भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 5.55

5.55.1

न भेतव्यं महाराज न शोच्या भवतां वयम् ।
समर्थाः स्म पराञ्जेतुं बलिनः समरे विभो ॥

5.55.2

वने प्रव्राजितान्पार्थान्यदायान्मधुसूदनः ।
महता बलचक्रेण परराष्ट्रावमर्दिना ॥

5.55.3

केकया धृष्टकेतुश्च धृष्टद्युम्नश्च पार्षत ।
राजानश्चान्वयुः पार्थान्बहवोऽन्येऽनुयायिनः ॥

5.55.4

इन्द्रप्रस्थस्य चादूरात्समाजग्मुर्महारथाः ।
व्यगर्हयंश्च सन्गम्य भवन्तं कुरुभिः सह ॥

5.55.5

ते युधिष्ठिरमासीनमजिनैः प्रतिवासितम् ।
कृष्णप्रधानाः संहत्य पर्युपासन्त भारत ॥

5.55.6

प्रत्यादनं च राज्यस्य कार्यमूचुर्नराधिपाः ।
भवतः सानुबन्धस्य समुच्छेदं चिकीर्षवः ॥

5.55.7

श्रुत्वा चैवं मयोस्तास्तु भीष्मद्रोणकृपास्तदा ।
ज्ञातिक्षयभयाद्राजन्भीतेन भरतर्षभ ॥

5.55.8

ततः स्थास्यन्ति समये पाण्डवा इति मे मतिः ।
समुच्छेदं हि नः कृत्स्नं वासुदेवश्चिकीर्षति ॥

5.55.9

ऋते च विदुरात्सर्वे यूयं वध्या मता मम ।
धृतराष्ट्रस्तु धर्मज्ञो न वध्यः कुरुसत्तमः ॥

5.55.10

समुच्छेदं च कृत्स्नं नः कृत्वा तात जनार्दनः ।
एकराज्यं कुरूणां स्म चिकीर्षति युधिष्ठिरे ॥

5.55.11

तत्र किं प्राप्तकालं नः प्रणिपातः पलायनम् ।
प्राणान्वा सम्परित्यज्य प्रतियुध्यामाहे परान् ॥

5.55.12

प्रतियुद्धे तु नियतः स्यादस्माकं पराजयः ।
युधिष्ठिरस्य सर्वे हि पार्थिवा वशवर्तिनः ॥

5.55.13

विरक्तराष्ट्राश्च वयं मित्राणि कुपितानि नः ।
धिक्कृताः पार्थिवैः सर्वैः स्वजनेन च सर्वशः ॥

5.55.14

प्रणिपाते न दोषोस्ति सन्धिर्नः शाश्वतीः समाः ।
पितरं त्वेव शोचामि प्रज्ञानेत्रं जनाधिपम् ॥

5.55.15

मत्कृते दुःखमापन्नं क्लेशं प्राप्तमनन्तकम् । कृतं हि तव पुत्रैश्च परेषामवरोधनम् ।
मत्प्रयार्थं पुरैवैतद्विदितं ते नरोत्तम ॥

5.55.16

ते राज्ञो धृतराष्ट्रस्य सामात्यस्य महारथाः ।
वैरं प्रतिकरिष्यन्ति कुलोच्छेदेन पाण्डवाः ॥

5.55.17

ततो द्रोणोऽब्रवीद्भीष्मः कृपो द्रौणिश्च भारत ।
मत्वा मां महतीं चिन्तामास्थितंव्यथितेन्द्रियं ॥

5.55.18

अभिद्रुग्धाः परे चेन्नो न भेतव्यं परन्तप ।
असमर्थाः परे जेतुमस्मान्युधि समास्थितान् ॥

5.55.19

एकैकशः समर्थाः स्मो विजेतुं सर्वपार्थिवान् ।
आगच्छन्तु विनेष्यामो दर्पमेषां शितैः शरैः ॥

5.55.20

पुरैकेन हि भीष्मेण विजिताः सर्वपार्थिवाः ।
मृते पितर्यतिक्रुद्धो रथेनैकेन भारत ॥

5.55.21

जघान सुबहूंस्तेषां संरब्धः कुरुसत्तमः ।
ततस्ते शरणं जग्मुर्देवव्रतमिमं भयात् ॥

5.55.22

स भीष्मः सुसमर्थोऽयमस्माभिः सहितो रणे ।
परान्विजेतुं तस्मात्ते व्येतु भीर्भरतर्षभ ॥

5.55.23

इत्येषां निश्चयो ह्यासीत्तत्कालेऽमिततेजसाम् ।
पुरा तेषां पृथिवी कृत्स्नासीद्वशवर्तिनी ॥

5.55.24

अस्मान्पुनरमी नाद्य समर्था जेतुमाहवे ।
छिन्नपक्षाः परे ह्यद्य वीर्यहीनाश्च पाण्डवाः ॥

5.55.25

अस्मत्संस्था च पृथिवी वर्तते भरतर्षभ ।
एकार्थाः सुखदुःखेषु समानीताश्च पार्थिवाः ॥

5.55.26

अप्यग्निं प्रविशेयुस्ते समुद्रं वा परन्तप ।
मदर्थं पार्थिवाः सर्वे तद्विद्धि कुरुसत्तम ॥

5.55.27

उन्मत्तमिव चापि त्वां प्रहसन्तीह दुःखितम् ।
विलपन्तं बहुविधं भीतं परविकत्थने ॥

5.55.28

एषां ह्येकैकशो राज्ञां समर्थं पाण्डवान्प्रति ।
आत्मानं मन्यते सर्वो व्येतु ते भयमागतम् ॥

5.55.29

जेतुं समग्रां सेनां मे वासवोऽपि न शक्नुयात् ।
हन्तुमक्षय्यरूपेयं ब्रह्मणोऽपि स्वयम्भुवः ॥

5.55.30

युधिष्ठिरः पुरं हित्वा पञ्चग्रामान्स याचते ।
भीतो हि मामकात्सैन्यात्प्रभावाच्चैव मे विभो ॥

5.55.31

समर्थं मन्यसे यच्च कुन्तीपुत्रं वृकोदरम् ।
तन्मिथ्या न हि मे कृत्स्नं प्रभावं वेत्सि भारत ॥

5.55.32

मत्समो हि गदायुद्धे पृथिव्यां नास्ति कश्चन ।
नासीत्कश्चिदतिक्रान्तो भविता न च कश्चन ॥

5.55.33

युक्तो दुःखोषितश्चाहं विद्यापारगतस्तथा ।
तस्मान्न भीमान्नान्येभ्यो भयं मे विद्यते क्वचित् ॥

5.55.34

दुर्योधनसमो नास्ति गदायामिति निश्चयः । सङ्कर्षणस्य भवने यत्तदैनमुपावसम् ।

5.55.35

युद्धे सङ्कर्षणसमो बलेनाभ्यधिको भुवि ।
गदाप्रहारं भीमो मे न जातु विषहेद्युधि ॥

5.55.36

एकं प्रहारं यं दद्यां भीमाय रुषितो नृप ।
स एवैनं नयोद्धोरः क्षिप्रं वैवस्वतक्षयम् ॥

5.55.37

इच्छेयं च गदाहस्तं राजन्द्रष्टुं वृकोदरम् ।
सुचिरं प्रार्थितो ह्येष मम नित्यं मनोरथः ॥

5.55.38

गदया निहतो ह्याजौ मया पार्थो वृकोदरः ।
विशीर्णगावः पृथिवीं परासुः प्रपतिष्यति ॥

5.55.39

गदाप्रहाराभिहतो हिमवानपि पर्वतः ।
सकृन्मया विदीर्येत गिरिः शतसहस्रधा ॥

5.55.40

स चाप्येतद्विजानाति वासुदेवार्जुनौ तथा ।
दुर्योधनसमो नास्ति गदायामिति निश्चयः ॥

5.55.41

तत्ते वृकोदरमयं भयं व्येतु महाहवे ।
व्यपनेष्याम्यहं ह्येनं मा राजन्विमना भव ॥

5.55.42

तस्मिन्मया हते क्षिप्रमर्जुनं बहवो रथाः ।
तुल्यरूपा विशिष्टाश्च क्षेप्स्यन्ति भरतर्षभ ॥

5.55.43

भीष्मो द्रोणः कृपो द्रौणिः कर्णो भूरिश्रवास्तथा ।
प्राग्ज्योतिषाधिपः शल्यः सिन्धुराजो जयद्रथः ॥

5.55.44

एकैक एषां शक्तस्तु हन्तुं भारत पाण्डवान् ।
समेतास्तु क्षणेनैतान्नेष्यन्ति यमसादनम् ॥

5.55.45

समग्रा पार्थिवी सेना पार्थमेकं धनञ्जयम् ।
कस्मादशक्ता निर्जेतुमिति हेतुर्न विद्यते ॥

5.55.46

शरव्रातैस्तु भीष्मेण शतशो निचितोऽवशः ।
द्रोणद्रौणिकृपैश्चैव गन्ता पार्थो यमक्षयम् ॥

5.55.47

पितामहोऽपि गाङ्गेयः शान्तनोरधि भारत ।
ब्रह्मर्पिसदृशो जज्ञे देवैरपि सुदुःसहः ॥

5.55.48

न हन्ता विद्यते चापि राजन्भीष्मस्य कश्चन ।
पित्रा ह्युक्तः प्रसन्नेन नाकामस्त्वं मरिष्यसि ॥

5.55.49

ब्रह्मर्षेश्च भरद्वाजाद्द्रोणो द्रोण्यामजायत ।
द्रोणाज्जज्ञे महाराज द्रौणिश्च परमाश्त्रवित् ॥

5.55.50

कृपश्चाचार्यमुख्योयं महर्षेर्गौतमादपि ।
शरस्तम्बोद्भवः श्रीमानवध्य इति मे मतिः ॥

5.55.51

अयोनिजास्त्रयो ह्येते पिता माता च मातुलः ।
अश्वत्थाम्नो महारात स च शूरः स्थितो मम ॥

5.55.52

सर्व एते महाराज देवकल्पा महारथाः ।
शक्रस्यापि व्यथां कुर्युः संयुगे भरतर्षभ ॥

5.55.53

नैतेषामर्जुनः शक्त एकैकं प्रतिवीक्षितुम् ।
सहितास्तु नरव्याघ्रा हनिष्यन्ति धनञ्जयम् ॥

5.55.54

भीष्माद्रोणकृपाणां च तुल्यः कर्णो मतो मम ।
अनुज्ञातश्च रामेण मत्समोऽसीति भारत ॥

5.55.55

कुण्डले रुचिरे चास्तां कर्णस्य सहजे शुभे ।
ते शच्यर्थं महेन्द्रेण याचितः स परन्तपः ॥

5.55.56

अमोघया महाराज शक्त्या परमभीमया ।
तस्य शक्त्योपगूढस्य कस्माज्जीवेद्धनञ्जयः ॥

5.55.57

विजयो मे ध्रुवं राजन्फलं पाणाविवाहितम् । अभिव्यक्तः परेषां च कृत्स्नो भुवि पराजयः ।

5.55.58

अह्ना ह्येकेन भीष्मोयं प्रयुतं हन्ति भारत ।
तत्समाश्च महेष्वासा द्रोणद्रौणिकृपा अपि ॥

5.55.59

संशप्तकानां वृन्दानि क्षत्रियाणां परन्तप ।
अर्जुनं वयमस्मान्वा निहन्यात्कपिकेतनः ॥

5.55.60

तांश्चालमिति मन्यन्ते सव्यसाचिवधे धृताः ।
पार्थिवाः स भवांस्तेभ्यो ह्यकस्माद्व्यथते कथम् ॥

5.55.61

भीमसेने च निहते कोऽन्यो युध्येत भारत ।
परेषां तन्ममाचक्ष्व यदि वेत्थ परन्तप ॥

5.55.62

पञ्च ते भ्रातरः सर्वे धृष्टद्युम्नोऽथ सात्यकिः ।
परेषां सप्त ये राजन्योधाः सारं बलं मतम् ॥

5.55.63

अस्माकं तु विशिष्टा ये भीष्मद्रोणकृपादयः ।
द्रौणिर्विकर्तनः कर्णः सोमदत्तोथ बाह्लिकः ॥

5.55.64

प्राग्ज्योतिषाधिपः शल्य आवन्त्यौ च जयद्रथः ।
दुःशासनो दुर्मखश्च दुःसहश्च विशाम्पते ॥

5.55.65

श्रुतायुश्चित्रसेनश्च पुरुमित्रो विविंशतिः ।
शलो भूरिश्रवाश्चैव विकर्णश्च तवात्मजः ॥

5.55.66

अक्षौहिण्यो हि मे राजन्दशैका च समाहृताः ।
न्यूना परेषां सप्तैव कस्मान्मे स्यात्पराजयः ॥

5.55.67

बलं त्रिगुणतो हीनं योध्यं प्राह बृहस्पतिः ।
परेभ्यस्त्रिगुणा चेयं मम राजन्ननीकिनी ॥

5.55.68

गुणहीनं परेषां च बहु पश्यामि भारत ।
गुणोदयं बहुगुणमात्मनश्च विशाम्पते ॥

5.55.69

एतत्सर्वं समाज्ञाय बलाग्र्यं मम भारत ।
न्यूनतां पाण्डवानां च न मोहं गन्तुमर्हसि ॥

5.55.70

इत्युक्त्वा सञ्जयं भूयः पर्यपृच्छत भारत ।
विवित्सुः प्राप्तकालानि ज्ञात्वा परपुरञ्जयः ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc