भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 6.58

6.58.1

ततस्ते पार्थिवाः क्रुद्धाः फल्गुनं वीक्ष्य संयुगे ।
रथैरनेकसाहस्रैः समन्तात्पर्यवारयन् ॥

6.58.2

अथैनं रथबृन्देन कोष्ठकीकृत्य भारत ।
शरैः सुबहुसाहस्रैः समन्तादभ्यवारयन् ॥

6.58.3

शक्तीश्च विमलाकस्तीक्ष्णा गदाश्च परिघैः सह ।
प्रासान्परश्वथांश्चैव मुद्गरान्मुसलानपि ॥

6.58.4

चिक्षिषुः समरे क्रुद्धाः फल्गुनस्य रथं प्रति ।
शस्त्राणामथ तां वृष्टिं शलभानामिवायतिम् ॥

6.58.5

रुरोध सर्वतः पार्थः शरैः कनकभूषणैः ।
तत्र तल्लाघवं दृष्ट्वा बीभत्सोरतिमानुषम् ॥

6.58.6

देवदानवगन्धर्वाः पिशाचोरगराक्षसाः ।
साधुसाध्विति राजेन्द्र फल्गुनं प्रत्यपूजयन् ॥

6.58.7

सात्यकिश्चाभिमन्युश्च महत्या सेकनया वृतौ ।
गान्धारान्समरे शूराञ्जग्मतुः सहसौबलान् ॥

6.58.8

तत्र सौबलकाः क्रुद्धा वार्ष्णेयस्य रथोत्तमम् ।
तिशलश्चिच्छिदुः क्रोधाच्छस्त्रैर्नानाविधैर्युधि ॥

6.58.9

सात्यकिस्तु रथं त्यक्त्वा वर्तमाने भयावहे ।
अभिमन्यो रथं तूर्णमारुरोह परन्तपः ॥

6.58.10

तावेकरथसंयुक्तौ सौबलेयस्य वाहिनीम् ।
व्यधमेतां शितैस्तूर्णं शरैःक सन्नतपर्वभिः ॥

6.58.11

द्रोणभीष्मौ रणे यत्तौ धर्मराजस्य वाहिनीम् ।
नाशयेतां शरैस्तीक्ष्णैः कङ्कपत्रपरिच्छदैः ॥

6.58.12

ततो धर्मसुतोक राजा माद्रीपुत्रौ च पाण्डवौ ।
मिषतां सर्वसैन्यानां द्रोणानीकमुपाद्रवन् ॥

6.58.13

तत्रासीत्सुमहद्युद्धं तुमुलं रोमहर्षणम् ।
यथा देवासुरं युद्धं पूर्वमासीत्सुदारुणम् ॥

6.58.14

कुर्वाणौ सुमहत्कर्म भीमसेनघटोत्कचौ ।
दुर्योधनस्ततोऽभ्येत्य तावुभावप्यवारयत् ॥

6.58.15

तत्राद्भुतमपश्याम हैडिम्बस्य पराक्रमम् ।
अतीत्य पीतरं युद्धे यदयुध्यत भारत ॥

6.58.16

भीमसेनस्तु सन्क्रुद्धो दुर्योधनममर्षणम् ।
हृद्यविध्यत्पृषत्केन प्रहसन्निव पाण्डवः ॥

6.58.17

ततो दुर्योधननो राजा प्रहारवरपीडितः ।
निषसाद रथोपस्थे कश्मलं च जगाम ह ॥

6.58.18

तं विसञ्ज्ञं विदित्वा तु त्वरमाणोऽस्य सारथिः ।
अपोवाह रणाद्राजंस्ततः सैन्यमभज्यत ॥

6.58.19

ततस्तां कौरवीं सेनां द्रवमाणां समन्ततः ।
निघ्नन्भीमः शरैस्तीक्ष्णैरनुवव्राज पृष्ठतः ॥

6.58.20

पार्षतश्च रथश्रोष्ठो धर्मपुत्रश्च पाण्डवः ।
द्रोणस्य पश्यतः सैन्यं गाङ्गेयस्य च पश्यतः ॥

6.58.21

जघ्नतुर्विशिकैस्तीक्ष्णैः परानीकविनाशनैः ।
द्रवमाणं तु तत्सैन्यं तव पुत्रस्य संयुगे ॥

6.58.22

नाशक्नुतां वारयितुं भीष्मद्रोणौ महारथौ ।
वार्यमाणं च भीष्मेण द्रोणेन च महात्मना ॥

6.58.23

विद्रवत्येव तत्सैन्यं पश्यतोर्द्रोणभीष्मयोः ।
ततो रथसहस्रेषु विद्रवत्सु ततस्ततःक ॥

6.58.24

तावास्थितावेकरथं सौभद्रशिनिपुङ्गवौ ।
सौबलीं समरे सेनां शातयेतां समन्ततः ॥

6.58.25

शुशुभाते तदा तौ तु शैनेयकुरुपुङ्गवौ ।
अमावास्यां गतौ यद्वत्सोमसूर्यौ नभस्तले ॥

6.58.26

अर्जुनस्तु ततः क्रुद्धस्तव सैन्यं विशाम्पते ।
ववर्ष शरवर्षेण धाराभिरिव तोयदः ॥

6.58.27

वध्यमानं ततस्तत्र शरैः पार्थस्य संयुगे ।
दुद्राव कौरवं सैन्यं विषादभयकम्पितम् ॥

6.58.28

द्रवतस्तान्समालक्ष्य भीष्मद्रोणौ महारथौ ।
न्यवारयेतां संरब्धौ दुर्योधनहितैषिणौ ॥

6.58.29

ततो दुर्योधनो राजा समाश्वस्य विशाम्पते ।
न्यवर्तयत तत्सैन्यं द्रवमाणां समन्ततः ॥

6.58.30

यत्र यत्र हि पुत्रं ते ये ये पश्यन्ति भारत ।
तत्र तत्र न्यवर्तन्त क्षत्रियाणां महरथाः ॥

6.58.31

तान्निवृत्तान्समीक्ष्यैव ततोऽन्येऽपीतरे जनाः ।
अन्योन्यस्पर्धया राजँल्लज्जया चावतस्थिरे ॥

6.58.32

पुनरावर्ततां तेषां वेग आसीद्विशाम्पते ।
पूर्यतः सागरस्येव चन्द्रस्योदयनं प्रति ॥

6.58.33

अन्निवृत्तांस्ततस्तांस्तु दृष्ट्वा राजा सुयोधनः ।
अब्रवीत्त्वरितो गत्वा भीष्मं शान्तनवं वचः ॥

6.58.34

पितामह निबोधेदं यत्त्वां वक्ष्यामि भारत ।
नानुरूपमहं मन्ये त्वयि जीवति कौरव ॥

6.58.35

द्रोणो चास्त्रविदां श्रेष्ठे सपुत्रे ससुहृञ्जने ।
कृपे चैव महेष्वासे द्रवते यद्वरूथिनी ॥

6.58.36

न पाण्डवान्प्रतिलांस्तव मन्ये कथञ्चन ।
तथा द्रोणस्य सङ्ग्रमे द्रौमेश्चैव कृपस्य च ॥

6.58.37

अनुग्राह्याः पाण्डुसुतास्तव नूनं पितामह . यथेमां क्षमसे वीर वध्यमानां वरूथिनीम् ॥ 6-58-38असोऽस्मि वाच्यस्त्वया राजन्पूर्वमेव समागमे । न योत्स्ये पाण्डवान्सङ्ख्ये नापि पार्षतसात्यकी ॥

6.58.39

श्रुत्वा तु वचनं तुभ्यमाचार्यस्य कृपस्य च ।
कर्णेन सहितः कृत्यं चिन्तयानस्तदैव हि ॥

6.58.40

यदि नाहं परित्याज्यो युवाभ्यामिह संयुगे ।
विक्रमेणानुरूपेण युध्येतां पुरुषर्षभौ ॥

6.58.41

एतच्छ्रुत्वा वचो भीष्मः प्रहसन्वै मुहुर्मुहुः ।
अब्रवीत्तनयं तुभ्यं क्रोधादुद्वृत्य चक्षुषी ॥

6.58.42

बहुशोऽसि मया राजंस्तथ्यमुक्तो हितं वचः ।
अजेयाः पाण्डवा युद्धे देवैरपि सवासवैः ॥

6.58.43

यत्तु शक्यं मया कर्तुं वृद्धेनाद्य गतायुषा ।
करिष्यामि यथाशक्ति पश्येदानीं सबान्धवः ॥

6.58.44

अद्य पाण्डुसुतानेकः ससैन्यान्सह बन्धुभिः ।
सोऽहं निवारयिष्यामि सर्वलोकस्य पश्यतः ॥

6.58.45

एवमुक्ते तु भीष्मेण पुत्रास्तव जनेश्वर ।
दध्मुः शङ्खान्मुदा युक्ता भेरीः सञ्जघ्निरे भृशम् ॥

6.58.46

पाण्डवा हि ततो राजञ्श्रुत्वा तं निनदं महत् ।
दध्मुः शङ्खांश्च भेरीश्च मुरजांश्चाप्यनादयन् ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc