भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 5.189

5.189.1

चकार यत्नं द्रुपदः सुतायाः सर्वकर्मसु ।
ततो लेख्यादिषु तथा शिल्पेषु च परन्तप ॥

5.189.2

इष्वस्त्रे चैव राजेन्द्र द्रोणशिष्यो बभूव ह ।
तस्य माता महाराज राजानं वरवर्णिनी ॥

5.189.3

चोदयामास भार्यार्थं कन्यायाः पुत्रवत्तदा . ततस्तां पार्षतो दृष्ट्वा कन्यां सम्प्राप्तयौवनाम् ।
स्त्रियं मत्वा ततश्चिन्तां प्रपेदे सह भार्यया ॥
द्रुपद उवाच ।

5.189.4

कन्या ममेयं सम्प्राप्ता यौवनं शोकवर्धिनी ।
मया प्रच्छादिता चेयं वचनाच्छूलपाणिनः ॥
भार्योवाच ।

5.189.5

न तन्मिथ्या महाराज भविष्यति कथञ्चन ।
त्रैलोक्यकर्ता कस्माद्धि वृथा वक्तुमिहार्हति ॥

5.189.6

यदि ते रोचते राजन्वक्ष्यामि श्रृणु मे वचः ।
श्रुत्वेदानीं प्रपद्येथाः स्वां मतिं पृषतात्मज ॥

5.189.7

क्रियतामस्य यत्नेन विधिवद्दारसन्ग्रहः ।
भविता तद्वचः सत्यमिति मे निश्चिता मतिः ॥

5.189.8

ततस्तौ निश्चयं कृत्वा तस्मिन्कार्येऽथ दम्पती ।
वरयाञ्चक्रतुः कन्यां दशार्णाधिपतेः सुताम् ॥

5.189.9

ततो राजा द्रुपदो राजसिंहः सर्वान्राज्ञः कुलतः सन्निशाम्य ।
दाशार्णकस्य नृपतेस्तनूजां शिखण्डिने वरयामास दारान् ॥

5.189.10

हिरण्यवर्मेति नृपो योऽसौ दाशार्णकः स्मृतः ।
स च प्रादान्महीपालः कन्यां तस्मै शिखण्डिने ॥

5.189.11

स च राजा दशार्णेषु महानासीत्सुदुर्जयः ।
हिरण्यवर्मा दुर्धर्षो महासेनो महामनाः ॥

5.189.12

कृते विवाहे तु तदा सा कन्या राजसत्तम ।
यौवनं समनुप्राप्ता सा च कन्या शिखण्डिनी ॥

5.189.13

कृतदारः शिखण्डी च काम्पिल्यं पुनरागमत् । न च सा वेद तां कन्यां कञ्चित्कालं स्त्रियं किल ।
यदा त्वेनामजानात्सा स्त्रियमेव नृपात्मजा ॥

5.189.14

धात्रीणां च सखीनां च व्रीडयाना न्यवेदयत् ।
कन्यां पाञ्चालराजस्य सुतां तां वै शिखण्डिनीम् ॥

5.189.15

ततस्ता राजशार्दूल धात्र्यो दाशार्णिकास्तदा ।
जग्मुरार्ति परां प्रेष्याः प्रेषयामासुरेव च ॥

5.189.16

ततो दशार्णाधिपतेः प्रेष्याः सर्वा न्यवेदयन् ।
विप्रलम्भं यथावृत्तं स च चुक्रोध पार्थिवः ॥

5.189.17

शिखण्ड्यपि महाराज पुंवद्राजकुले तदा ।
विजहार म्रुदा युक्तः स्त्रीत्वं नैवातिरोचयन् ॥

5.189.18

ततः कतिपयाहस्य तच्छ्रुत्वा भरतर्षभ ।
हिरण्यवर्मा राजेन्द्र रोषादर्तिं जगाम ह ॥

5.189.19

ततो दाशार्णको राजा तीव्रकोपसमन्वितः ।
दूतं प्रस्थापयामास द्रुपदस्य निवेशनम् ॥

5.189.20

ततो द्रुपदमासाद्य दूतः काञ्चनवर्मणः ।
एक एकान्तसुत्सार्य रहो वचनमब्रवीत् ॥

5.189.21

दाशार्णराजो राजंस्त्वामिदं वचनमब्रवीत् ।
अभिष्गात्प्रकुपितो विप्रलब्धस्त्वयाऽनघ ॥

5.189.22

अवमन्यसे मां नृपते नूनं दुर्मन्त्रितं तव ।
यन्मे कन्यां स्वकन्यार्थे मोहाद्याचितवानसि ॥

5.189.23

तस्याद्य विप्रलम्भस्य फलं प्राप्नुहि दुर्मते ।
एष त्वं सजनामात्यमुद्धरामि स्थिरो भव ॥

5.189.24

अवमत्य च वीर्यं मे कुलं चारित्रमेव च ।
विप्रलम्भस्त्वयापूर्वो मनुष्येषु प्रवर्तितः ॥

5.189.25

कुरु सर्वाणि कार्याणि भुङ्क्ष्व कभोगाननुत्तमान् ।
अभियास्यामि शीघ्रं त्वां समुद्धर्तुं सबान्धवम् ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc