भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 5.56

5.56.1

अक्षौहिणीः सप्त लब्ध्वा राजभिः सह सञ्जय ।
किंस्विदिच्छति कौन्तेयो युद्धप्रेप्सुर्युधिष्ठिरः ॥
सञ्जय उवाच ।

5.56.2

अतीव मुदितो राजन्युद्धप्रेप्युर्युधिष्ठिरः ।
भीमसेनार्जुनौ चोभौ यमावपि न बिभ्यतः ॥

5.56.3

रथं तु दिव्यं कौन्तेयः सर्वा विभ्राजयन्दिशः ।
मन्त्रं जिज्ञासमानः सन्बीभत्सुः समयोजयत् ॥

5.56.4

तमपश्याम सन्नद्धं मेघं विद्युद्युतं यथा । समन्तात्समभिध्या हृष्यमाणोऽभ्यभाषत ।
पूर्वरूपमिदं पश्य वयं जेष्याम सञ्जय ॥

5.56.5

बीभत्सुर्मां यथोवाच तथाऽवैम्यहमप्युत ॥
दुर्योधन उवाच ।

5.56.6

प्रशंसस्यभिनन्दंस्तान्पार्थानक्षपराजितान् ।
अर्जुनस्य रथे ब्रूहि कथमश्वाः कथं ध्वजाः ॥
सञ्जय उवाच ।

5.56.7

भौमनः सह शक्रेण बहुचित्रं विशाम्पते ।
रूपाणि कल्पयामास त्वष्टा धाता सदा विभो ॥

5.56.8

ध्वजे हि तस्मिन्रूपाणि चक्रुस्ते देवमायया ।
महाधनानि दिव्यानि महान्ति च लघूनि च ॥

5.56.9

भीमसेनानुरोधायक हनूमान्मारुतात्मजः ।
आत्मप्रतिकृतिं तस्मिन्ध्वज आरोपयिष्यति ॥

5.56.10

सर्वा दिशो योजनमात्रमन्तरं सतिर्यगूर्ध्वं च रुरोध वै ध्वजः ।
न संसञ्जेत्तरुभिः संवृतोऽपि तथा हि माया विहिता भौमनेन ॥

5.56.11

यथाऽकाशे शक्रधनुः प्रकाशते न चैकवर्णं न च वेद्मि किं नु तत् ।
तथा ध्वजो विहितो भौमनेन बह्वाकारं दृश्यते रूपमस्य ॥

5.56.12

यथाऽग्निधूमो दिवमेति रुद्ध्वा । वर्णान्बिभ्रत्तैजसांश्चित्ररूपान् ।
तथा ध्वजो विहितो भौमनेन न चेद्भारो भविता नोत रोधः ॥

5.56.13

श्वेतास्तस्मिन्वातवेगाः सदश्वा दिव्या युक्ताश्चित्ररथेन दत्ताः ।
भुव्यन्तरिक्षे दिवि वा नरेन्द्र येषां गतिर्हीयते नात्र सर्वा . शतं यत्तत्पूर्यते नित्यकालं हतंहतं दत्तवरं पुरस्तात्

5.56.14

तथा राज्ञो दन्तवर्णा बृहन्तो रथे युक्ता भान्ति तद्वीर्यतुल्याः ।
ऋक्षप्रख्या भीमसेनस्य वाहा रथे वायोस्तुल्यवेग बभूवुः ॥

5.56.15

कल्माषाङ्गास्तित्तिरिचित्रपृष्ठा भ्रात्रा दत्ताः प्रीयता फाल्गुनेन ।
भ्रातुर्बीरस्य स्वैस्तुरङ्गैर्विशिष्टा मुदा युक्ताः सहदेवं वहन्ति ॥

5.56.16

माद्रीपुत्रं नकुलं त्वाजमीढं महेन्द्रदत्ता हरयो वाजिमुख्याः ।
समा वायोर्बलवन्तस्तरस्विनो वहन्ति वीरं वृत्रशत्रुं यथेन्द्रम् ।

5.56.17

तुल्याश्चैभिर्वयसा विक्रमेण महाजवाश्रित्ररूपाः सदश्वाः ।
सौभद्रादीन्द्रौपदेयान्कुमारान् वहन्त्यश्वा देवदत्ता बृहन्तः ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc