महाभारत · अध्याय 5.27
धर्मनित्या पाण्डव ते विचेष्टा लोके श्रुता दृश्यते चापि पार्थ ।
महाश्रावं जीवित चाप्यनित्यं सम्पश्य त्वं पाण्डव मा व्यनीनशः ॥
नचेद्भागं कुरवोऽन्यत्र युद्धा- त्प्रयच्छेरंस्तुभ्यमजातशत्रो ।
भैक्षचर्यामन्धकवृष्णिराज्ये श्रेयो मन्ये न तु युद्धेन राज्यम् ॥
अल्पकालं जीवितं यन्मनुष्ये महास्रावं नित्यदुःखं चलं च ।
भूयश्च तद्यशसो नानुरूपं तस्मात्पापं पाण्डव मा कृथास्त्वम् ॥
कामा मनुष्यं प्रसजन्त एते धर्मस्य ये विघ्नमूलं नरेन्द्र ।
पूर्वं नरस्तान्मतिमान्प्रणिघ्नन् लोके प्रशंसां लभतेऽनवद्याम् ॥
निबन्धनी ह्यर्थतृष्णेह पार्थ तामिच्छतां बाध्यते धर्म एव ।
धर्मं तु यः प्रणृणीते स बुद्धः कामे गृध्नो हीयतेऽर्थानुरोधात् ॥
धर्मं कृत्वा कर्मणां तात मुख्यं महाप्रतापः सवितेव भाति ।
हीनो हि धर्मेण महीमपीमां लब्ध्वा नरः सीदति पापबुद्धिः ॥
वेदोऽधीतश्चरितं ब्रह्मचर्यं यज्ञैरिष्टं ब्राह्मणेभ्यश्च दत्तम् ।
परं स्थानं मन्यमानेन भूय आत्मा दत्तो वर्षपूगं सुखेभ्यः ॥
सुखप्रिये सेवमानोऽतिवेलं योगाभ्यासे यो न करोति कर्म ।
वित्तक्षये हीनसुखोऽतिवेलं दुःखं शेते कामवेगप्रणुन्नः ॥
एवं पुनर्ब्रह्मचर्याऽप्रसक्तो हित्वा धर्मं यः प्रकरोत्यधर्मम् ।
अश्रद्दधत्परलोकाय मूढो हित्वा देहं तप्यते प्रेत्य मन्दः ॥
न कर्मणां विप्रणाशोऽस्त्यमुत्र पुण्यानां वाऽप्यथवा पापकानाम् ।
पूर्वं कर्तुर्गच्छति पुण्यपापं पश्चात्त्वेनमनुयात्येव कर्ता ॥
न्यायोपेतं ब्राह्मणेभ्योऽथ दत्तं श्रद्धापूतं गन्धरसोपपन्नम् ।
अन्वाहार्येषूत्तमदक्षिणेषु तथारूपं कर्म विख्यायते ते ॥
इह क्षेत्रे क्रियते पार्थ कार्यं न वै किञ्चित्क्रियते प्रेत्य कार्यम् ।
कृतं त्वया पारलोक्यं च कर्म पुण्यं महत्सद्भिरतिप्रशस्तम् ॥
जहाति मृत्युं च जरां भयं च न क्षुत्पिपासे मनसोऽप्रियाणि ।
न कर्तव्यं विद्यते तत्र किञ्चि- दन्यत्र वै चेन्द्रियप्रीणनाद्धि ॥
एवंरूपं कर्मफलं नरेन्द्र मातापित्रोर्हृदयस्याप्रियेण ।
त्यज क्रोधं पाण्डव हर्षजं च लोकावुभौ मा प्रहासीश्चिराया ॥
अन्तं गत्वा कर्मणां या प्रशंसा सत्यं दमं चार्जवमानृशंस्यम् ।
अश्वमेधं राजसूयं तथेष्ट्वा पापस्यान्तं कर्मणो मा पुनर्गाः ॥
तच्चेदेवं द्वेषरूपेण पार्थाः करिष्यध्वं कर्म पापं चिराय ।
निवसध्वं वर्षपूगान्वनेषु दुःखं वासं पाण्डवा धर्म एव ॥
प्रव्रज्यया यातयित्वा पुरस्ता- दात्माधीनं यद्बलं ते तदाऽसीत् ।
नित्यं च वश्याः सचिवास्तवेमे जनार्दनो युयुधाश्च वीरः ॥
मत्स्यो राजा रुक्मरथः सपुत्रः प्रहारिभिः सहपुत्रैर्विराटः ।
राजानस्ते ये विजिताः पुरस्ता- त्त्वामेव ते संश्रयेयुः समस्ताः ॥
महासहायः प्रतपन्बलस्थः पुरस्कृतो वासुदेवार्जुनाभ्याम् ।
वरान्हनिष्यन्द्विषतो रङ्गमध्ये व्यनेष्यथा धार्तराष्ट्रस्य दर्पम् ॥
बलं कस्माद्वर्धयित्वा परस्य निजान्कस्मात्कर्शयित्वा सहायान् ।
निरुष्य कस्माद्वर्षपूगान्वनेषु युयुत्ससे पाण्डव हीनकाले ॥
अप्राज्ञो वा पाण्डव युद्ध्यमानो- ऽधर्मज्ञो वा भूतिमथोऽभ्युपैति ।
प्रज्ञावान्वा बुद्ध्यमानोऽपि धर्मं संस्तम्भाद्वा सोऽपि भूतेरपैति ॥
नाधर्मे ते धीयते पार्थ बुद्धि- र्न संरम्भात्कर्म चकर्थ पापम् ।
आत्थ किं तत्कारणं यस्य हेतोः प्रज्ञाविरुद्धं कर्म चिकीर्षसीदम् ॥
अव्याधिजं कटुकं शीर्षरोगि यशोमुषं पापफलोदयं वा ।
सतां पेयं यन्न पिबन्त्यसन्तो मन्युं महाराज पिब प्रशाम्य ॥
पापानुबन्धं को नु तं कामयेत क्षमैव ते ज्यायसी नोत भोगाः ।
यत्र भीष्मः शान्तनवो हतः स्या- द्यत्र द्रोणः सहपुत्रो हतः स्यात् ॥
कृपः शल्यः सौमदत्तिर्विकर्णो विविंशतिः कर्णदुर्योधनौ च ।
एतान्हत्वा कीदृशं तत्सुखं स्या- द्यद्विन्देथास्तदनुब्रूहि पार्थ ॥
लब्ध्वाऽपीमां पृथिवीं सागरान्तां जरामृत्यू नैव हि त्वं प्रजह्याः ।
प्रियाप्रिये सुखदुःखे च राज- न्नैवं विद्वान्नैव युद्धं कुरु त्वम् ॥
अमात्यानां यदि कामस्य हेतो- रेवं युक्तं कर्म चिकीर्षसि त्वम् ।
अपक्रमेः स्वं प्रदायैव तेषां मागास्त्वं वै देवयानात्पथोऽद्य ॥
मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0