भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 6.2

6.2.1

ततः पूर्वापरे सैन्ये समीक्ष्य भगवानृषिः ।
सर्ववेदविदां श्रेष्ठो व्यासः सत्यवतीसुतः ॥

6.2.2

भविष्यति रणे घोरे भरतानां पितामहः ।
प्रत्यक्षदर्शी भगवान्भूतभव्यभविष्यवित् ॥

6.2.3

वैचित्रवीर्यं राजानं रहस्स्थमिदमब्रवीत् ।
शोचन्तमार्तं ध्यायन्तं पुत्राणामनयं तदा ॥
व्यास उवाच ।

6.2.4

राजन्परिकालास्ते पुत्राश्चान्ये च पार्थिवाः ।
ते हिंसन्तीव सङ्ग्रामे समासाद्येतरेतरम् ॥

6.2.5

तेषु कालपरीतेषु विनश्यत्स्वेव भारत ।
कालपर्यायमाहाय मा स्म शोके मनः कृथा ॥

6.2.6

यदि चेच्छसि सन्ग्रामं द्रुष्टुमेनं विशाम्पते ।
चक्षुर्ददानि ते पुत्र युद्धमेतन्निशामया ॥
धृतराष्ट्र उवाच ।

6.2.7

न रोचये ज्ञातिवधं द्रष्टुं ब्रह्मर्षिसत्तम ।

6.2.7

युद्धमेतत्त्वशेषेण श्रृणुयां तव तेजसा ॥
वैशम्पायन उवाच ।

6.2.8

तस्मिन्ननिच्छति द्रष्टुं सन्ग्रामं श्रोतुमिच्छति ।
वराणामीश्वरो व्यासः सञ्जयाय वरं ददौ ॥
व्यास उवाच ।

6.2.9

एष ते सञ्जयो राजन्युद्धमेतद्वदिष्यति ।
एतस्य सर्वं सन्ग्रामे न परोक्षं भविष्यति ॥

6.2.10

चक्षुषा सञ्जयो राजन्दिव्येनैव समन्वितः ।
कथयिष्यति ते युद्धं सर्वज्ञश्च भविष्यति ॥

6.2.11

प्रकाशं वाऽप्रकाशं वा दिवा वा यदि वा निशि ।
मनसा चिन्तितमपि सर्वं वेत्स्यति सञ्जयः ॥

6.2.12

नैनं शस्त्राणि भेत्स्यन्ति नैनं बाधिष्यते श्रमः ।
गावल्गणिरयं जीवन्युद्धादस्माद्विमोक्ष्यते ॥

6.2.13

अहं तु कीर्तिमेतेषां करूणां भरतर्षभ ।
पाण्डवानां च सर्वेषां प्रथयिष्यामि मा शुचः ॥

6.2.14

दिष्टमेतन्नरव्याघ्र नाभिशोचितुमर्हसि ।
न चैव शक्यं संयन्तुं यतो धर्मस्ततो जयः ॥
वैशम्पायन उवाच ।

6.2.15

एवमुक्त्वा स भगवान्कुरूणां प्रतितामहः ।
पुनरेव महाभागो धृतराष्ट्रमुवाच ह ॥

6.2.16

इह युद्धे महाराज भविष्यति महान्क्षयः ।
तथेह च निमित्तानि भयदान्युपलक्षये ॥

6.2.17

श्येना गृध्राश्च काकाश्च काङ्काश्च सहिता बकैः ।
सम्पतन्ति ध्वजाग्रेषु समवायांश्च कुर्वते ॥

6.2.18

अभ्यग्रं च प्रपश्यन्ति युद्धमानन्दिनो द्विजाः ।
क्रव्यादा भक्षयिष्यन्ति मांसानि गजवाजिनां ॥

6.2.19

कटाकटेति वाशन्तो भैरवा भयवेदिनः ।
कङ्काः क्रोशन्ति मध्याह्ने दक्षिणामभितो दिशं ॥

6.2.20

उभे पूर्वापरे सन्ध्ये नित्यं पश्यामि भारत ।
उदयास्तमने सूर्यं कबन्धैः परिवारितम् ॥

6.2.21

श्वेतलोहितपर्यन्ताः कृष्णाग्रीवाः सविद्युतः ।
त्रिवर्णाः परिघाः सन्धौ भानुमावारयन्त्युत ॥

6.2.22

ज्वलितार्के ॥ .त्रं निर्विशेषदिनक्षपम् . चन्द्रोऽभूतग्निवर्णश्च पद्मवर्णे नभस्तले ।

6.2.23

आलक्षे प्रभया हीनां पौर्णमासीं च कीर्तिकीम् ।
चन्द्रोऽभूदग्निवर्णश्च पद्मवर्णे नभस्तले ॥

6.2.24

स्वप्स्यन्ति निहता वीरा भूमिमावृत्य पार्थिवाः ।
राजानो राजपुत्राश्च शूराः परिघबाहवः ॥

6.2.25

अन्तरिक्षे वराहस्य पृषदंशकस्य चोभयोः ।
प्रणादं युध्यतो रात्रौ रौद्रं नित्यं प्रलक्षये ॥

6.2.26

देवताप्रतिमाश्चैव कम्पन्ति च हसन्ति च ।
वमन्ति रुधिरं चास्यैः स्विद्यन्ति प्रपतन्ति च ॥

6.2.27

अनाहता दुन्दुभयः प्रणदन्ति विशाम्पते ।
अयुक्ताश्च प्रवर्तन्ते क्षत्रियाणां महारथाः ॥

6.2.28

कोकिलाः शतपत्राश्च चाषा भासाः शुकास्तथा ।
सारसाश्च मयूराश्च वाचो मुञ्चन्ति दारुणाः ॥

6.2.29

गृहीतशस्त्राः क्रोशन्ति चर्मिणो वाजिपृष्ठगाः ।
अरुणोदये प्रदृश्यन्ते शतशः शलभव्रजाः ॥

6.2.30

उभे सन्ध्ये प्रकाशन्ते दिशो दाहसमन्विते ।
पर्जन्यः पांसुवर्षी च मांसवर्षी च भारत ॥

6.2.31

या चैषा विश्रुता राजंस्त्रैलोक्ये साधुसम्मता ।
अरुन्धती तयाप्येष वसिष्ठः पृष्ठतः कृतः ॥

6.2.32

रोहिणीं पीडयन्नेष स्थितो राजञ्शनैश्चरः ।
व्यावृत्तं लक्ष्म सोमस्य भविष्यति महद्भयम् ॥

6.2.33

अनभ्रे च महाघोरस्तनितं श्रूयते भृशम् ।
वाहनानां च रुदतां निपतन्त्युश्रुबिन्दवः ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc