भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 6.57

6.57.1

ततो व्यूढेष्वनीकेषु तावकेषु परेषु च ।
धनञ्जयो रथानीकमवधीत्तव भारत ॥

6.57.2

शरैरथिरथो युद्धे दारयन्रथयूथपान् ।
ते वध्यमानाः पार्थेन कालेनेव युगक्षये ॥

6.57.3

धार्तराष्ट्रा रणे यत्नात्पाण्डवान्प्रत्ययोधयन् ।
प्रार्थयाना यशो दीप्तां मृत्युं कृत्वा निवर्तनम् ॥

6.57.4

एकाग्रमनसो भूत्वा पाण्डवानां वरूथिनीम् ।
बभञ्जुर्बहुशो राजंस्ते चासञ्जन्त संयुगे ॥

6.57.5

द्रवद्भिरथभग्नैश्च परिवर्तद्भिरेव च ।
पाण्डवैः कौरवेयैश्च न प्राज्ञायत किञ्चन ॥

6.57.6

उदतिष्ठद्रजो भौमं छादयानं दिवाकरम् ।
न दिशः प्रदिशो वापि जज्ञिरेऽत्र समागताः ॥

6.57.7

अनुमानेन सञ्ज्ञाभिर्नामगोत्रैश्च संयुगे ।
अवर्तत तदा युद्धं तत्र तत्र विशाम्पते ॥

6.57.8

न व्यूहो भिद्यते तत्र कौरवाणां कथञ्चन ।
रक्षितः सत्यसन्धेन भारद्वाजेन संयुगे ॥

6.57.9

तथैव पाण्डवानां च रक्षितः सव्यसाचिना ।
नाभिद्यत महाव्यूहो भीमेन च सुरक्षितः ॥

6.57.10

सेनाग्रादपि निष्पत्य प्रायुध्यंस्तत्र मानवाः ।
उभयोः सेनयो राजन्व्यतिषक्तरथद्विपाः ॥

6.57.11

हयारोहैर्हयारोहाः पात्यन्ते स्म महाहवे ।
ऋष्टिभिर्विमलाभिश्च प्रासैरपि च संयुगे ॥

6.57.12

रथी रथिनमासाद्य शरैः कनकभूषणैःक ।
पातयामास समरे तस्मिन्नतिभयन्करे ॥

6.57.13

गजारोहा गजारोहान्नाराचशरतोमरैः ।
संसक्तान्पातयामासुस्तव तेषां च सर्वशः ॥

6.57.14

कश्चिदुत्पत्य समरे वस्वारणमास्थितः ।
केशपक्षे परामृश्य जहार समरे शिरः ॥

6.57.15

अन्ये द्विरददन्ताग्रनिर्भिन्नहृदया रणे ।
वेमुश्च रुधिरं वीरा निःश्वसन्तः समन्ततः ॥

6.57.16

कश्चित्करिविषाणस्थो वीरो रणविशारदाः ।
प्रावेपच्छक्तिनिर्भिन्नो गजशिक्षास्त्रवेदिना ॥

6.57.17

पत्तिमङ्घा रणे पक्तीन्भिमन्दिपालपरश्वथैः ।
न्यतापतयन्त संहृष्टाः परस्परकृतागसः ॥

6.57.18

रथी च समरे राजन्नासाद्य गजयूथपम् ।
स गजं पातयामास गजी च रथिनां वरम् ॥

6.57.19

रथिनं च हयारोहः प्रासेन भरतर्षभ ।
पातयामास समरे रथी च हयसादिनम् ॥

6.57.20

पदाती रथिनं सङ्ख्ये रथी चापि पदातिनम् ।
न्यपातयच्छितैः शस्त्रैः सेनयोरुभयोरपि ॥

6.57.21

गजारोहा हयारोहान्पातयाञ्चक्रिरे तदा ।
हयारोहा गजस्थांश्च तदद्भुतमिवाभवत् ॥

6.57.22

गजारोहवरैश्चापि तत्रतत्र पदातयः ।
पातिताः समदृश्यन्त तैश्चापि गजयोधिनः ॥

6.57.23

पत्तिसङ्घा हयारोहैः सादिसङ्घाश्च पत्तिभिः ।
पात्यमाना व्यदृश्यन्त शतशोऽथ सहस्रशः ॥

6.57.24

ध्वजैस्तत्रापविद्धैश्च कार्मुकैस्तोमरैस्तथा ।
प्रासैस्तथा गदाभिश्च परिघैः कम्पनैस्तथा ॥

6.57.25

शक्तिभिः कवचैश्चित्रैः कणपैरङ्कुशैरपि ।
निस्त्रिंशैर्विमलैश्चापि स्वर्णपुङ्खैः शरैस्तथा ॥

6.57.26

परिस्तोमैः कुथाभिश्च कम्बलैश्च महाधनैः ।
भूर्भाति भरतश्रेष्ठ स्रग्दामैरिव चित्रिता ॥

6.57.27

नराश्वकायैः पतितैर्दन्तिभिश्च महाहवे ।
अगम्यरूपा पृथिवी मांसशोणितकर्दमा ॥

6.57.28

प्रशशाम रजो भौमं व्युक्षितं रणशोणितैः ।
दिशश्च विमलाः सर्वाः सम्बभूवुर्जनेश्वर ॥

6.57.29

उत्थितान्यगणेयानि कबन्धानि समन्ततः ।
चिह्नभूतानि जगतो विनाशार्थाय भारत ॥

6.57.30

तस्मिन्युद्धे महारौद्रे वर्तमाने सुदारुणे ।
प्रत्यदृश्यन्त रथिनो धावमानाः समन्ततः ॥

6.57.31

ततो भीष्मश्च द्रोणश्च सैन्धवश्च जयद्रथः ।
पुरुमित्रो जयो भोजः शल्यश्चापि ससौबलः ॥

6.57.32

एते समरदुर्धर्षाः सिंहतुल्यपराक्रमाः ।
पाण्डवानामनीकानि बभञ्जुःस्म पुनःपुनः ॥

6.57.33

तथैव भीमसेनोऽपि राक्षसश्च घटोत्कचः ।
सात्यकिश्चेकितानश्च द्रोपदेयाश्च भारत ॥

6.57.34

तावकांस्तव पुत्रांश्च सहितान्सर्वराजभिः ।
द्रावयामासुराजौ ते त्रिदशा दानवानिव ॥

6.57.35

तथा ते समरेऽन्योन्यं निघ्नन्तः क्षत्रियर्षभाः ।
रक्तोक्षिता घोररूपा विरेर्जुर्दानवा इव ॥

6.57.36

विनिर्जित्य रिपून्वीरा सेकनयोरुभयोरपि ।
व्यदृस्यन्त महामात्रा ग्रहा इव नभस्तले ॥

6.57.37

ततो रथसहस्रेण पुत्रो दुर्योधनस्तव . अभ्ययात्पाण्डवं युद्धे राक्षसं च घटोत्कचम् ॥ 6-57-38अतथैव पाण्डवाः सर्वे महत्या सेनया सह . द्रोणभीष्मौ रणे यत्तौ प्रत्युद्ययुररिन्दमौ ॥

6.57.39

किरीटी च ययौ क्रुद्धः समन्तात्पार्थिवोत्तमान् ।
आर्जुनिः सात्यकिश्चैव ययतुः सौबलं बलम् ॥

6.57.40

ततः प्रववृते भूयः सन्ग्रामो रोमहर्षणः ।
तावकानां परेषां च समरे विजयैषिणाम् ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc