महाभारत · अध्याय 5.26
कां नु वाचं सञ्जय मे शृणोषि । युद्धैषिणीं येन युद्धाद्बिभेषि ।
अयुद्धं वै तात युद्धाद्गरीयः कस्तल्लब्ध्वा जातु युद्ध्येत सूत ॥
अकुर्वतश्चेत्पुरुषस्य सञ्जय सिद्ध्येत्सङ्कल्पो मनसा यं यमिच्छेत् ।
न कर्म कुर्याद्विदितं ममैत- दन्यत्र युद्धाद्बहु यल्लघीयः ॥
कुतो युद्धं जातु नरोऽवगच्छे- त्को देवशप्तो हि वृणीत युद्धम् ।
सुखैषिणः कर्म कुर्वन्ति पार्था धर्मादहीनं यच्च लोकस्य पथ्यम् ॥
धर्मोदयं सुखमाशंसमानाः कृच्छ्रोपायं तत्त्वतः कर्म दुःखम् ।
सुखं प्रेप्सुर्विजिघांसुश्च दुःखं कर्मारभेद्यच्च धर्मानपेतम् ॥
क इन्द्रियाणां प्रीतिवशानुरानां कर्माभिज्ञः स्वशरीरं दुनोति ।
यया प्रमुक्तो न करोति दुःखं तृष्णां त्यजेत्सर्वधर्मादपेताम् ॥
यथेध्यमानस्य समिद्धतेजसो भूयो बलं वर्धते पावकस्य ।
कामार्थलाभेन तथैव भूयो न तृप्यते सर्पिषेवाग्निरिद्धः . सम्पश्येमं भोगचयं महान्तं सहास्माभिर्धृतराष्ट्रस्य राज्ञः ॥
नाश्रेयानीश्वरो विग्रहाणां नाश्रेयान्वै गीतशब्दं श्रृणोति ।
नाश्रेयान्वै सेवते माल्यगन्धा- न्न चाप्यश्रेयाननुलेपनानि ॥ नाश्रेयान्वै प्रावारान्संविवस्ते कथं त्वस्मान्सम्प्रणुदेत्कुरुभ्यः ॥
अत्रैव स्यादवुधस्यैव कामः ।
प्रायः शरीरे हृदयं दुनोति ॥
स्वयं राजा विषमस्थः परेषु सामर्थ्यमन्विच्छति तन्न साधु ।
यथाऽत्मनः पश्यति वृत्तमेव तथा परेतामपि सोऽभ्युपैति ॥
आसन्नमग्निं तु निदाघकाले गम्भीरकक्षे गहने विसृज्य ।
यथा विवृद्धं वायुवशेन शोचे- त्क्षेमं मुमुक्षुः शिशिरव्यपाये ॥
प्राप्तैश्वर्यो धृतराष्ट्रोऽद्य राजा लालप्यते सञ्जय कस्य हेतोः ।
प्रगृह्य दुर्बुद्धिमनार्जवे रतं पुत्रं मन्दं मूढममन्त्रिणं तु ॥
अनाप्तवच्चाप्ततमस्य वाचः सुयोधनो विदुरस्यावमत्य ।
सुतस्य राजा धृतराष्ट्रः प्रियैषी सम्बुध्यमानो विशतेऽधर्ममेव ॥
मेधाविनं ह्यर्थकामं कुरूणां बहुश्रुतं वाग्मिनं शीलवन्तम् ।
स तं राजा धृतराष्ट्रः कुरुभ्यो न सस्मार विदुरं पुत्रकाम्यात् ॥
मानघ्नस्यासौ मानकामस्य चेर्षोः संरम्भिणश्चार्थधर्मातिगस्य ।
दुर्भाषिणो मन्युवशानुगस्य कामात्मनो दौर्हृदैर्भावितस्य ॥
अनेयस्याश्रेयसो दीर्घमन्यो- र्मित्रद्रुहः सञ्जय पापबुद्धेः ।
सुतस्य राजा धृतराष्ट्रः प्रियैषी प्रपश्यमानः प्राजहाद्धर्मकामौ ॥
तदैव मे सञ्जय दीव्यतोऽभू- न्मतिः कुरूणामागतः स्यादभावः ।
काव्यां वाचं विदुरो भाषमाणो न विन्दते यद्धार्तराष्ट्रात्प्रशंसाम् ॥
क्षत्तुर्यदा नान्ववर्तन्त बुद्धिं कृच्छ्रं कुरून्सूत तदाऽभ्याजगाम ।
यावत्प्रज्ञामन्ववर्तन्त तस्य तावत्तेषां राष्ट्रवृद्धिर्बभूव ॥
तदर्थलुब्धस्य निबोध मेऽद्य ये मन्त्रिणो धार्तराष्ट्रस्य सूत ।
दुःशासनः शकुनिः सूतपुत्रो गावल्गणे पश्य सम्मोहमस्य ॥
सोऽहं न पश्यामि परीक्षमाणः कथं स्वस्ति स्यात्कुरुसृञ्जयानाम् ।
आत्तैश्वर्यो धृतराष्ट्रः परेभ्यः प्रव्राजिते विदुरे दीर्घदृष्टौ ॥
आशंसते वै धृतराष्ट्रः सपुत्रो महाराज्यमसपत्नं पृथिव्याम् ।
तस्मिञ्शमः केवलं नोपलभ्यः सर्वं स्वकं मद्गते मन्यतेऽर्थम् ॥
यत्तत्कर्णो मन्यते पारणीयं युद्धे गृहीतायुधमर्जुनं वै ।
आसंश्च युद्धानि पुरा महान्ति कथं कर्णो नाभवद्द्वीप एषाम् ॥
कर्णश्च जानाति सुयोधनश्च द्रोणश्च जानाति पितामहश्च ।
अन्ये च ये कुग्वस्तत्र सन्ति यथाऽर्जुनान्नाम्त्यपरो धनुर्धरः ॥
जानन्त्येतन्कुरवः सर्व एव ये चाप्यन्ये भूमिपालाः समेताः ।
दुर्योधने राज्यमिहाभवद्यथा अरिन्दमे फाल्गुनेऽविद्यमाने ॥
तेनानुबन्धं मन्यते धार्तराष्ट्रः शक्यं हर्तुं पाण्डवानां ममत्वम् ।
किरीटिना तालमात्रायुधेन तद्वेदिना संयुगं तत्र गत्वा ॥
गाण्डीवविष्फारितशब्दमात्रं श्रुत्वैव ते धार्तराष्ट्रा म्रियन्ते ।
क्रुद्धं न चेदीक्षते भीमसेनं सुयोधनो मन्यते सिद्धमर्थम् ॥
इन्द्रोऽप्येतन्नोत्सहेत्तात हर्तु- मैश्वर्यं नो जीवति भीमसेने ।
धनञ्जये नकुले चैव सूत तथा वीरे सहदेवेऽसहिष्णौ ॥
सचेदेतां प्रतिपद्येत बुद्धिं वृद्धो राजा सह पुत्रेण सूत ।
एवं रणे पाण्डवकोपदग्धा न नश्येयुः सञ्जय धार्तराष्ट्राः ॥
जानामि त्वं क्लेशमस्मासु वृत्तं त्वां पूजयन्मञ्जयाहं क्षमेयम् ।
वच्चास्माकं कौरवैर्भृतपूर्वं या नो वृत्तिधार्तराष्ट्रे तदाऽसीत् ॥
अद्यापि सा तत्र तथैव वर्ततां यान्ति गमिष्यामि यथा न्वमात्थ ।
द्वन्द्राप्रव्ये भवतु ममैव राज्यं सूयोधनो यच्छतु भाग्नाग्र्यः ॥
मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0