भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 6.1

6.1.9

एकस्थाः सर्ववर्णास्ते मण्डलं बहुयोजनम् ।
पर्याक्रामन्त देशांश्च नदीः शैलान्वनानि च ॥

6.1.10

तेषां युधिष्ठिरो राजा सर्वेषां पुरुषर्षभ ।
व्यादिदेश सवाहानां भक्ष्यभोज्यमनुत्तमम् ॥

6.1.11

सञ्ज्ञाय विविधास्तात तेषां चक्रे युधिष्ठिरः ।
एवंवादी वेदितव्यः पाण्डवेयोऽयमित्युत ॥

6.1.12

अभिज्ञानानि सर्वेषां सञ्ज्ञाश्चाभरणानि च ।
योजयामास कौरव्यो युद्धकाल उपस्थिते ॥

6.1.13

दृष्ट्वा ध्वजाग्रं पार्थस्य धार्तराष्ट्रो महामनाः ।
सह सर्वैर्महीपालैः प्रत्यव्यूहत पाण्डवम् ॥

6.1.14

पाण्डुरेणातपत्रेण ध्रियमाणेन मूर्धनि ।
मध्ये नागसहस्रस्य भ्रातृभिः परिवारितः ॥

6.1.15

दृष्ट्वा दुर्योधनं हृष्टाः पाञ्चाला युद्धनन्दिनः ।
दध्मुः प्रीता महाशङ्खान्भेरीर्जघ्नुः सहस्रशः ॥

6.1.16

ततः प्रहृष्टां स्वां सेनामभिवीक्ष्याथ पाण्डवाः ।
बभूवुर्हृष्टमनसो वासुदेवश्च वीर्यवान् ॥

6.1.17

स्वयोधान्हर्षयन्तौ च वासुदेवधनञ्जयौ ।
दध्मतुः पुरुषव्याघ्रौ दिव्यौ शङ्खौ रथे स्थितौ ॥

6.1.18

पाञ्चजन्यस्य शङ्खस्य देवदत्तस्य चोभयोः ।
श्रुत्वा तु निनदं योधाः शकृन्मूत्रं प्रसुस्रुवुः ॥

6.1.19

यथा सिंहस्य नदतः स्वनं श्रुत्वेतरे मृगाः ।
त्रयेयुर्निनदं श्रुत्वा तथाऽसीदत तद्बलम् ॥

6.1.20

उदतिष्ठद्रजो भौमं न प्राज्ञायत किञ्चन ।
अस्तं गत इवादित्यः सैन्येन रजसा वृतः ॥

6.1.21

सवर्ष तत्र पर्जन्यो मांसशोणितवृष्टिमान् ।
व्युक्षन्सर्वाणि सैन्यानि तदद्भुतमिवाभवत् ॥

6.1.22

वायुस्ततः प्रादूरभून्नीचैः शर्करकर्षणः ।
विनिघ्नंस्तान्यनीकानि शतशोऽथ सहस्रशः ॥

6.1.23

उभे सैन्ये च राजेन्द्र युद्धाय मुदिते भृशम् ।
कुरुक्षेत्रे स्थिते यत्ते सागरक्षुभितोपमे ॥

6.1.24

तयोस्तु सेनयोरासीदद्भुतः स तु सन्गमः ।
युगान्ते समनुप्राप्ते द्वयोः सागरयोरिव ॥

6.1.25

शून्याऽसीत्पृथिवी सर्वा वृद्धबालावशेषिता । निरश्वपुरुषेवासीद्रथकुञ्जरवर्जिता ।
तेन सेनासमूहेन समानीतेन कौरवैः ॥

6.1.26

ततस्ते समयं चक्रुः कुरुपाण्डवसोमकाः ।
धर्मान्संस्थापयामासुर्युद्धानां भरतर्षभ ॥

6.1.27

निवृत्ते विहिते युद्धे स्यात्प्रीतिर्नः परस्परम् ।
यथापरं यथायोगं न च स्यात्कस्यचित्पुनः ॥

6.1.28

वाचा युद्धे प्रवृत्तानां वाचैव प्रतियोधनम् ।
निष्क्रान्ताः पृतनामध्यान्न हन्तव्याः कदाचन ॥

6.1.29

रथी च रथिना योध्यो गजेन गजधूर्गतः ।
अश्वेनाश्वी पदातिश्च पादातेनैव भारत ॥

6.1.30

यथायोगं यथाकामं यथोत्साहं यथाबलम् ।
समाभाष्य प्रहर्तव्यं न विश्वस्ते न विह्वले ॥

6.1.31

परेण सह संयुक्तः प्रमत्तो विमुखस्तथा ।
क्षीणशस्त्रो विवर्मा च न हन्तव्यः कदाचन ॥

6.1.32

न सूतेषु न धुर्येषु न च शस्त्रोपनायिषु ।
न भेरीशङ्खवादेषु प्रहर्तव्यं कथञ्चन ॥

6.1.33

एवं ते समयं कृत्वा कुरुपाण्डवसोमकाः ।
विस्मयं परमं जग्मुः प्रेक्षमाणाः परस्परम् ॥

6.1.34

निविश्य च महात्मानस्ततस्ते पुरुषर्षभाः ।
हृष्टरूपाः समुनसो बभूवुः सहसैनिकाः ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc