भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 5.54

5.54.1

एवमेतन्महाराज यथावदसि भारत ।
युद्धे विनाशः क्षत्रस्य गाण्डीवेन प्रदृश्यते ॥

5.54.2

इदं तु नाभिजानामि तव धीरस्य नित्यशः ।
यत्पुत्रवशमागच्छेस्तत्त्वज्ञः सव्यसाचिनः ॥

5.54.3

नैष कालो महाराज तव शश्वत्कृतागसः ।
त्वया ह्येवादितः पार्था निकृता भरतर्षभ ॥

5.54.4

पिता श्रेष्ठः सुहृद्यश्च सम्यक्प्रणिहितात्मवान् ।
आस्थेयं हि हितं तेन न द्रोग्धा गुरुरुच्यते ॥

5.54.5

इदं जितमिदं लब्धमिति श्रुत्वा पराजितान् ।
द्यूतकाले महाराज स्मरसे स्म कुमारवत् ॥

5.54.6

परुषाण्युच्यमानांश्च पुरा पार्थानुपेक्षसे ।
कृत्स्नं राज्यं जयन्तीति प्रपातं नानुपश्यसि ॥

5.54.7

पित्र्यं राज्यं महाराज कुरवस्ते सजाङ्गलाः ।
अथ वीरैर्जितामुर्वीमखिलां प्रत्यपद्यथाः ॥

5.54.8

बाहुवीर्यार्जिता भूमिस्तव पार्थैर्निवेदिता ।
मयेदं कृतमित्येव मन्यसे राजसत्तम ॥

5.54.9

ग्रस्तान्गन्धर्वराजेन मज्जतो ह्यप्लवेऽम्भसि ।
आनिनाय पुनः पार्थः पुत्रांस्ते राजसत्तम ॥

5.54.10

कुमारवच्च स्मयसे द्यूते विनिकृतेषु यत् ।
पाण्डवेषु वने राजन्प्रव्रजत्सु पुनःपुनः ॥

5.54.11

प्रवर्षतः शरव्रातानर्जुनस्य शितान्बहून् ।
अप्यर्णवा विशुष्येयुः किं पुनर्मासयोनयः ॥

5.54.12

अस्यतां फाल्गुनः श्रेष्ठो गाण्डीवं धनुषां वरम् । केशवः सर्वभूतानामायुधानां सुदर्शनम् ।
वानरो रोचमानश्च केतुः केतुमतां वरः ॥

5.54.13

एवमेतानि स रथो वहते सह यो रणे ।
क्षपयिष्यति नो राजन्कालचक्रमिवोद्यतम् ॥

5.54.14

तस्याद्य वसुधा राजन्निखिला भरतर्षभ ।
यस्य भीमार्जिनौ योधौ स राजा राजसत्तम ॥

5.54.15

तथा भीमहतप्रायां मञ्जन्तीं तव वाहिनीम् ।
दुर्योधनमुखा दृष्ट्वा क्षयं यास्यन्ति कौरवाः ॥

5.54.16

न भीमार्जुनयोर्भीता लप्स्यन्ते विजयं विभो ।
तव पुत्रा महाराज राजानश्चानुसारिणः ॥

5.54.17

मत्स्यास्त्वामद्य नार्चन्ति पञ्चालाश्च सकेकयाः ।
साल्वेयाः शूरसेनाश्च सर्वे त्वामवजानते ॥

5.54.18

पार्थं ह्येते गताः सर्वे वीर्यज्ञास्तस्य धीमतः ।
भक्त्या ह्यस्य विरुध्यन्ते तव पुत्रैः सदैव ते ॥

5.54.19

अनर्हानेव तु वधे धर्मयुक्तान्विकर्मणा ।
योऽक्लेशयत्पाण्डुपुत्रान्यो विद्वेष्ट्यधुनापि वै ॥

5.54.20

सर्वोपायैर्नियन्तव्यः सानुगः पापपुरुषः ।
तव पुत्रो महाराज नानुशोचितुमर्हसि ॥

5.54.21

अपरोहं महाराज साक्षाच्चैनं ब्रवीम्यहम् ।
द्यूतकाले मया चोक्तं विदुरेण च धीमता ॥

5.54.22

यदिदं ते विलपितं पाण्डवान्प्रति भारत ।
अनीशेनैव राजेन्द्र सर्वमेतन्निरर्थकम् ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc