महाभारत · अध्याय 5.25
समागताः पाण्डवाः सृञ्जयाश्च जनार्दनो युयुधानो विराटः ।
यत्ते वाक्यं धृतराष्ट्रानुशिष्टं गावल्गणे ब्रूहि तत्सूतपुत्र ॥
सञ्जय उवाच ।
अजातशत्रुं च वृकोदरं च धनञ्जयं माद्रवतीसुतौ च ।
आमन्त्रये वासुदेवं च शौरिं युयुधानं चेकितानं विराटम् ॥
पञ्चालानामधिपं चैव वृद्धं धृष्टद्युम्नं पार्षतं याज्ञसेनिम् ।
सर्वे वाचं शृणुतेमां मदीयां वक्ष्यामि यां भूतिमिच्छन्कुरूणाम् ॥
शमं राजा धृतराष्ट्रोऽभिनन्द- न्नयोजयत्त्वरमाणो रथं मे ।
सभ्रातृपुत्रस्वजनस्य राज्ञ- स्तद्रोचतां पाण्डवानां शमोऽस्तु ॥
सर्वैर्धर्मैः समुपेतास्तु पार्थाः संस्थानेन मार्दनेवार्जवेन ।
जाताः कुले ह्यनृशंसा वदान्या हीनिषेवाः कर्मणां निश्चयज्ञाः ॥
न युज्यते कर्म युष्मासु हीनं सत्वं हि वस्तादृशं भीमसेनाः ।
उद्भासते ह्यञ्जनबिन्दुवत्त- च्छुभ्रे वस्त्रे यद्भवेत्किल्बिषं वः ॥
सर्वक्षयो दृश्यते यत्र कृत्स्नः पापोदयो भावसंस्थः कुरूणाम् ।
कस्तत्र कुर्याञ्जातु कर्म प्रजानन् पराजयो यत्र समो जयश्च ॥
ते वै धन्या यैः कृतं ज्ञातिकार्यं ते वै पुत्राः सुहृदो बान्धवाश्च ।
उपक्रुष्टं जीवितं सन्त्यजेयु- र्यतः कुरूणां नियतो वै भवः स्यात् ॥
ते चेत्कुरूननुशिष्याथ पार्था निर्णीय सर्वान्द्विषतो निगृह्य ।
समं वस्तज्जीवितं मृत्युन स्या- द्यज्जीवध्वं ज्ञातिवधेन साधु ॥
को ह्येव युष्मान्सह केशवेन सचेकितानान्पार्षतबाहुगुप्तान् ।
ससात्यकीन्विषहेत प्रजेतुं लब्ध्वाऽपि देवान्सचिवान्सहेन्द्रान् ॥
को वा कुरून्द्रोणभीष्माभिगुप्ता- नश्वत्थाम्ना शल्यकृपादिभिश्च ।
रणे विजेतुं विषहेत राजन् राधेयगुप्तान्सह भूमिपालैः ॥
महद्बलं धार्तराष्ट्रस्य राज्ञः को वै शक्तो हन्तुमक्षीयमाणः ।
सोऽहं जये चैव पराजये च निःश्रेयसं नाधिगच्छामि किञ्चित् ॥
कथं हि नीचा इव दौष्कुलेया निर्धर्मार्थं कर्म कुर्युश्च पार्थाः ।
सोऽहं प्रसाद्य प्रणतो वासुदेवं पञ्चालानामधिपं चैव वृद्धम् ॥
कृताञ्जलिः शरणं वः प्रपद्ये कथं स्वस्ति स्यात्कुरुसृञ्जयानाम् ।
न ह्येवमेवं वचनं वासुदेवो धनञ्जयो वा जातु किञ्चिन्न कुर्यात् ॥
प्रणान्दद्याद्याचमानः कुतोऽन्य- देतद्विद्वन्साधनार्थं ब्रवीमि ।
एतद्राज्ञो भीष्मपुरोगमस्य मतं यद्वः शान्तिरिहोत्तमा स्यात् ॥
मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0