भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 4.70

4.70.1

प्रस्थाप्य सेनां कन्याश्च गणिकाश्च स्वलन्कृताः ।
मत्स्यराजो महाराजः प्रहृष्ट इदमब्रवीत् ॥

4.70.2

व्रिगर्ताः कुरवः सर्वे सन्ग्रामे निर्जिता मया ।
प्रविश्यान्तःपुरं हृष्टा द्यूतं दीव्याम ब्राह्मण ॥

4.70.3

अक्षानाहर सैरन्ध्रि आसनं चोपकल्पय ।
आदाय व्यजनं त्वं च पार्श्वतोऽनन्तरा भव ॥

4.70.4

तं तथावादिनं दृष्ट्वा पाण्डवः प्रत्यभापत ।
न देवितव्यं हृष्टेन कितवेनेति नः श्रुतम् ॥

4.70.5

न त्वामद्य मुदा युक्तमहं देवितुमुत्सहे . प्रियं तु ते चिकीर्पामि वर्ततां यदि रोचते ।
द्यूतं कर्तुं न वाञ्छामि नरेन्द्र जनसंसदि ॥
विराट उवाच ।

4.70.6

स्त्रियो गावो हिरण्यं च यच्चान्यद्वसु किञ्चन ।
न मे किञ्चित्त्वया कार्यमन्तरेणापि देवितम् ॥
कङ्क उवाच ।

4.70.7

किं ते द्यूतेन राजेन्द्र बहुदोषेण मानद ।
देवने बहवो दोषास्तस्मात्तत्परिवर्जयेत् ॥

4.70.8

श्रुतो वा यदि वा दृष्टो धर्मराजो युधिष्ठिरः ।
स राज्यं धनमक्षय्यं पणमेकममन्यत ॥

4.70.9

कृष्णां च भार्यां दयितां भ्रातॄंश्च त्रिदशोपमान् ।
निःसंशयं स कितवः पश्चात्तप्यति पाण्डवः ॥

4.70.10

विविधानां च रत्नानां धनानां च पराजये ।
अभीप्सितविनाशश्च वाक्पारुष्यमनन्तरम् ॥

4.70.11

अविश्वास्यं बुधैर्नित्यमेकाह्ना द्रव्यनाशनम् ।
द्यूते हारितवान्सर्वं तस्माद्द्यूतं न रोचये ॥

4.70.12

अथवा मन्यसे राजन्दीव्याव यदि रोचते ।
एवमाभाष्य वाक्यैस्तु क्रीडतस्तौ नरोत्तमौ ॥

4.70.13

प्रवर्तमाने द्यूते तु मात्स्यः पाण्डवमब्रवीत् ॥

4.70.14

पश्य पुत्रेण मे युद्धे तादृशाः कुरवो जिताः ।
कुरवोऽतिरथाः सर्वे देवैरपि सुदुर्जयाः ॥

4.70.15

ततोऽब्रवीद्धर्मराजो द्यूते मात्स्यं युधिष्ठिरः ।
दिष्ट्या ते विजिता गावः कुरवश्च पराजिताः ॥

4.70.16

अत्यद्भुततमं मन्ये उत्तरश्चेत्कूरूञ्जयेत् ।
यन्ता बृहन्नला यस्य स कथञ्चिद्विजेष्यते ॥

4.70.17

ततो विराटः क्षुभितो मन्युना च परिप्लुतः ।
उवाच वचनं क्रुद्धः परिव्राजमनन्तरम् ॥

4.70.18

तादृशेन तु योधेन महेष्वासेन धीमता ।
कुरवो निर्जिता युद्धे तत्र किं ब्राह्मणाद्भुतम् ॥
युधिष्ठिर उवाच ।

4.70.19

समं षण्डेन मे पुत्रं ब्रह्मबन्धो प्रशंससि ।
वाच्यावाच्यं न जानीषे नूनं मामवमन्यसे ॥
विराट उवाच ।

4.70.20

समं षण्डेन मे पुत्रं ब्रह्मबन्धो प्रशंससि ।
वाच्यावाच्यं न जानीषे नूनं मामवमन्यसे ॥

4.70.21

पुमांसो बहवो दृष्टाः सूताश्च बहवो मया ।
विक्रम्य यन्ता योद्धा च न मे दृष्टः कदाचन ॥

4.70.22

विप्रियं न चरेद्राज्ञामनुकूलं प्रियं वदेत् ।
आचरन्विप्रियं राज्ञां न जातु सुखमेधते ॥

4.70.23

वयस्यत्वात्तु ते सर्वमपराधमिमं क्षमे ।
नेदृशीं प्रवदर्वाचं यदि जीवितुमिच्छसि ॥
वैशम्पायन उवाच ।

4.70.24

ततोऽब्रवीत्पुनः कङ्कः प्रहस्य कुरुवर्धनः ।
बृहन्नलाया सजेन्द्र धुष्यतां नगरे जयः ॥

4.70.25

उत्तरेण तु सारथ्यं कृतं नूनं भविष्यति । निमित्तं किञ्चिदुत्पन्नं तर्कश्चापि दृढो मम ।
यतो जानामि राजेन्द्र नान्यथा तद्भविष्यति ॥

4.70.26

कुरवोऽपि महावीर्या देवैरपि सुदुर्जयाः ।
ससोमवरुणादित्यैः सयक्षेशहुताशनैः ॥

4.70.27

यत्र शान्तनवो भीष्मो द्रोणकर्णौ सुदुर्जयौ ।
अश्वत्थामा विकर्णश्च सोमदत्तो जयद्रथः ॥

4.70.28

भूरिश्रवाः शलो भूरिर्जलसन्धिश्च वीर्यवान् ।
दुर्योधनो दुष्प्रसहो दुःशासनविविंशती ॥

4.70.29

वृषसेनोऽश्ववेगश्च वायुवेगसुवर्चसौ ।
बाह्लीकः शूरसेनश्च युयुत्सुश्च परन्तपः ॥

4.70.30

सौबलः शकुनिश्चैव द्युमत्सेनश्च साल्वराट् ।
अन्ये च बहवः शूरा नानाजनपदेश्वराः ॥

4.70.31

कृपेणाचार्यमुख्येन सहिताः कुरवो नृपाः । सञ्जकार्मुकनिस्त्रिंशा रथिनो रथयूथपाः ।
अन्ये चैव महावीर्या राजपुत्रा महारथाः ॥

4.70.32

मरुद्गणैः परिवृतः साक्षादपि पुरन्दरः ।
तद्बलं न जयेत्क्रुद्धो भीष्मद्रोणादिभिर्वृतम् ॥

4.70.33

कस्तद्बृहन्नलादन्यो मनुष्यः प्रतियोत्स्यति ।
यस्य बाहुबले तुल्यो न भविष्यति कश्चन ॥

4.70.34

अतीव समरं दृष्ट्वा हर्षो यस्याभिवर्धते ।
किमेवं पुरुषो लोको दिवि वा भुवि विद्यते ॥
वैशम्पायन उवाच ।

4.70.35

तेन सन्क्षुभितो राजा दीर्यमाणेन चेतसा ।
अब्रवीद्वचनं क्रूरमजानन्वै युधिष्ठिरम् ॥

4.70.36

कङ्ख मा ब्रूहि मे वाक्यं प्रतिकूलं द्विजोत्तम ।
बहुशः प्रतिषिद्धस्त्वं न च वाचं नियच्छसि ॥

4.70.37

नियन्ता चेन्न विद्येत न कश्चिद्धर्ममाचरेत् ।
इति प्रक्षुभितो राजा सोऽक्षेणाभ्यहनद्भृशम् ॥

4.70.38

तस्य तक्षकभोगाभं बाहुमुत्क्षिप्य दक्षिणम् ।
विराटः प्राहनत्क्रुद्धः कर्णमाश्रित्य दक्षिणम् ॥

4.70.39

मुखे युधिष्ठिरं कोपान्मैवमित्यवभर्त्सयन् ।
बलवत्प्रतिविद्धस्य नस्तः शोणितमास्रवत् ॥

4.70.40

अक्षेणाभिहतो राजा विराटेन युधिष्ठिरः ।
तूष्णीमासीन्महाबाहुः कृष्णां पश्यन्सुदुःखिताम् ॥

4.70.41

तस्य रक्तोत्पलनिभं शिरसः शोणितं तदा ।
प्रावर्तत महाबाहोरभिघातान्महात्मनः ॥

4.70.42

तदप्राप्तं महीं पार्थः पाणिभ्यां समधारयत् ।
अवैक्षत च धर्मात्मा द्रौपदीं पार्श्वतः स्थिताम् ॥

4.70.43

सा वेदनामभिज्ञाय भर्तुश्चित्तवशानुगा ।
सा विषण्णा च भीता च क्रुद्धा च द्रुपदात्मजा ॥

4.70.44

बाष्पं नियम्य कृच्छ्रेण भर्तुर्निःश्रेयसैषिणी ।
उत्तरीयेण सूक्ष्मेण तूर्णं जग्राह शोणितम् ॥

4.70.45

निगृह्य रक्तं वस्त्रेण सैरन्ध्री दुःखमोहिता । सौवर्णं गृह्य भृङ्गारं शोणितं तदपामृजत् ।
युधिष्ठिरस्य राजेन्द्र द्रुपदेन्द्रसुता तदा ॥
विराट उवाच ।

4.70.46

सैरन्ध्रि किमिदं रक्तमुत्तरीयेण गृह्यते ।
कोत्र हेतुर्विशालाक्षि तन्मप्राचक्ष्व तत्वतः ॥
सैरन्ध्र्युवाच ।

4.70.47

रक्तबिन्दनि यावन्ति कङ्कस्य धरणीतले ।
तावद्वर्षाणि राष्ट्रे ते अनावृष्टिर्भविष्यति ॥

4.70.48

एतन्निमित्तं मात्स्येन्द्र कङ्कस्य रुधिरं मया ।
गृहीतमुत्तरीयेण विनाशो मा भवेत्तव ॥

4.70.49

यतीशं यो विहन्येत तस्यायुर्विनशिष्यति ।
यो यतीशं नियम्येत सहस्रं यातना यमे ॥

4.70.50

यतौ रक्तं दर्शयति यावत्पांसुरगृह्यत ।
तावन्तः पितृलोकस्थाः पितरः प्रपतन्त्यधः ॥

4.70.51

इति ज्ञात्वा विराटेन्द्र धृतं रक्तं च वाससा ।
मया तव हितार्थाय त्वयि प्रणयकारणात् ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc