भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 5.188

5.188.1

कथं शिखण्डी गाङ्गेय कन्यां भूत्वा पुरा तदा ।
पुरुषोऽभूद्युधिश्रेष्ठ तन्मे ब्रूहि पितामह ॥
भीष्म उवाच ।

5.188.2

भार्या तु तस्य राजेन्द्र द्रुपदस्य महीपतेः ।
महिषी दयिता ह्यासीदपुत्रा च विशाम्पते ॥

5.188.3

एतस्मिन्नेव काले तु द्रुपदो वै महीपतिः ।
अपत्यार्थे महाराज तोषयामास शङ्करम् ॥

5.188.4

अस्माद्वधार्थं निश्चित्य तपो घोरं समास्थितः ।
ऋते कन्यां महादेव पुत्रो मेस्यादिति ब्रुवन् ॥

5.188.5

भगवन्पुत्रमिच्छामि भीष्मं प्रतिचिकीर्षया ।
इत्युक्तो देवदेवेन स्त्रीपुमांस्ते भविष्यति ॥

5.188.6

निवर्तस्व महीपाल नैतञ्जात्वन्यथा भवेत् ।
स तु गत्वा च नगरं भार्यामिदमुवाच ह ॥

5.188.7

कृतो यत्नो महादेवस्तपसाऽराधितो मया ।
कन्या भूत्वा पुमान्भावी इति चोक्तोस्मि शम्भुना ॥

5.188.8

पुनः पुनर्याच्यमानो दिष्टमित्यब्रवीच्छिवः ।
नतदन्यच्च भविता भवितव्यं हि तत्तथा ॥

5.188.9

ततः सा नियता भूत्वा ऋतुकाले मनस्विनी ।
पत्नी द्रुपदराजस्य द्रुपदं प्रविवेश ह ॥

5.188.10

लेभे गर्भं यथाकालं विधिदृष्टेन कर्मणा ।
पार्षतस्य महीपाल यथा मां नारदोऽब्रवीत् ॥

5.188.11

ततो दधार सा देवी गर्भं राजीवलोचना ।
तां स राजा प्रियां भार्यां द्रुपदः कुरुनन्दन ॥

5.188.12

पुत्रस्नेहान्महाबाहुः मुखं पर्यचरत्तदा ।
सर्वानभिप्रायकृतान्भार्याऽलभत कौरव ॥

5.188.13

अपुत्रस्य सतो राज्ञो द्रुपदस्य महीपतेः ।
यथाकालं तु सा देवी महिषी द्रुपदस्य ह ॥

5.188.14

कन्यां प्रवररूपां तु प्राजायत नराधिप ।
अपुत्रस्य तु राज्ञः सा द्रुपदस्य मनस्विनी ॥

5.188.15

ख्यापयामास राजेन्द्र पुत्रो ह्येष ममेति वै ।
ततः स राजा द्रुपद प्रच्छन्नाया नराधिप ॥

5.188.16

पुत्रवत्पुत्रकार्याणि सर्वाणि समकारयत् ।
रक्षणं चैव मन्त्रस्य महिषी द्रुपदस्य सा ॥

5.188.17

चकार सर्वयत्नेन ब्रुवणा पुत्र इत्युत ।
न च तां वेदक नगरे कश्चिदन्यत्र पार्षतात् ॥

5.188.18

श्रद्दधानो हि तद्वाक्यं देवस्याच्युततेजसः ।
छादयामास तां कन्यां पुमानिति च सोब्रवीत् ॥

5.188.19

जातकर्माणि सर्वाणि कारयामास पार्थिवः ।
पुंवद्विधानयुक्तानि शिखण्डीति च तां विदुः ॥

5.188.20

अहमेकस्तु चारेण वचनान्नारदस्य च ।
ज्ञातवान्देववाक्येन अम्बायास्तपसा तथा ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc