महाभारत · अध्याय 5.28
असंशयं सञ्जय सत्यमेत- द्धर्मो वरः कर्मणां यत्त्वमात्थ ।
ज्ञात्वा तु मां सञ्जय गर्हयेस्त्वं यदि धर्मं यद्यधर्मं चरामि ॥
यत्राधर्मो धर्मरूपाणि धत्ते धर्मः कृत्स्नो दृश्यतोऽधर्मरूपः ।
बिभ्रद्धर्मो धर्मरूपं तथा च विद्वांसस्तं सम्प्रपश्यन्ति बुद्ध्या ॥
एवं तथैवापदि लिङ्गमेत- द्धर्माधर्मौ नित्यवृत्ती भजेताम् ।
आद्यं लिङ्गं यस्य तस्य प्रमाण- मापद्धर्मं सञ्जय तं निबोध ॥
लुप्तायां तु प्रकृतौ येन कर्म निष्पादयेत्तत्परीप्सेद्विहीनः ।
प्रकृतिस्थश्चापदि वर्तमान उभौ गर्ह्यौ भवतः सञ्जयैतौ ॥
अविनाशमिच्छतां ब्राह्मणानां प्रायश्चित्तं विहितं यद्विधात्रा ।
सम्पश्येथाः कर्मसु वर्तमानान् विकर्मस्थान्सञ्जय गर्हयेस्त्वम् ॥
मनीषिणां सत्त्विच्छेदनाय विधियते सत्सु वृत्तिः सदैव ।
अब्राह्मणाः सन्ति तु ये न वैद्याः सर्वोत्सङ्गं साधु मन्येत तेभ्यः ॥
तदध्वानः पितरो ये च पूर्वे पितामहा ये च तेभ्यः परेऽन्ये ।
यज्ञैषिणो ये च हि कर्म कुर्यु- र्नान्यं ततो नास्तिकोऽस्मीति मन्ये ॥
यत्किञ्चनेदं वित्तमस्यां पृथिव्यां यद्देवानां त्रिदशानां परं यत् ।
प्राजापत्यं त्रिदिवं ब्रह्मलोकं नाधर्मतः सञ्जय कामयेयम् ॥
धर्मेश्वरः कुशलो नीतिमांश्चा- प्युपासिता ब्राह्मणानां मनीषी ।
नानाविधांश्चैव महाबलांश्च राजन्यभोजाननुशास्ति कृष्णः ॥
यदि ह्यहं विसृजत्साम गर्ह्यो नियुध्यमानो यदि जह्यां स्वधर्मम् ।
महायशाः केशवस्तद्ब्रवीतु वासुदेवस्तूभयोरर्थकामः ॥
शैनेयोऽयं चेदयश्चान्धकाश्च वार्ष्णेयभोजाः कुकुराः सृञ्जयाश्च ।
उपासीना वासुदेवस्य बुद्धिं निगृह्य शत्रून्सुहृदो नन्दयन्ति ॥
वृष्ण्यन्धका ह्युग्रसेनादयो वै कृष्णप्रणीताः सर्व एवेन्द्रकल्पाः ।
मनस्विनः सत्यपरायणाश्च महाबला यादवा भोगवन्तः ॥
काश्यो बभ्रुः श्रियमुत्तमां गतो लब्ध्वा कृष्णं भ्रातरमीशितारम् ।
यस्मै कामान्वर्षति वासुदेवो ग्रीष्मात्यये मेघ इव प्रजाऽभ्यः ॥
ईदृशोऽयं केशवस्तात विद्वान् विद्धि ह्येनं कर्मणां निश्चयज्ञम् ।
प्रियश्च नः साधुतमश्च कृष्णो नातिक्रामे वचनं केशवस्य ॥
मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0