भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 6.3

6.3.1

खरा गोषु प्रजायन्ते रमन्ते मातृभिः सुताः ।
अनार्तवं पुष्पफलं दर्शयन्ति वनद्रुमाः ॥

6.3.2

गर्भिण्योऽजातपुत्राश्च जनयन्ति विभीषणान् ।
क्रव्यादाः पक्षिभिश्चापि सहा श्नन्ति परस्परम् ॥

6.3.3

त्रिविषाणाश्चतुर्नेत्राः पञ्चपादा द्विमेहनाः ।
द्विशीर्षाश्च द्विपुच्छाश्च दंष्ट्रिणः पशवोऽशिवाः ॥

6.3.4

जायन्ते विवृतास्याश्च व्याहरन्तोऽशिवा गिरः ।
त्रिपदाः शिखिनस्तार्क्ष्याश्चतुर्दंष्ट्रा विषाणिनः ॥

6.3.5

तथैवान्याश्च दृश्यन्ते स्त्रियो वै ब्रह्मवादिनाम् ।
वैनतेयान्मयूरांश्च जनयन्ति पुरे तव ॥

6.3.6

गोवत्सं वडवा सूते श्वा सृगालं महीपते ।
कुक्कुरान्करभाश्चैव शुकाश्चाशुवादिनः ॥

6.3.7

स्त्रियः काश्चित्प्रजायन्ते चतस्रः पञ्च कन्यकाः ।
जातमात्राश्च नृत्यन्ति गायन्त च हसन्ति च ॥

6.3.8

पृथग्जनस्य सर्वस्य क्षुद्रकाः प्रहसन्ति च ।
नृत्यन्ति परिगायन्ति वेदयन्तो महद्भयम् ॥

6.3.9

प्रतिमाश्चालिखन्त्येताः सशस्त्राः कालचोदिताः ।
अन्योन्यमभिधावन्ति शिशवो दण्डपाणयः ॥

6.3.10

अन्योन्यमभिमृद्गन्ति नगराणि युयुत्सवः ।
पद्मोत्पलानि वृक्षेषु जायन्ते कुमुदानि च ॥

6.3.11

विष्व्वाताश्च वान्त्युग्रा रजो नाप्युपशाम्यति ।
अभीक्ष्णं कम्पते भूमिरर्कं राहुरुपैति च ॥

6.3.12

श्वेतो ग्रहस्तथा चित्रां समतिक्रम्य तिष्ठति ।
अभावं हि विशेषेण कुरूणां तत्र पश्यति ॥

6.3.13

धूमकेतुर्महाघोरः पुष्यं चाक्रम्य तिष्ठति ।
सेनयोरशिवं घोरं करिष्यति महाग्रहः ॥

6.3.14

मघास्वङ्गारको वक्रः श्रवणे च बृहस्पतिः ।
भगं नक्षत्रमाक्रम्य सूर्यपुत्रेण पीड्यते ॥

6.3.15

शुक्रः प्रोष्ठपदे पूर्वे समारुह्य विरोचते ।
उत्तरे तु परिक्रम्य सहितः समुदीक्षते ॥

6.3.16

श्यामो ग्रहः प्रज्वलितः सधूम इव पावकः ।
ऐन्द्रं तेजस्वि नक्षत्रं ज्येष्ठामाक्रम्य तिष्ठति ॥

6.3.17

ध्रुवं प्रज्वलितो घोरमपसव्यं प्रवर्तते . रोहिणीं पीडयत्येवमुभौ च शशिभास्करो ।
चित्रास्वात्यन्तरे चैव विष्ठितः परुषग्रहः ॥

6.3.18

वक्रानुवक्रं कृत्वा च श्रवणं पावकप्रभः ।
ब्रह्मराशिं समावृत्य लोहिताङ्गो व्यवस्थितः ॥

6.3.19

सर्वसस्यपरिच्छन्ना पृथिवी सस्यमालिनी ।
पञ्चशीर्षा यवाश्चापि शतशीर्षाश्च शालयः ॥

6.3.20

प्रधानाः सर्वलोकस्य यास्वायत्तमिदं जगत् ।
ता गावः प्रस्नुता वत्सैः शोणितं प्रक्षरन्त्युत ॥

6.3.21

निश्चेरुरर्चिषश्चापात्खङ्गाश्च ज्वलिता भृशम् ।
व्यक्तं पश्यन्ति शस्त्राणि सन्ग्रामं समुपस्थितम् ॥

6.3.22

अग्निवर्णा यथा भासः शस्त्राणामुदकस्य च ।
कवचानां ध्वजानां च भविष्यति महाक्षयः ॥

6.3.23

पृथिवी शोणितावर्ता ध्वजोडुपसमाकुला ।
कुरूणां वैशसे राजन्पाण्डवैः सह भारत ॥

6.3.24

दिक्षु प्रज्वलितास्याश्च व्याहरन्ति मृगद्विजाः ।
अत्याहितं दर्शयन्तः क्षत्रियाणां महद्भयम् ॥

6.3.25

एकपक्षाक्षिचरणाः शकुन्ताः खेचरा निशि ।
रौद्रं वदन्ति संरब्धाः शोणितं छर्दयन्ति च ॥

6.3.26

ग्रहौ ताम्रारुणनिभौ प्रज्वलन्ताविव स्थितौ ।
सप्तर्षीणामुदाराणां समवच्छाद्य वै प्रभाम् ॥

6.3.27

संवत्सरस्थायिनौ च ग्रहौ प्रज्वलितावुभौ ।
विशाखयोः समीपस्थौ बृहस्पतिशनैश्चरौ ॥

6.3.28

चन्द्रादित्यावुभौ ग्रस्तावेकाह्ना हि त्रयोदशीम् ।
अपर्वमि ग्रहं यातौ प्रजासन्क्षयमिच्छतः ॥

6.3.29

अशोभिता दिशः सर्वाः पांसुवर्षैः समन्ततः ।
उत्पातमेघा रौद्राश्च रात्रौ वर्षन्ति शोणितम् ॥

6.3.30

कृत्तिकां पीडयंस्तीक्ष्णैर्नक्षत्रं पृथिवीपते ।
अभीक्ष्णवाता वायन्ते धूमकेतुमवस्थिताः ॥

6.3.31

विषमं जनयन्त्येत आक्रन्दजननं महत् । त्रिषु पूर्वेषु सर्वेषु नक्षत्रेषु विशाम्पते ।
बुधः सम्पततेऽभीक्ष्णं जनयन्प्राणिनां भयम् ॥

6.3.32

चतुर्दशीं पञ्चदशीं भूतपूर्वां च षोडशीम् । इमां तु नाभिजानामि अमावास्यां त्रयोदशीम् ।
चन्द्रसूर्यावुभौ ग्रस्तावेकान्हा हि त्रयोदशीम् ॥

6.3.33

अपर्वणि ग्रहेणैतौ प्रजाः सन्क्षपयिष्यतः . मांसवर्षं पुनस्तीव्रमासीत्कृष्णचतुर्दशीम् ।
शोणितैर्वक्रसम्पूर्णा अतृप्तास्तत्र राक्षसाः ॥

6.3.34

प्रतिस्नोतोवहा नद्यः सरितः शोणितोदकाः ।
फेनायमानाः कूपाश्च कूर्दन्ति वृषभा इव ॥

6.3.35

पतन्त्युल्काः सनिर्घाताः शक्राशनिसमप्रभाः ।
अद्य चैव निशां व्युष्टामनयं समवाप्स्यथ ॥

6.3.36

विनिःसृत्य महोल्काभिस्तिमिरं सर्वतो दिशम् . अन्योन्यमुपतिष्ठद्भिस्तत्र चोक्तं महर्षिभिः ।
भूमिपालसहस्राणां भूमिः पास्यति शोणितम् ॥

6.3.37

कैलासमन्दराभ्यां तु तथा हिमवतो विभो ।
सहस्रशो महाशब्दं शिखराणि पतन्ति च ॥

6.3.38

महाभूता भूमिकम्पे चत्वारः सागराः पृथक् ।
वेलामुद्वर्तयन्तीव क्षोभयन्तो वसुन्धराम् ॥

6.3.39

वृक्षानुन्मथ्य वान्त्युग्रा वाताः शर्करकर्षिणः ।
आभग्राः सुमहावातैरशनीभिः समाहताः ॥

6.3.40

वृक्षाः पतन्ति चैत्याश्च ग्रामेषु नगरेषु च ।
नीललोहितपीतश्च भवत्यग्निर्हुतो द्विजैः ॥

6.3.41

वामार्चिर्दुष्टगन्धश्च मुञ्चन्वै दारुणं स्वनम् ।
स्पर्शा गन्धा रसाश्चैव विपरीता महीपते ॥

6.3.42

धूमं ध्वजाः प्रमुञ्चन्ति कम्पमाना मुहुर्मुहुः ।
मुञ्चन्त्यङ्गारवर्षं च भेर्यश्च पटहास्तथा ॥

6.3.43

शिखराणां समृद्धानामुपरिष्टात्समन्ततः ।
वायसाश्च रुवन्त्युग्रं वामं मण्डलमाश्रिताः ॥

6.3.44

पक्वापक्वेऽतिसुभृशं वावाश्यन्ते वयांसि च ।
निलीयन्ते ध्वजाग्रेषु क्षयाय पृथिवीक्षिताम् ॥

6.3.45

ध्यायन्तः प्रकिरन्तश्च व्याला वेपथुसंयुताः ।
दीनास्तुरन्गमाः सर्वे वारणाः सलिलाश्रयाः ॥

6.3.46

एवंविधं दुर्निमित्तं क्षयाय पृथीवीक्षिताम् । भौमं दिव्यं चान्तरिक्षं त्रिविधं जायतेऽनिशम्

6.3.47

एतच्छ्रुत्वा भवानत्र प्राप्तकालं व्यवस्यताम् ।
यथा लोकः समुच्छेदं नायं गच्छेत भारत ॥
वैशम्पायन उवाच ।

6.3.48

पितुर्वचो निशम्यैतद्धृतराष्ट्रोऽब्रवीदिदम् ।
दिष्टमेतत्पुरा मन्ये भविष्यति नरक्षयः ॥

6.3.49

राजानः क्षत्रधर्मेण यदि वध्यन्ति संयुगे ।
वीरलोकं समासाद्य सुखं प्राप्स्यन्ति केवलम् ॥

6.3.50

इह कीर्तिं परे लोके दीर्घकालं महत्सुखम् ।
प्राप्स्यन्ति पुरुषव्याघ्राः प्राणांस्त्यक्त्वा महाहवे ॥
वैशम्पायन उवाच ।

6.3.51

एवं मुनिस्तथेत्सुक्त्वा कवीन्द्रो राजसत्तम ।
धृतराष्ट्रेण पुत्रेण ध्यानमन्वगमत्परम् ॥

6.3.52

स मुहूर्तं तथा ध्यात्वा पुनरेवाब्रवीद्वचः ।
असंशयं पार्थिवेन्द्र कालः सन्क्षयते जगत् ॥

6.3.53

सृजते च पुनर्लोकान्नेह विद्यति शाश्वतम् ।
ज्ञातीनां वै कुरूणां च सम्बन्धिसुहृदां तथा ॥

6.3.54

धर्म्यं दर्शय पन्थानं समर्थो ह्यसि वारणे ।
क्षुद्रं जातिवधं प्राहुर्मा कुरुष्व ममाप्रियम् ॥

6.3.55

कालोऽयं पुत्ररूपेण तव जातो विशाम्पते ।
न वधः पूज्यते वेदे हितं नैव कथञ्चन ॥

6.3.56

हन्यात्स एनं यो हन्यात्कुलधर्मं स्विकां तनुम् ।
कालेनोत्पथगन्तसि शक्ये सति यथाऽपदि ॥

6.3.57

कुलस्यास्य विनाशाय तथैव च महीक्षिताम् ।
अनर्थो राज्यरूपेण तव जातो विशाम्पते ॥

6.3.58

लुप्तधर्मा परेणासि धर्मं दर्शय वै सुतान् ।
किं ते राज्येन दुर्धर्षयेन प्राप्तोऽसि किल्विषम् ॥

6.3.59

यशो धर्मं च कीर्तिं च पालयन्स्वर्गमाप्स्यसि ।
लभन्तां पाण्डवा राज्यं शमं गच्छन्तु कौरवाः ॥
वैशम्पायन उवाच ।

6.3.60

एवं ब्रुवति विप्रेन्द्रे धृतराष्ट्रोऽम्बिकासुतः ।
प्रशस्य वाक्यं वाक्यज्ञो वाक्यं चैवाब्रवीत्पुनः ॥
धृतराष्ट्र उवाच ।

6.3.61

यथा भवान्वेत्ति तथैव वेत्ता भावाभावौ विदितौ मे यथार्थौ ।
स्वार्थे हि सम्मुह्यति तात लोको मां चापि लोकात्मकमेव विद्धि ॥

6.3.62

प्रसादये त्वामतुलप्रभावं त्वं नो गतिर्दर्शयिता च धीरः ।
न चापि ते वशगा मे सुताश्च न चाधर्मं कर्तुमर्हा हि मे मतिः ॥

6.3.63

त्वं हि धर्मः पवित्रं च यशः कीर्तिर्धृतिः स्मृतिः ।
कुरूणां पाण्डवानां च मान्यश्चापि पितामहः ॥
व्यास उवाच ।

6.3.64

वैचित्रवीर्य नृपते यत्ते मनसि वर्तते ।
अभिधत्स्व यथाकामं छेत्ताऽस्मि तव संशयम् ॥
धृतराष्ट्र उवाच ।

6.3.65

यानि लिङ्गानि सन्ग्रामे भवन्ति विजयिष्यताम् ।
तानि सर्वाणि भगवञ्छ्रोतुमिच्छामि तत्त्वतः ॥
व्यास उवाच ।

6.3.66

प्रसन्नभाः पावक ऊर्ध्वरश्मिः प्रदक्षिणावर्तशिखो विधूमः ।
पुण्या गन्धाश्चाहुतीनां प्रवान्ति जयस्यैतद्भाविनो रूपमाहुः ॥

6.3.67

गम्भीरघोषाश्च महास्वनाश्च शङ्खा मृदङ्गाश्च नदन्ति यत्र ।
विशुद्धरश्मिस्तपनः शशी च जयस्येतद्भाविनो रूपमाहुः ॥

6.3.68

इष्टा वाचः प्रसृता वायसानां सम्प्रस्थितानां च गमिष्यतां च ।
ये पृष्ठतस्ते त्वरयन्ति राज- न्ये चाग्रतस्ते प्रतिषेधयन्ति ॥

6.3.69

कल्याणवाचः शकुना राजहंसाः शुकाः क्रौञ्चाः शतपत्राश्च यत्र ।
प्रदक्षिणाश्चैव भवन्ति सङ्ख्ये ध्रुवं जयस्तत्र वदन्ति विप्राः ॥

6.3.70

अलन्कारैः कवचैः केतुभिश्च सुखप्रणादैर्हेषितैर्वा हयानाम् ।
भ्राजिष्मती दुष्प्रतिवीक्षणीया येषां चमूस्ते विजयन्ति शत्रून् ॥

6.3.71

हृष्टा वाचस्तथा सत्वं योधानां यत्र भारत ।
न म्लायन्ति स्रजश्चैव ते तरन्ति रणोदधिम् ॥

6.3.72

प्रयाणे वायसो वामे दक्षिणे प्रविविक्षताम् । पश्चात्संसाधयत्यर्थं पुरस्तात्प्रतिषेधति ॥

6.3.73

शब्दरूपरसस्पर्शगन्धाश्चाविकृताः शुभाः ।
सदा हर्षश्च योधानां जयतामिह लक्षणम् ॥

6.3.74

अनुगा वायवो वान्ति तथाऽभ्राणि वयांसि च ।
अनुप्लवन्ति मेघाश्च तथैवेन्द्रधनूंषि च ॥

6.3.75

एतानि जयमानानां लक्षणानि विशाम्पते ।
भवन्ति विपरीतानि मुमूर्षूणां जनाधिप ॥

6.3.76

अल्पायां वा महत्यां वा सेनायामिति निश्चयः ।
हर्षो योधगणस्यैको जयलक्षणमुच्यते ॥

6.3.77

एको दीर्णो दारयति सेनां सुमहतीमपि ।
तां दीर्णामनुदीर्यन्ते योधाः शूरतरा अपि ॥

6.3.78

दुर्निवर्त्या तदा चैव प्रभग्ना महती वमूः ।
अपामिव महावेगा त्रस्ता मगगणा इव ॥

6.3.79

नैव शक्या समाधातुं सन्निपाते महाचमूः ।
दीर्ण इत्येव दीर्यन्ते सुविद्वांसोऽपि भारत ॥

6.3.80

भीतान्भग्नांश्च सम्प्रेक्ष्य भयं भूयोऽभिवर्धते । प्रभग्ना सहसा राजन्दिशो विद्रवते चमूः ।
नैव स्थापयितुं शक्या शूरैरपि महाचमूः ॥

6.3.81

सत्कृत्य महतीं सेनां चतुरङ्गां महीपतिः ।
उपायपूर्वं मेधावी यतेत सततोत्थितः ॥

6.3.82

उपायविजयं श्रेष्ठमाहुर्भेदेन मध्यमम् ।
जघन्य एष विजयो यो युद्धेन विशाम्पते ॥

6.3.83

महान्दोषः सन्निपातस्तस्याद्यः क्षय उच्यते ।
परस्परज्ञाः संहृष्टा व्यवधूताः सुनिश्चिताः ॥

6.3.84

अपि पञ्चाशतं शूरा मृद्गन्ति महतीं चमूम् ।
अपि वा पञ्च षट् सप्त विजयन्त्यनिवर्तिनः ॥

6.3.85

न वैनतेयो गरुडः प्रशंसति महाजनम् ।
दृष्ट्वा सुपर्णोऽपचितिं महत्या अपि भारत ॥

6.3.86

न बाहुल्येन सेनाया जयो भवति नित्यशः . अध्रुवो हि जयो नाम दैवं चात्र परायणम् ।
जयवन्तो हि सन्ग्रामे कृतकृत्या भवन्ति हि ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc