भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 5.29

5.29.1

अविनाशं सञ्जय पाण्डवाना- मिच्छाम्यहं भूतिमेषां प्रियं च ।
तथा राज्ञो धृतराष्ट्रस्य सूत समाशंसे बहुपुत्रस्य वृद्धिम् ॥

5.29.2

कामो हि मे सञ्जय नित्यमेव नान्यद्ब्रूयां तान्प्रति शाम्यतेति ।
राज्ञश्च हि प्रियमेतच्छृणोमि मन्ये चैतत्पाण्डवानां समक्षम् ॥

5.29.3

सुदुष्करस्तत्र शमो हि नूनं प्रदर्शितः सञ्जय पाण्डवेन ।
यस्मिन्गृद्धो धृतराष्ट्रः सपुत्रः कस्मादेषां कलहो नावमूर्च्छेत् ॥

5.29.4

न त्वं धर्मं विचरं सञ्जयेह मत्तश्च जानामि युधिष्ठिराच्च
अथो कस्मात्सज्जय पाण्डवस्य उत्साहिनः पूरयतः स्वकर्म ॥

5.29.5

यथाख्यातमावमतः कुटुम्बे पुरा कस्मान्साधुविलोपमात्थ ।
अस्मिन्विधौ वर्तमाने यथाव- दुच्चावचा मतयो ब्राह्मणानाम् ॥

5.29.6

कर्मणाऽहुः सिद्धिमेके परत्र हिन्वा कर्म विद्यया सिद्धिमेके ।
नाभुञ्जानो भक्ष्यभोज्यस्य तृप्ये- द्विद्वानपीह विहितं ब्राह्मणानाम् ॥

5.29.7

या वै विद्याः साधयन्तीह कर्म तासां फलं विद्यते नेतरासाम् ।
तत्रेह वै दृष्टफलं तु कर्म पीत्वोदकं शाम्यति तृष्णयाऽर्तः ॥

5.29.8

सोऽयं विधिर्विहितः कर्मणैव संवर्तते सञ्जय तत्र कर्म ।
तत्र योऽन्यत्कर्मणः साधु मन्ये- न्मोघं तस्यालपितं दुर्बलस्य ॥

5.29.9

कर्मणाऽमी भान्ति देवाः परत्र कर्मणैवेह प्लवते मातरिश्वा ।
अहोरात्रे विदधत्कर्मणैव अतन्द्रितो नित्यमुदेति सूर्यः ॥

5.29.10

मासार्धमासानथ नक्षत्रयोगा- नतन्द्रितश्चन्द्रमाश्चाभ्युपैति ।
अतन्द्रितो दहते जातवेदाः समिद्ध्यमानः कर्म कुर्वन्प्रजाभ्यः ॥

5.29.11

अतन्द्रिता भारमिमं महान्तं बिभर्ति देवी पृथिवी वलेन ।
अतन्द्रिताः शीघ्रसपो वहन्ति सन्तर्पयन्त्यः सर्वभूतानि नद्यः ॥

5.29.12

अतन्द्रितो वर्षति भूरितेजाः सन्नादयन्नन्तरिक्षं दिशश्च ।
अतन्द्रितो ब्रह्मचर्यं चचार श्रेष्ठत्वमिच्छन्बलभिद्देवतानाम् ॥

5.29.13

हित्वा सुखं मनसश्च प्रियाणि तेन शक्रः कर्मणा श्रैष्ठ्यमाप ।
सत्यं धर्मं पालयन्नप्रमत्तो दमं तितिक्षां समतां प्रियं च ॥

5.29.14

एतानि सर्वाण्युपसेवमानो यो देवराज्यं मघवान्प्राप मुख्यम् ।
बृहस्पतिर्ब्रह्मचर्यं चचार समीहितः संशिमात्मा यथावत् ॥

5.29.15

हित्वा सुख प्रतिरुध्येन्द्रियाणि तेन देवानामगमद्गौरवं सः ।
तथा नक्षत्राणि कर्मणाऽमुत्र भान्ति रुद्रादित्या वसवोऽथापि विश्वे ॥

5.29.16

यमो राजा वैश्रवणः कुबेरो गन्धर्वयक्षाप्सरसश्च सूत ।
ब्रह्मविद्यां ब्रह्मचर्यं क्रियां च निपेवमाणा ऋषयोऽमुत्र भान्ति ॥

5.29.17

जानन्निमं सर्वलोकस्य धर्मं विप्रेन्द्राणां क्षत्रियाणां विशां च ।
स कस्मात्त्वं जानतां ज्ञानवान्सन् व्यायच्छसेक सञ्जय कौरवार्थे ॥

5.29.18

आम्नायेषु नित्यसंयोगमस्य तथाऽश्वमेधे राजसूये च विद्धि ।
संयुज्यते धनुपा वर्मणा च हस्त्यश्वाद्यै रथशस्त्रैश्च भूयः ॥

5.29.19

ते चेदिमे कौरवाणाम्रुपाय- मवगच्छेयुवधेनैव पार्थाः ।
धर्मत्राणं पुण्यमेषां कृतं स्या- दार्ये वृत्ते भीमसेनं निगृह्य ॥

5.29.20

ते चेत्पित्र्ये कर्मणि वर्तमाना आपद्येरन्दिष्टवशेन मृत्युम् ।
यथाशक्त्यापूरयन्तः स्वकर्म तदप्येषां निधनं स्यात्प्रशस्तम् ॥

5.29.21

उताहो त्वं मन्यसे शाम्यमेव राज्ञां युद्धे वर्तते धर्मतन्त्रम् ।
अयुद्धे वा वर्तते धर्मतन्त्रं तथैव ते वाचमिमां श्रृणोमि ॥

5.29.22

चातुर्वर्ण्यस्य प्रथमं संविभाग- मवेक्ष्य त्वं सञ्जय स्वं च कर्म ।
निशम्याथो पाण्डवानां च कर्म प्रशंस वा निन्द वा या मतिस्ते ॥

5.29.23

अधीयीत ब्राह्मणो वै यजेत दद्यादीयात्तीर्थमुख्यानि चैव ।
अध्याप्रयेद्याजयेच्चापि याज्यान् प्रतिग्रहान्वा विहितान्प्रतीच्छेत् ॥

5.29.24

अधीयीत क्षत्रियोऽथो यजेत दद्याद्धनं न तु याचेत किञ्चित् ।
न याजयेन्न तु चाध्यापयीत एवं स्मृतः क्षत्रधर्मः पुराणः ॥

5.29.25

तथा राजन्यो रक्षणं वै प्रजानां कृत्वा धर्मेणाप्रमत्तोऽथ दत्त्वा ।
यज्ञैदिष्ट्वा सर्ववेदानधीत्य दारान्कृवा पुण्यकृदावसेद्गृहान् ॥

5.29.26

स धर्मात्मा धर्ममधीत्य पुण्यं यदृच्छया व्रजति ब्रह्मलोकम् ।
वैश्योऽधीत्य कृषिगोरक्षपण्यै- र्वित्तं चिन्वन्पालयन्नप्रमत्तः ॥

5.29.27

प्रियं कुर्वन्ब्राह्मणक्षत्रियाणां धर्मशीलः पुण्यकृदावसेद्गृहान् ।
परिचर्या वन्दनं ब्राह्मणानां नाधीयीत प्रतिषिद्धोऽस्य यज्ञः . नित्योत्थितो भूतयेऽतन्द्रितः स्या- देवं स्मृतः शूद्रधर्मः पुराणः ॥

5.29.28

एतान्राजा पालयन्नप्रमत्तो नियोजयन्सर्ववर्णान्स्वधर्मे ।
अकामात्मा समवृत्तिः प्रजासु नाधार्मिकाननुरुध्येत कामात् ॥

5.29.29

श्रेयांस्तस्माद्यदि विद्येत कश्चि- दभिज्ञातः सर्वधर्मोपपन्नः ।
स तं द्रष्टुमनुशिष्यन्प्रजानां न चैतद्बुध्येदिति तस्मिन्नसाधुः ॥

5.29.30

यदा गृध्येत्परभूतौ नृशंसो विधिप्रकोपाद्बलमाददानः ।
ततो राज्ञामभवद्युद्धमेत- त्तत्र जातं वर्म शस्त्रं धनुश्च । इन्द्रेणैतद्दस्युवधाय कर्म उत्पादितं वर्म शस्त्रं धनुश्च ॥

5.29.31

तत्र पुण्यं दस्युवधेन लभ्यते सोऽयं दोषः कुरुभिस्तीव्ररूपः ।
अधर्मज्ञैर्धर्ममबुध्यमानैः प्रादुर्भूतः सञ्जय साधु तन्न ॥

5.29.32

तत्र राजा धृतराष्ट्रः सपुत्रो धर्म्यं हरेत्पाण्डवानामकस्मात् ।
नावेक्षन्ते राजधर्मं पुराणं तदन्वयाः कुरवः सर्व एव ॥

5.29.33

स्तेनो हरेद्यत्र धनं ह्यदृष्टः प्रसह्य वा यत्र हरेत दृष्टः ।
उभौ गर्ह्यौ भवतः सञ्जयैतौ किं वै पृथत्कं धृतराष्ट्रस्य पुत्रे ॥

5.29.34

सोऽयं लोभान्मन्यते धर्ममेतं यमिच्छति क्रोधवशानुगामी ।
भागः पुनः पाण्डवानां निविष्ट- स्तं नः कस्मादाददीरन्परे वै ॥

5.29.35

अस्मिन्पदे युध्यतां नो वधोऽपि श्लाघ्यः पित्र्यं पपराज्याद्विशिष्टम् ।
एतान्धर्मान्कौरवाणां पुराणा- नाचक्षीथाः सञ्जय राजमध्ये ॥

5.29.36

एते मदान्मृत्युवशाभिपन्नाः समानीता धार्तराष्ट्रेण मूढाः ।
इदं पुनः कर्म पापीय एव सभामध्ये पश्य वत्तं कुरूणाम् ॥

5.29.37

प्रियं भार्यां द्रौपदीं पाण्डवानां यशस्विनीं शीलवृत्तोपपन्नाम् ।
यदुपैक्षन्त कुरवो भीष्ममुख्याः कामानिगेनोपरुद्धां व्रजन्तीम् ॥

5.29.38

तां चेत्तदा ते सकुमारवृद्धा अवारयिष्यन्कुरवः समेताः ।
मम प्रियं धृतराष्ट्रोऽकरिष्यत् पुत्राणां च कृतमस्याभविष्यत् ॥

5.29.39

दुःशासनः प्रतिलोम्यान्निनाय सभामध्ये श्वशुराणां च कृष्णाम् ।
सा तत्र नीता करुणं व्यपेक्ष्य नान्यं क्षत्तुर्नाथमवाप किञ्चित् ॥

5.29.40

कार्पण्यादेव सहितास्तत्र भूपा नाशक्नुवन्प्रतिवक्तुं सभायाम् ।
एकः क्षत्ता धर्म्यमर्थं ब्रुवाणो धर्मबुद्ध्या प्रत्युवाचाल्पबुद्धिम् ॥

5.29.41

अबुद्ध्वा त्वं धर्ममेतं सभाया- अथेच्छसे पाण्डवस्योपदेष्टुम् ।
कृष्णा त्वेतत्कर्म चकार शुद्धं सुदुष्करं तत्र सभां समेत्य ॥

5.29.42

येन कृच्छ्रात्पाण्डवानुज्जहार तथाऽत्मानं नौरिव सागरौघात् ।
यत्राब्रवीत्सूतपुत्रः सभायां कृष्णां स्थितां श्वशुराणां समीपे ॥

5.29.43

न ते गतिर्विद्यते याज्ञसेनि प्रपद्येथा धार्तराष्ट्रस्य वेश्म ।
पराजितास्ते पतयो न सन्ति पतिं चान्यं भामिनि त्वं वृणीष्व ॥

5.29.44

यो बीभत्सोर्हृदये प्रोत आसी- दस्थि छिन्दन्मर्मघाती सुघोरः ।
कर्णाच्छरो वाङ्भयस्तिग्मतेजाः प्रतिष्ठितो हृदये फाल्गुनस्य ॥

5.29.45

कृष्णाजिनानि परिधित्समानान् दुःशासनः कटुकान्यभ्यभाषत् ।
एते सर्वे षण्डतिला विनष्टाः क्षयं गता नरकं दीर्घकालम् ॥

5.29.46

गान्धारराजः शकुनिर्निकृत्या यदब्रवीद्द्यूतकाले स पार्थम् ।
पराजितो नकुलः किं तवास्ति कृष्णया त्वं दीव्य वै याज्ञसेन्या । जानासि त्वं सञ्जय सर्वमेतत् द्यूते वाक्यं गर्ह्यमेवं यथोक्तम् ॥

5.29.47

स्वयं त्वहं प्रार्थये तत्र गन्तुं समाधातुं कार्यमेतद्विपन्नम् ।
जानासि त्वं धार्तराष्ट्रस्य मोहं दुरात्मनः पापवशानुगस्य ॥

5.29.48

अहापयित्वा यदि पाण्डवार्थं शमं कुरूणामपि चेच्छकेयम् ।
पुण्यं च मे स्याच्चरितं महोदयं मुच्येरंश्च कुरवो मृत्युपाशात् ॥

5.29.49

अपि मे वाचं भाषमाणस्य काव्यां धर्मारामामर्थवतीमहिंस्राम् ।
अवेक्षेरन्धार्तराष्ट्राः समक्षं मां च प्राप्तं कुरवः पूजयेयुः ॥

5.29.50

अतोऽन्यथा रथिना फाल्गुनेन भीमेन चैवाहवदंशितेन ।
बलोत्सिक्तान्धार्तराष्ट्रांश्च विद्धि प्रदह्यमानान्कर्मणा स्वेन पापान् ॥

5.29.51

पराजितान्पाण्डवेयांस्तु वाचो रौद्रा रूक्षा भाषते धार्तराष्ट्रः ।
गदाहस्तो भीमसेनोऽप्रमत्तो दुर्योधनं स्मारयिता हि काले ॥

5.29.52

सुयोधनो मन्युमयो महाद्रुमः स्कन्धः कर्णः शकुनिस्तस्य शाखाः ।
दुःशासनः पुष्कफले समृद्धे मूलं राजा धृतराष्ट्रोऽमनीषी ॥

5.29.53

युधिष्ठिरो धर्ममयो महाद्रुमः स्कन्धोऽर्जुनो भीमसेनोऽस्य शाखाः ।
माद्रीपुत्रौ पुष्पफले समृद्धे मूलं त्वहं ब्रह्म च ब्राह्मणाश्च ॥

5.29.54

वनं राजा धृतराष्ट्रः सपुत्रः सिंहा वने सञ्जय पाण्डवेयाः ।
सिंहाभिगुप्तं न वनं विनश्येत् सिंहो न नश्येत वनाभिगुप्तः ॥

5.29.55

निर्वनो वध्यते सिंहो निःसिंहं वध्यते वनम् । तस्मात्सिंहो वनं रक्षेद्वनं सिंहं च पालयेत् ॥

5.29.56

वनं राजा धृतराष्ट्रः वने व्याघ्राश्च पाण्डवाः ।
मा वनं छिन्धि सव्याघ्रं व्याघ्रा नेशुर्वनं विना ॥

5.29.57

निर्वनो वध्यते व्याघ्रो निर्व्याघ्रं छिद्यते वनम् ।
तस्माद्व्याघ्रो वनं रक्षेद्वयं व्याघ्रं च पालयेत् ॥

5.29.58

लताधर्मा धार्तराष्ट्राः सालाः सञ्जय पाण्डवाः ।
न लता वर्धते जातु महाद्रुममनाश्रिता ॥

5.29.59

स्थिताः शुश्रूषितुं पार्थाः स्थिता योद्धुमरिन्दमाः ।
यत्कृत्यं धृतराष्ट्रस्य तत्करोतु नराधिपः ॥

5.29.60

स्थिताः शमे महात्मानः पाण्डवा धर्मचारिणः ।
योधाः समर्थास्तद्विद्वन्नाचक्षीथा यथातथम् ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc