं पुत्रश्च पितरं तथा ॥

6.59.39

प्रियं सखायं चाक्रन्दे सखा दैवबलात्कृतः . 6-59-39ब्विमुच्य कवचान्यन्ये पाण्डुपुत्रस्य सैनिकाः ॥

6.59.40

विनुक्तकेशा धावन्तः प्रत्यदृश्यन्त भारत ।
तद्गोकुलमिवोद्धान्तमुद्धान्तरथयूथपम् ॥

6.59.41

ददृशे पाण्डुपुत्रस्य सैन्यमार्तस्वरं तदा ।
प्रभज्यमानं सैन्यं तु दृष्ट्वा यादवनन्दनः ॥

6.59.42

उवाच पार्थं बीभत्सुं निगृह्य रथमुत्तमम् ।
असं स कालः सम्प्राप्तः पार्थ पस्तेऽभिकाङ्क्षितः ॥

6.59.43

प्रहरस्व नरव्याघ्र न चेन्मोहाद्विमुह्यसे । यत्त्वया कथितं वीर पुरा राज्ञां समागमे ।

6.59.44

भीष्मद्रोणमुखान्सर्वान्धार्तराष्ट्रस्य सैनिकान् ।
सानुबन्धान्हनिष्यामि ये मां योत्स्यन्ति संयुगे ॥

6.59.45

इति तत्कुरु कौन्तेय सत्यं वाक्यमरिन्दम ।
बीभत्सो पश्य सैन्यं स्वं भज्यमानं ततस्ततः ॥

6.59.46

द्रवतश्च महीपालान्पश्य यौधिष्ठिरे बले ।
दृष्ट्वा हि भीष्मं समरे व्यात्ताननमिवान्तकम् ॥

6.59.47

भयार्ताः प्रपलायन्ते सिंहात्क्षुद्रमृगा इव ।
एवमुक्तः प्रत्युवाच वासुदेवं धनञ्जयः ॥

6.59.48

नोदयाश्वान्यतो भीष्मो विगाहे तद्वलार्णवम् ।
पातयिष्यामि दुर्धर्षं वृद्धं कुरुपितामहम् ॥
सञ्जय उवाच ।

6.59.49

ततोऽश्वान्रजतप्रकख्यान्नोदयामास माधवः ।
यतो भीष्मरथो राजन्दुष्प्रेक्ष्यो रश्मिमानिव ॥

6.59.50

ततस्तत्पुनरावृत्तं युधिष्ठिरबलं महत् ।
दृष्ट्वा पार्थं महाबाहुं भीष्मायोद्यतमाहवे ॥

6.59.51

ततो भीष्मःक कुरुश्रेष्ठ सिंहवद्विनदन्मुहुः ।
धनञ्जयरथं शीघ्रं शरवर्षैरवाकिरत् ॥

6.59.52

क्षणेन स रथस्तस्य सहयः कसहसारथिः ।
शरवर्षेण महता सञ्छन्नो न प्रकाशते ॥

6.59.53

वासुदेवस्त्वसम्भ्रान्तो धैर्यमास्थाय सत्त्ववान् ।
चोदयामास तानश्वान्विभिन्नान्भीष्मसायकैः ॥

6.59.54

ततः पार्थो धनुर्गृह्य दिव्यं जलदनिःस्वनम् ।
पातयामास भीष्मस्य धनुश्छित्वा त्रिभिः शरैः ॥

6.59.55

स च्छिन्नधन्वा कौरव्यः पुनरन्यन्महद्धनुः ।
निमिषान्तरमात्रेण सज्यं चक्रे पिता तव ॥

6.59.56

विचकर्ष ततो दोर्भ्यां धनुर्जलदनिःस्वनम् ।
अथास्य तदपि क्रुद्धश्चिच्छेद धनुरर्जुनः ॥

6.59.57

तस्य तत्पूजयामास लाघवं शन्तनोः सुतः ।
साधु पार्थ महाबाहो साधु भो पाण्डुनन्दन ॥

6.59.58

त्वय्येवैतद्युक्तरूपं महत्कर्म धनञ्जय ।
प्रीतोऽस्मि सुभृशं पुत्र कुरु युद्धं मया सह ॥

6.59.59

इति पार्थं प्रशस्याथ प्रगृह्यान्यन्महद्धनुः ।
मुमोच समरे वीरः शरान्पार्थरथं प्रति ॥

6.59.60

अदर्शयद्वासुदेवो हययाने परं बलम् ।
मोघान्कुर्वञ्शरांस्तस्य मण्डलान्व्यचरल्लुघु ॥

6.59.61

तथा भीष्मस्तु सुदृढं वासुदेवधनञ्जयौ ।
विव्याध निशितैर्बाणैः सर्वगात्रेषु भारत ॥

6.59.62

शुशुभाते नरव्याघ्रौ तौ भीष्मशरविक्षतौ ।
गोवृषाविव संरब्धौ विषाणोल्लेखनाङ्क्तितौ ॥

6.59.63

पुनश्चापि सुसंरब्धः शरैः शतसहस्रशः . कृष्णयोर्युधि संरब्धो भीष्माः प्राच्छादयद्दिशः ।
पार्थोऽपि समरे क्रुद्धो भीष्मस्यावारयद्दिशः ॥

6.59.64

वार्ष्णेयं च शरैस्तीक्ष्णैः कम्पयामास रोषितः ।
मुहुरभ्यर्दयन्भीष्मः प्रहस्य स्वनवत्तदा ॥

6.59.65

ततस्तु कृष्णः समरे दृष्ट्वा भीष्मपराक्रमम् ।
सम्प्रेक्ष्य च महाबाहुः पार्थस्य मृदुयुद्धताम् ॥

6.59.66

भीष्मं च शरवर्षाणि सृजन्तमनिशं युधि ।
प्रतपन्तमिवादित्यं मध्यमासाद्य सेनयोः ॥

6.59.67

वारन्वरान्विनिघ्नन्तं पाण्डुपुत्रस्य सैनिकान् ।
युगान्तमिव कुर्वाणं भीष्मं यौधिष्ठिरे बले ॥

6.59.68

अमृष्यमाणो भगवान्केशवः परवीरहा ।
अचिन्तयदमेयात्मा नास्ति यौधिष्ठिरं बलम् ॥

6.59.69

एकाह्ना हि रणे भीष्मो नाशयेद्देवदानवान् ।
किं नु पाण्डुसुतान्युद्धे सबलान्सपदानुगान् ॥

6.59.70

द्रवते च महासैन्यं पाण्डवस्य महात्मनः ।
एते च कौरवास्तूर्णं प्रभग्नान्वीक्ष्य सोमकान् ॥

6.59.71

प्राद्रवन्ति रणे दृष्ट्वा हर्षयन्तः पितामहम् ।
सोहं भीष्मं निहन्म्यद्य पाण्डवार्थाय दंशितः ॥

6.59.72

भारमेतं विनेष्यामि पाण्डवानां महात्मनाम् ।
अर्जुनो हि शरैस्तीक्ष्णैर्वध्यमानोऽपि संयुगे ॥

6.59.73

कर्तव्यं नाभिजानाति रणे भीष्मस्य गौरवात् । तथा चिन्तयतस्तस्य भूय एव पितामहः ।
प्रेषयामास सन्क्रुद्धः शरान्पार्थरथं प्रति ॥

6.59.74

तेषां बहुत्वासु भृसं शराणां दिशश्च सर्वाः पिहिता बभूवुः ।
न चान्तरिक्षं न दिशो न भूमि- र्न भास्करोऽदृश्यत रश्मिमालीक ॥

6.59.75

ववुश्च वातास्तुमुलाः सधूमा दिशश्च सर्वाः क्षुभिता बभूवुः ।
द्रोणो विकर्णोऽथ जयद्रथश्च भूरिश्रवाः कृतवर्मा कृपश्च ॥

6.59.76

श्रुतायुरम्बष्ठपतिश्च राजा विन्दानुविन्दौ च सुदक्षिणश्च ।
प्राच्याश्च सौवीरगणाश्च सर्वे वसातयः क्षुद्रकमालवाश्च ॥

6.59.77

किरीटिनं त्वरमाणाभिस्रु- र्निदेशगाः शान्तनवस्य राज्ञः ।
तं वाजिपादातरथौघजालै- रनेकसाहस्रशतैर्ददर्श ॥

6.59.78

किरीटिनं सम्परिवार्यमाणं शिनेर्नप्ता वारणयूथपैश्च ।
ततस्तु दृष्ट्वार्जुनवासुदेवौ पदातिनागाश्वरथैः समन्तात् ॥

6.59.79

अभिद्रुतौ शस्त्रभृतां वरिष्ठौ शिनिप्रवीरोऽभिससार तूर्णम् ।
स तान्यनीकानि महाधनुष्मान् शिनिप्रवीरः सहसाऽभिपत्य ॥

6.59.80

चकार साहाय्यमथार्जुनस्य विष्णुर्यथा वृत्रनिषूदनस्य ।
विशीर्णनागाश्वरथध्वजौघं भीष्मेण वित्रासितसर्वयोधम् ॥

6.59.81

युधिष्ठिरानीकमभिद्रवन्तं प्रोवाच सन्दृश्य शिनिप्रवीरः ।
क्व क्षत्रिया यास्यथ नैष धर्मः सतां पुरस्तात्कथितः पुराणैः ॥

6.59.82

मा स्वां प्रतिज्ञां त्यजत प्रवीराः स्वं वीरधर्मं परिपालयध्वम् ।
तान्वासवानन्तरजो निशाम्य नरेन्द्रमुख्यान्द्रवतः समन्तात् ॥

6.59.83

पार्थस्य दृष्टवा मृदुयुद्धातां च भीष्मं च सङ्ख्ये समुदीर्यमाणम् ।
अमृष्यमाणः स ततो महात्मा यशस्विनं सर्वदशार्हभर्ता ॥

6.59.84

उवाच शैनेयमभिप्रशंसन् दृष्ट्वा कुरूनापततः समग्रान् ।
ये यान्ति ते यान्तु शिनिप्रवीर येऽपि स्थिताः सात्वत तेऽपि यान्तु ॥

6.59.85

भीष्मं रथात्पश्य निपात्यमानं द्रोणं च सङ्ख्ये सगणं मयाऽद्य ।
न सारथेः सात्वत कौरवाणां क्रुद्धस्य मुच्येत रणेऽद्य कश्चित् ॥

6.59.86

तस्मादहं गृह्य रथाङ्गमुग्रं प्राणं हरिष्यामि महाव्रतस्य ।
निहत्य भीष्मं सगणं तथाजौ द्रोणं च शैनेय रथप्रवीरौ ॥

6.59.87

प्रीतिं करिष्यामि धनञ्जयस्य राज्ञश्च भीमस्य तथाऽश्विनोश्च ।
निहत्य सर्वान्धृतराष्ट्रपुत्रां- स्तत्पक्षिणो ये च नरेन्द्रमुख्याः . राज्येन राजानमजातशत्रुं सम्पादयिष्याम्यहमद्य हृष्टः ॥

6.59.88

इतीदमुक्त्वा स महानुभावः सस्मार चक्रं निशितं पुराणम् ।
सुदर्शनं चिन्तितमात्रमेव तस्याग्रहस्तं स्वयमारुरोह ॥

6.59.89

तच्चक्रपद्मं प्रगृहीतमाजौ रराज नारायणबाहुनालम् ।
यथादिपद्मं तरुणार्कवर्णं रराज नारायणनाभिजातमक् ॥

6.59.90

तत्कृष्णकोपोदयसूर्यबुद्धं क्षुरान्ततीक्ष्णाग्रसुजातपत्रम् ।
तेस्यैव देहोरुसरःप्ररूढं रराज नारायणबाहुनालम् ॥

6.59.91

ततः सुनाभं वसुदेवपुत्रः सूर्यप्रभं वज्रसमप्रभावम् ।
क्षुरान्तमुद्यम्य भुजेन चक्रं रथादवप्लुत्य विसृज्य वाहान् । सन्कम्पयन्गां चरणैर्महात्मा वेगेन कृष्मः प्रससार भीष्मम् ॥

6.59.92

मदान्धमाजौ समुदीर्णदर्पं सिंहो जिघांसन्निव वारणेन्द्रम् ।
सोऽभिद्रवन्भीष्ममनीकमध्ये क्रुद्धो महेन्द्रावरजः प्रमाथी . व्यालम्बिपीताम्बरधृक्ककाशे घनो यथा खे तडितावनद्धः ॥

6.59.93

तमात्तचक्रं प्रणदन्तमुच्चैः क्रुद्धं महेन्द्रावरजं समीक्ष्य ।
सर्वाणि भूतानि भृशं विनेदुः क्षयं कुरूणामिव चिन्तयित्वा ॥

6.59.94

स वासुदेवः प्रगृहीतचक्रः संवर्तयिष्यन्निव सर्वलोकम् ।
अभ्युत्पतँल्लोकगुरुर्बभासे भूतानि धक्ष्यन्निव धूमकेतुः ॥

6.59.95

तमाद्रवन्तं प्रगृहीतचक्रं दृष्ट्वा देवं शान्तनवस्तदानीम् ।
असम्भ्रमं तद्विचकर्ष दोर्भ्यां महाधनुर्गामडिवतुल्यघोषम् । उवाच भीष्मस्तमनन्तपौरुषं गोविन्दमाजावविमूढचेताः ॥

6.59.96

एह्येहि देवेश जगन्निवास नमोस्तु ते माधव चक्रपाणे ।
प्रसह्य मां पातय लोकनाथ रथोत्तमात्सर्वशरण्य सङ्ख्ये ॥

6.59.97

त्वया हतस्यापि ममाऽद्य कृष्ण श्रेयः परिस्मिन्निह चैव लोके ।
सम्भावितोऽस्म्यन्धकवृष्णिनाथ लोकैस्त्रिभिर्वीर तवाभियानात् ॥

6.59.98

रथादवप्लुत्य ततस्त्वरावान् पार्थोऽप्यनुद्रुत्य यदुप्रवीरम् ।
जग्राह पीनोत्तमलम्बबाहुं बाह्वोर्हरिं व्यायतपीनबाहुः ॥

6.59.99

निगृह्यमणाश्च तदाऽदिदेवो भृश सरोषः किल नाम योगी ।
आदाय वेगेन जगाम विष्णु- र्जिष्णुं महावात इवैकवृक्षम् ॥

6.59.100

पार्थस्तु विष्टभ्य बलेन पादौ भीष्मान्तिकं तूर्णमभिद्रवन्तम् ।
बलान्निजग्राह हरिं किरीटी पदेऽथ राजन्दशमे कथञ्चित् ॥

6.59.101

अवस्थितं च प्रणिपत्य कृष्णं प्रीतोऽर्जुनः काञ्चनचित्रमाली ।
उवाच कोपे प्रतिसंहरेति गतिर्भवान्केशव पाण्डवानाम् ॥

6.59.102

न हास्यते कर्म यथाप्रतिज्ञं पुत्रैः शपे केशव सोदरैश्च ।
अन्तं करिष्यामि यथा कुरूणां त्वयाऽहमिन्द्रानुजसम्प्रयुक्तः ॥

6.59.103

ततः प्रतिज्ञां समयं च तस्य जनार्दनः प्रीतमना निशम्य ।
स्थितः प्रिये कौरवसत्तमस्य रथं सचक्रः पुनरारुरोह ॥

6.59.104

ततः प्रतिज्ञां समवाप्य भीष्मः कृताञ्चलिः स्तुत्यमथाकरोद्वै ।
त्रैविक्रमे यस्य वपुर्बभासे तथैव दृष्ट्वा तु समुञ्ज्वलन्तम् ॥

6.59.105

प्रगृह्य शङ्खं द्विषताकं निहन्ता स तानभूषून्पुनराददानः ।
भीष्मं शरैः सम्परिवार्य सङ्ख्ये चिच्छेद भूरिश्रवसश्च चापम् ॥

6.59.106

शल्यं च विद्ध्वा नवभिः पृषत्कै- र्दुर्योधं वक्षसि निर्बिभेद ।
विनादयामास ततो दिशश्च स पाञ्चजन्यस्य रवेण शौरिः ॥

6.59.107

व्याविद्धनिष्काङ्गदकुण्डलं तं रजोविकीर्णाञ्चितपद्मनेत्रम् ।
विशुद्धदंष्ट्रं प्रगृहीतशङ्खं विचुक्रुशुः प्रेक्ष्य कुरुप्रवीराः ॥

6.59.108

मृदङ्गभेरीपणवप्रणादा नेमिस्वना दुन्दुभिनिःस्वनाश्च ।
ससिंहनादाश्च बभूवुरुग्राः सर्वेष्वनीकेषु ततः कुरूणाम् ॥

6.59.109

गाण्डीवघोषः स्तनयित्नुकल्पो जगाम पार्थस्य नभो दिशश्च ।
जग्मुश्च बाणा विमलाः प्रसन्नाः सर्वा दिशः पाण्डवचापमुक्ताः ॥

6.59.110

तं कौरवाणामधिपो जवेन भीष्मेण भूरिश्रवसा च सार्धम् ।
अभ्युद्ययावुद्यतबाणपाणिः कक्षं दिधक्षन्निव धूमकेतुः ॥

6.59.111

अथार्जुनाय प्रजिघाय भल्लान् भूरिश्रवाः सप्त सुवर्णपुङ्खान् ।
दुर्योदनस्तोमरमुग्रवेगं शल्यो गदां शान्तनवश्च शक्तिम् ॥

6.59.112

स सप्तभिः सप्त शरप्रवेकान् संवार्य भीरिश्रवसा विसृष्टान् ।
शितेन दुर्योधनबाहुमुक्तं क्षुरेण तत्तोमरमुन्ममाथ ॥

6.59.113

ततः शुभामापततीं स शक्तिं विद्युत्प्रभां शान्तनवेन मुक्ताम् ।
गदां च मद्राधिपबाहुमुक्तां द्वाभ्यां शराभ्यां निचर्त वीरः ॥

6.59.114

ततो भुजाभ्यां बलवद्विकृष्य चित्रं धनुर्गाण्डिवमप्रमेयम् ।
माहेन्द्रमस्रं विधिवत्सुघोरं प्रादुश्चकाराद्भुतमन्तरिक्षे ॥

6.59.115

तेनोत्तमास्त्रेण ततो महात्मा सर्वाण्यनीकानि महाधनुष्मान् ।
शरौघजालैर्विमलाग्निवर्णै- र्निवारयामास किरीटमाली ॥

6.59.116

शिलीमुखाः पार्थधनुःप्रमुक्ता रथान्ध्वजाग्राणि धनूंषि बाहून् ।
निकृत्य देहान्विविशुः परेषां नरेन्द्रनागेन्द्रतुरङ्गमाणाम् ।

6.59.117

ततो दिशः सोऽनुदिशश्च पार्थः शरैः सुधारैः समरे वितत्य ।
गाण्डीवशब्देन मनांसि तेषां किरीटमाली व्यथयाञ्चकार ॥

6.59.118

तस्मिंस्तथा घोरतमे प्रवृत्ते शङ्खस्वना दुन्दुभिनिःस्वनाश्च ।
अन्तर्हिता गाण्डिवनिःस्वनेन बभूवुरुग्राश्वरथप्रणादाः ॥

6.59.119

गाण्डीवशब्दं तमथो विदित्वा विराटराजप्रमुखाः प्रवीराः ।
पाञ्चालराजो द्रुपदश्च वीर- स्तं देशमाजग्मुरदीनसत्त्वाः ॥

6.59.120

सर्वाणि सैन्यानि तु तावकानि यतोयतो गाण्डिवजः प्रणादः ।
ततस्ततः सन्नतिमेव जग्मु- र्न तं प्रतीपोऽभिससार कश्चित् ॥

6.59.121

तस्मिन्सुघोरे कनृप सम्प्रहारे हताः प्रवीराः सरथाश्वसूताः ।
गजाश्च नाराचनिपाततप्ता महापताकाः शुभरुक्मकक्ष्याः ॥

6.59.122

परीतसत्वाः सहसा निपेतुः किरीटिना भिन्नतनुत्रकायाः ।
दृढं हताः पात्रिभिरुग्रवेगैः पार्थेन भल्लैर्विमलैः शिताग्नैः ॥

6.59.123

निकृत्तयन्त्रा निहतेन्द्रकीला ध्वजा महान्तो ध्वजिनिमुखेषु ।
पदातिसङ्घाश्च रथाश्च सङ्ख्ये हयाश्च नागाश्च धनञ्जयेन ॥

6.59.124

बाणाहतास्तूर्णमपेतसत्वा विष्टभ्य गात्राणि निपेतुरुर्व्याम् ।
ऐन्द्रेण तेनास्त्रवरेण राजन् महाहवे भिन्नतनुत्रदेहाः ॥

6.59.125

ततः शरौघैर्निशितैः किरीटिना नृदेहशस्त्रक्षतलोहितोदा ।
नदी सुघोरा नरमेदफेना प्रवर्तिता तत्र रणाजिरे वै ॥

6.59.126

वेगेन साऽतीव पृथुप्रवाहा परेतनागाश्वशरीररोधाः ।
नरेन्द्रमञ्जोच्छ्रितमांसपङ्काः प्रभूतरक्षोगणभूतसेविता ॥

6.59.127

शिरःकपालाकुलकेशशाद्वला शरीरसङ्घातसहस्रवाहिनी ।
विशीर्णनानाकवचोर्मिसन्कुला नराश्वनागास्थिनिकृत्तशर्करा ॥

6.59.128

श्वकङ्कशालावृकगृध्रकाकैः क्रव्यादसङ्घैश्च तरक्षुभिश्च ।
उपेतकूलां ददृशुर्मनुष्याः क्रूरां महावैतरणीप्रकाशाम् ॥

6.59.129

प्रवर्तितामर्जुनबाणसङ्घै- र्मेदोवसासृकप्रवहां सुभीमाम् ।
हतप्रवीरां च तथैव दृष्ट्वा सेनां कुरूणामथ फल्गुनेन ॥

6.59.130

ते चेदिपाञ्चालकरूषमत्स्याः पार्थाश्च सर्वे सहिताः प्रणेदुः ।
जयप्रगल्भाःक पुरुषप्रवीराः सन्त्रासयन्तः कुरुवीरयोधान् ॥

6.59.131

हतप्रवीराणि बलानि दृष्ट्वा किरीटिना शत्रुभयावहेन ।
वित्रास्य सेनां ध्वजिनीपतीनां सिंहो मृगाणामिव यूथसङ्घान् ॥

6.59.132

विनेदतुस्तावतिहर्षयुक्तौ गाण्डीवधन्वा च जनार्दनश्च ।
ततो रविं संवृतरश्मिजालं दृष्ट्वा भृशं शस्त्रपरिक्षताङ्गाः ॥

6.59.133

तदैन्द्रमस्त्रं विततं च घोर- मसह्यमुद्वीक्ष्य युगान्तकल्पम् ।
अथापयानं कुरवः सभीष्माः सद्रोणदुर्योधनबाह्लिकाश्च ॥

6.59.134

चक्रुर्निशां सन्धिगतां समीक्ष्य विभावसोर्लोहितरागयुक्ताम् ।
अवापय कीर्ति च यशश्च लोके विजित्य शत्रूंश्च धनञ्जयोऽपि ॥

6.59.135

ययौ नरेन्द्रैः सहसोदरैश्च समाप्तकर्मा शिबिरं निशायाम् ।
ततः प्रजज्ञे तुमुलः कुरूणां निशामुखे घोरतमः प्रणादः ॥

6.59.136

रणे रथानामयुतं निहत्य हता गजाः सप्तशतार्जुनेन ।
प्राज्याश्च सौवीरगणाश्च सर्वे निपातिताः क्षुद्रकमालवाश्च ॥

6.59.137

महत्कृतं कर्म धनञ्जयेन कर्तुं यथा नार्हति कश्चिदन्यः ।
श्रुतायुरम्बष्ठपतिश्च राजा तथैव दुर्मर्षणचित्रसेनौ ॥

6.59.138

द्रोणः कृपः सैन्धवबाह्लिकौ च भूरिश्रवाः शल्यशलौ च राजन् ।
अन्ये च योधाः शतशः समेताः क्रुद्धेन पार्थेन रणस्य मध्ये ॥

6.59.139

स्वबाहुवीर्येण जिताः सभीष्माः किरीटिना लोकमहारथेन ।
इति ब्रुवन्तः शिबिराणि जग्मुः सर्वे गणा भारत ये त्वदीयाः ॥

6.59.140

उल्कासहस्रैश्च सुसम्प्रदीप्तै- र्विभ्राजमानैश्च तथा प्रदीप्रैः ।
किरीटिवित्रासितसर्वयोधा चक्रे निवेशं ध्वजिनी कुरूणाम् ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc