भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 5.187

5.187.1

ततस्ते तापसाः सर्वे तपसे धृतनिश्चयाम् ।
दृष्ट्वा न्यवर्तयंस्तात किं कार्यमिति चाब्रुवन् ॥

5.187.2

तानुवाच ततः कन्या तपोवृद्धानृषींस्तदा ।
निराकृतास्मि भीष्मेण भ्रंशिता पतिधर्मतः ॥

5.187.3

वधार्थं तस्य दीक्षा मे न लोकार्थं तपोधनाः ।
निहत्य भीष्मं गच्छेयं शान्तिमित्येव निश्चयः ॥

5.187.4

यत्कृते दुःखवसतिमिमां प्राप्तऽस्मि शाश्वतीम् ।
पतिलोकाद्विहीना च नैव स्त्री न पुमानिह ॥

5.187.5

नाहत्वा युधि गाङ्गेयं निवर्तिष्ये तपोधनाः ।
एष मे हृदि सन्कल्पो यदिदं कथितं मया ॥

5.187.6

स्त्रीभावे परिनिर्विण्णा पुंस्त्वार्थे कृतनिश्चया ।
भीष्मे प्रतिचिकीर्षामि नास्मि वार्येति वै पुनः ॥

5.187.7

तां देवो दर्शयामास शूलपाणिरुमापतिः ।
मध्ये तेषां महार्षीणां स्वेन रूपेण तापसीम् ॥

5.187.8

छन्द्यमाना वरेणाथ सा वव्रे मत्पराजयम् ।
हनिष्यसीति तां देवः प्रत्युवाच मनस्विनीम् ॥

5.187.9

ततः सा पुनरेवाथ कन्या रुद्रमुवाच ह ।
उपपद्येत्कथं देव स्त्रिया युधि जयो मम ॥

5.187.10

स्त्रीभावेन च मे गाढं मनः शान्तमुमापते ।
प्रतिश्रुतश्च भूतेश त्वया भीष्मपराजयः ॥

5.187.11

यथा स सत्यो भवति तथा कुरु वृषध्वज ।
यथा हन्यां समागम्य भीष्मं शान्तनवं युधि ॥

5.187.12

तामुवाच महादेवः कन्यां किल वृषध्वजः ।
न मे वागमृतं प्राह सत्यं भद्रे भविष्यसि ॥

5.187.13

हनिष्यसि रणे भीष्मं पुरुषत्वं च लप्स्यति ॥
स्मरिष्यसि च तत्सर्वं देहमन्यं गता सती ॥

5.187.14

द्रुपदस्य कुले जाता भविष्यसि महारथः ।
शीघ्रास्त्रश्चित्रयोधी च भविष्यसि सुसम्मतः ॥

5.187.15

यथोक्तमेव कल्याणि सर्वमेतद्भविष्यति ।
भविष्यसि पुमान्पश्चात्कस्माच्चित्कालपर्ययात् ॥

5.187.16

एवमुक्त्वा महादेवः कपर्दी वृषभध्वजः ।
पश्यतामेव विप्राणां तत्रैवान्तरधीयत ॥

5.187.17

ततः सा पश्यतां तेषां महर्षीणामनिन्दिता ।
समाहृत्य वनात्तस्मात्काष्ठानि वरवर्णिनी ॥

5.187.18

चितां कृत्वा सुमहतीं प्रदाय च हुताशनम् ।
प्रदीप्तेऽग्नौ महाराज रोषदीप्तेन चेतसा ॥

5.187.19

उक्त्वा भीष्मवधायेति प्रविवेश हुताशनम् ।
ज्येष्ठा काशिसुता राजन्यमुनामभितो नदीम् ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc