भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 5.30

5.30.1

आमन्त्रये त्वां नरदेवदेव गच्छाम्यहं पाण्डव स्वस्ति तेऽस्तु ।
कच्चिन्न वाचा वृजिनं हि किञ्चि- दुच्चारितं मे मनसोऽभिषङ्गात् ॥

5.30.2

जनार्दनं भीमसेनार्जुनौ च माद्रीसुतौ सात्यकिं चेकितानम् ।
आमन्त्र्य गच्छामि शिवं सुखं वः सौम्येन मां पश्यत चक्षुषा नृपाः ॥
युधिष्ठिर उवाच ।

5.30.3

अनुज्ञातः सञ्जय स्वस्ति गच्छ न नः स्मरस्यप्रियं जातु विद्वन् ।
विद्मश्च त्वां ते च वयं च सर्वे शुद्धात्मानं मध्यगतं सभास्थम् ॥

5.30.4

आप्तो दूतः सञ्जय सुप्रियोऽसि कल्याणवाक् शीलवांस्तृप्तिमांश्च ।
न मुह्येस्त्वं सञ्जय जातु मत्या न च क्रुद्ध्येरुच्यमानोऽपि तत्त्वम् ॥

5.30.5

न मर्मगां जातु वक्ताऽसि रूक्षां नोपश्रुतिं कटुकां नोति शुष्काम् ।
धर्मारामामर्थवतीमहिंस्रा- मेतां वाचं तव जानीम सूत ॥

5.30.6

त्वमेव नः प्रियतमोऽसि दूत इहागच्छेद्विदुरो वा द्वितीयः ।
अभीक्ष्णदृष्टोऽसि पुरातनस्त्वं धनञ्जयस्यात्मसमः सखाऽसि ॥

5.30.7

इतो गत्वा सञ्जय क्षिप्रमेव उपातिष्ठेथा ब्राह्मणान्ये तदर्हाः ।
विशुद्धवीर्याश्चरणोपपन्नाः कुले जाताः सर्वधर्मापपन्नाः ॥

5.30.8

स्वाध्यायिनो ब्राह्मणा भिक्षवश्च तपस्विनो ये च नित्या वनेषु ।
अभिवाद्य तान्मद्वचनेन वृद्धां- स्तथैव तान्कुशलं तात पृच्छेः ॥

5.30.9

पुरोहितं धृतराष्ट्रस्य राज्ञ- स्तथाचार्यानृत्विजो ये च तस्य ।
तांश्चैवत्वं सहितान्वै यथावत् सङ्गच्छेथाः कुशलेनैव सूत ॥

5.30.10

अश्रोत्रिया ये च वसन्ति वृद्धा मनस्विनः शीलबलोपपन्नाः ।
आशंसन्तोऽस्माकमनुस्मरन्तो यथाशक्ति धर्ममात्रां चरन्तः ॥

5.30.11

श्लाघस्व मां कुशलिनं स्म तेभ्यो ह्यनामयं तात पृच्छेर्जघन्यम् ।
ये जीव्ति व्यवहारेण राष्ट्रे पशूंश्च ये पालयन्तो वसन्ति । कृषीवला बिभ्रति ये च लोकं तेषां सर्वषां कुशलं स्म पृच्छेः ॥

5.30.12

आचार्य इष्टो नयगो विधेयो वेदानभीप्सन्ब्रह्मचर्यं चचार ।
योऽस्त्रं चतुष्पात्पुनरेव चक्रे द्रोणः प्रसन्नोऽभिवाद्यस्त्वयासौ ॥

5.30.13

अधीतविद्यश्चरणोपपन्नो योऽस्त्रं चतुष्पात्पुनरेव चक्रे ।
गन्धर्वपुत्रप्रतिमं तरस्विनं तमश्वत्थामानं कुशलं स्म पृच्छेः ॥

5.30.14

शारद्वतस्यावसथं स्म गत्वा महारथस्यात्मविदां वरस्य ।
त्वं मामभीक्ष्णं परिकीर्तयन्वै कृपस्य पादौ सञ्जय पाणिना स्पृशेः ॥

5.30.15

यस्मिन्शौर्यमानृशंस्यं तपश्च प्रज्ञा शीलं श्रुतरूपे धृतिश्च ।
पादौ गृहीत्वा कुरुसत्तमस्य भीष्मस्य मां तत्र निवेदयेथाः ॥

5.30.16

प्रज्ञाचक्षुर्यः प्रणेता कुरूणां बहुश्रुतो वृद्धसेवी मनीषी ।
तस्मै राज्ञे स्थविरायाभिवाद्य आचक्षीथाः सञ्जय मामरोगम् ॥

5.30.17

ज्येष्ठः पुत्रो धृतराष्ट्रस्य मन्दो मूर्खः शठः सञ्जय पापशीलः ।
यस्यापवादः पृथिवीं याति सर्वां सुयोधनं कुशलं तात पृच्छेः ॥

5.30.18

भ्राता कनीयानपि तस्य मन्द- स्तथाशीलः सञ्जय सोपि शश्वत् ।
महेष्वासः शूरतमः कुरूणां दुःशासनः कुशलं तात वाच्यः ॥

5.30.19

यस्य कामो वर्तते नित्यमेव नान्यः शमाद्भारतानामिति स्म ।
स बाह्लिकानामृषभो मनीषी पुनर्यथा माऽभिवदेत्प्रसन्नः ॥

5.30.20

भूरिश्रवास्तात निपातयोधी महेष्वासो रथिनामुत्तमोऽग्र्यः ।
गत्वा स्म तं मद्वचनेन ब्रूयाः शल्यं तथा मद्वचनात्प्रतीतः ॥

5.30.21

महेष्वासो रथिनामुत्तमोऽग्र्यः समः शलो रक्षिता पृष्ठमस्य ।
हीनिषेवो देविता यो मताक्षः सत्यव्रतः पुरुमित्रो जयश्च । ये प्रस्थानं तत्र मे नाभ्यनन्दं- स्तेषां सर्वेषां कुशलं तात पृच्छेः ॥

5.30.22

गुणैरनेकैः प्रवरैश्च युक्तो विज्ञानवान्नैव च निष्ठुरो यः ।
स्नेहादमर्षं सहते सदैव स सोमदत्तः पूजनीयो मतो मे ॥

5.30.23

अर्हत्तमः कुरुषु सौमदत्तिः स नो भ्राता सञ्जय मत्सखा च ।
महेष्वासो रथिनामुत्तमोऽर्हः सहामात्यः कुशलं तस्य पृच्छेः ॥

5.30.24

ये चैवान्ये कुरुमुख्या युवानः पुत्राः पौत्रा भ्रातरश्चैव ये नः ।
यंयमेषां मन्यसे येन योग्यं तत्तत्प्रोच्यानामयं सूत वाच्याः ॥

5.30.25

ये राजानः पाण्डवायोधनाय समानीता धार्तराष्ट्रेण केचित् ।
वशातयः साल्वकाः केकयाश्च तथाम्बष्ठा ये त्रिगर्ताश्च मुख्याः ॥

5.30.26

प्राच्योदीच्या दाक्षिण्यात्याश्च शूरा- स्तथा प्रतीच्याः पार्वतीयाश्च सर्वे ।
अनृशंसाः शीलवृत्तोपुन्ना- स्तेषां सर्वेषां कुशलं सूत पृच्छेः ॥

5.30.27

हस्त्यारोहा रथिनः सादिनश्च पदातयश्चार्यसङ्घा महान्तः ।
आख्याय मां कुशलिनं स्म नित्य- मनामयं परिपृच्छेः समग्रान् ॥

5.30.28

तथा राज्ञो ह्यर्थयुक्तानमात्यान् दौवारिकान्ये च सेनां नयन्ति ।
आयव्ययं ये गमयन्ति नित्य- मर्थांश्च ये महतश्चिन्तयन्ति ॥

5.30.29

वृन्दारकं कुरुमध्येष्वमूढं महाप्रज्ञं सर्वधर्मोपपन्नम् ।
न तस्य युद्धं रोचते वै कदाचि- द्वैश्यापुत्रं कुशलं तात पृच्छेः ॥

5.30.30

निकर्तने देवने योऽद्वितीय- श्छन्नोपधः साधुदेवी मताक्षः ।
यो दुर्जयो देवरथेन सङ्ख्ये स चित्रसेनः कुशलं तात वाच्यः ॥

5.30.31

गान्धारराजः शकुनिः पार्वतीयो निकर्तने योऽद्वितीयोऽक्षदेवी ।
मानं कुर्वन्धार्तराष्ट्रस्य सूत मिथ्याबुद्धेः कुशलं तात पृच्छेः ॥

5.30.32

यः पाण्डवानेकरथेन वीरः समुत्सहत्यप्रधृप्यान्विजेतुम् ।
यो मुह्यतां मोहयिताऽद्वितीयो वैकर्तनः कुशलं तस्य पृच्छेः ॥

5.30.33

स एव भक्तः स गुरुः स भर्ता स वै पिता स च माता सुहृच्च ।
अगाधबुद्धिर्विदुरो दीर्घदर्शी स नो मन्त्री कुशलं तं स्म पृच्छेः ॥

5.30.34

वृद्धाः स्त्रियो याश्च गुणोपपन्ना ज्ञायन्ते नः सञ्जय मातरस्ताः ।
ताभिः सर्वाभिः सहिताभिः समेत्य स्त्रीभिः सवृद्धाभिरभिवादं वदेथाः ॥

5.30.35

कच्चित्पुत्रा जीवपुत्राः सुसम्य- ग्वर्तन्ते वो वृत्तिमनृशंसरूपाः ।
इति स्मोत्का सञ्जय ब्रूहि पश्चा- दजातशत्रुः कुशली सपुत्रः ॥

5.30.36

राज्ञो भार्याः सञ्जय वेत्थ तत्र तासां सर्वासां कुशलं तात पृच्छेः ।
सुसन्गुप्ताः सुरभयोऽनवद्याः कच्चिद्गृहानावसथाप्रमत्ताः ॥

5.30.37

कच्चिद्वृत्तिं श्वशुरेषु भद्राः कल्याणीं वर्तध्वमनृशंसरूपाम् ।
यथा च वः स्युः पतयोऽनुकूला- स्तथा वृत्तिमात्मनः स्थापयध्वम् ॥

5.30.38

या नः स्नुषाः सञ्जय वेत्थ तत्र प्राप्ताः कुलेभ्यश्च गुणोपपन्नाः ।
प्रजावत्यो ब्रूहि समेत्य ताश्च युधिष्ठिरो वोऽभ्यवदत्प्रसन्नः ॥

5.30.39

कन्याः स्वजेथाः सदनेषु सञ्जय अनामयं मद्वचनेन पृष्ट्वा ।
कल्याणा वः सन्तु पतयोऽनुकूला यूयं पतीनां भवतानुकूलाः ॥

5.30.40

अलङ्कृता वस्त्रवत्यः सुगन्धा अबीभत्साः सुखिता भोगवत्यः ।
लघु यासां दर्शनं वाक्व लघ्वी वेशस्त्रियः कुशलं तात पृच्छेः ॥

5.30.41

दास्यः स्युर्या ये च दासाः कुरूणां तदाश्रया बहवः कुब्जखञ्जाः ।
आख्याय मां कुशलिनं स्म तेभ्यो- ऽप्यनामयं परिपृच्छेर्जघन्यम् ।

5.30.42

कच्चिद्वृत्तिं वर्तते वै पुराणीं कच्चिद्भोगान्दार्तराष्ट्रो ददाति ।
अङ्गहीनान्कृपणान्वामनान्वा यानानृशंस्याद्धार्तराष्ट्रो बिभर्ति ॥

5.30.43

अन्धाश्च सर्वे बधिरास्तथैव हस्ताजीवा बहवो येऽत्र सन्ति ।
आख्याय मां कुशलिनं स्म तेभ्यो- ऽप्यनामयं परिपृच्छेर्जघन्यम् ॥

5.30.44

मा भैष्ट दुःखेन कुजीवितेन नूनं कृतं परलोकेषु पापम् ।
निगृह्य शत्रून्सुहृदोऽनुगृह्य वासोभिरन्नेन च वो भरिष्ये ॥

5.30.45

न चाप्येतच्छक्यमेकेन वक्तुं नानादेशा बहवो जातिसङ्घाः ।
विप्रोषितो बालवद्द्रष्टुमिच्छ- न्नमस्येऽहं सञ्जय भैमसेनान् । ते मे यथा वाचमिमां यथोक्तां त्वयोच्यमानां श्रृणुयुक्तथा कुरु ॥

5.30.46

सन्त्येव मे ब्राह्मणेभ्यः कृतानि भावीन्यथो नो बत वर्तयन्ति ।
तान्पश्यामि युक्तरूपांस्तथैव तामेव सिद्धिं श्रावयेथा नृपं तम् ॥

5.30.47

ये चानाथा दुर्बलाः सर्वकाल- मात्मन्येव प्रयतन्तेऽथ मूढाः ।
तांश्चापि त्वं कृपणान्सर्वथैव ह्यस्मद्वाक्यात्कुशलं तात पृच्छेः ॥

5.30.48

ये चाप्यन्ये संश्रिता धार्तराष्ट्रा- न्नानादिग्भ्योऽभ्यागताः सूतपुत्र ।
दृष्ट्वा तांश्चैवार्हतश्चापि सर्वा- न्सम्पृच्छेथाः कुशलं चाव्ययं च ॥

5.30.49

एवं सर्वानागताभ्यागतांश्च राज्ञो दूतान्सर्वदिग्भ्योभ्युपेतान् ।
पृष्ट्वा सर्वान्कुशलं तांश्च सूत पश्चादहं कुशली तेषु वाच्यः ॥

5.30.50

न हीदृशाः सन्त्यपरे पृथिव्यां ये योधका धार्तराष्ट्रेण लब्धाः ।
धर्मस्तु नित्यो मम धर्म एव महाबलः शत्रुनिबर्हणाय ॥

5.30.51

इदं पुनर्वचनं धार्तराष्ट्रं सुयोधनं सञ्जय श्रावयेथाः ।
यस्ते शरीरे हृदयं दुनोति कामः कुरूनसपत्नोऽनुशिष्याम् ॥

5.30.52

न विद्यते युक्तिरेतस्य काचि- न्नैवं विधास्यामि यथा प्रियं ते ।
ददस्व वा शक्रपुरीं ममैव युध्वस्व वा भारतमुख्यवीर ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc