भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 4.69

4.69.1

स विजित्य धनं चापि विराटो वाहिनीपतिः ।
प्राविशन्नगरं हृष्टश्चतुर्भिः सह पाण्डवैः ॥

4.69.2

जित्वा त्रिगर्तान्सन्ग्रामे गाश्चैवानाय्य केवलाः ।
अशोभत महाराजः सह पार्थैः श्रिया वृतः ॥

4.69.3

तमासनगत वीरं सुहृदां प्रीतिवर्धनम् ।
तपतस्थुः प्रकृतयः समन्ताद्ब्राह्मणैः सह ॥

4.69.4

सभाजितः सभासद्भिः प्रतिनन्द्य स मत्स्यराट् ।
विसर्जयामास तदा द्विजांश्च प्रकृतीस्तथा ॥

4.69.5

ततः स राजा मात्स्यानां विराटो वाहिनीपतिः । प्रविश्यान्तःपुरं रम्यं स्त्रीशतैरुपशोभितम् ।
उत्तरं तत्र नापश्यत्क्व यात इति चाब्रवीत् ॥

4.69.6

आचख्युस्तत्र संहृष्टाः स्त्रियः कन्याश्च वेश्मनि ।
अन्तःपुरचराश्चैव कुरुभिर्गोधनं हृतम् ॥

4.69.7

ताञ्जेतुमभिसंरब्ध एक एवातिसाहसात् ।
बृहन्नलासहायश्च निर्यातः पृथिवीञ्जयः ॥

4.69.8

उपयातानतिरथान्द्रोणं शान्तनवं कृपम् ।
कर्णं दुर्योधनं चैव द्रोणपुत्रं च षड्रथान् ॥

4.69.9

ततो विराटः परमाभितप्तः पुत्रं निशम्यैकरथेन यातम् ।
बृहन्नलासारथिमाजिमर्दनं प्रोवाच सर्वानथ मन्त्रिमुख्यान् ॥

4.69.10

गवां शतसहस्राणि उभिभूय ममात्मजम् ।
कुस्वः कालयन्ति स्म सर्वे युद्धविशारदाः ॥

4.69.11

तस्माद्गच्छतु मे योधा बलेन महता वृताः ।
उत्तरस्य परीप्सार्थं ये त्रिगर्तैरविक्षताः ॥
वैशम्पायन उवाच ।

4.69.12

हयांश्च नागांश्च रथांश्च शीघ्रं वादित्रसङ्घांश्च ततः प्रभूतान् ।
प्रस्थापयामास सुतस्य हेतो- र्विचित्रचित्राभरणोपपन्नान् ॥

4.69.13

एवं स राजा मात्स्यानां महानक्षोहिणीपतिः ।
व्यादिदेशाथ स क्षिप्रं वाहिनीं चतुरङ्गिणीम् ॥

4.69.14

कुमारमाशु जानीत यदि जीवति वा नवा ।
यस्य यन्ता गतः षण्डो मन्येऽहं स न जीवति ॥

4.69.15

तमब्रवीद्धर्मसुतो विराट- मार्तं विदित्वा कुरुभिः प्रतप्तम् ।
बृहन्नला सारथिश्चेन्नरेन्द्र परे न नेष्यन्ति तवाद्य गाश्च ॥

4.69.16

सर्वान्महीपान्सहितान्कुरूंश्च तथैव देवासुरनागयक्षान् ।
अलं विजेतुं समरे सुतस्ते अनुष्ठितः सारथिना हि तेन ॥

4.69.17

सर्वथा कुरवश्चापि ये चान्ये वसुधाधिपाः ।
त्रिगर्तान्निर्जिताञ्श्रुत्वा न स्थास्यन्ति कथञ्चन ॥
वैशम्पायन उवाच ।

4.69.18

अथोत्तरेण प्रहिता दूतास्ते शीघ्रगामिनः ।
विराटनगरं प्राप्य जयं प्रावेदयंस्तदा ॥

4.69.19

राजानं वृतमाचख्युर्मन्त्रिभिर्जयमुत्तमम् ।
पराजयं कुरूणां च उपायान्तं तथोत्तरम् ॥

4.69.20

सर्वा विनिर्जिता गावः कुरवश्च पराजिताः ।
उत्तरः सह सूतेन कुशली च परन्तपः ॥
कङ्क उवाच ।

4.69.21

दिष्ट्या ते निर्जिता गावः कुरवश्च पराजिताः ।
दिष्ट्या ते विजयी पुत्रः श्रूयते पार्थिवर्षभः ॥

4.69.22

नाद्भुतं त्विह मन्येऽहं यत्ते पुत्रोऽजयत्कुरून् ।
ध्रुव एव जयस्तस्य यस्य यन्ता बृहन्नला ॥

4.69.23

देवेन्द्रसारथिश्चैव मातलिः ख्यातविक्रमः ।
कृष्णस्य सारथिश्चैव न बृहन्नलया समौ ॥
वैशम्पायन उवाच ।

4.69.24

ततो विराटो नृपतिः सम्प्रहृष्टतनूरुह । श्रुत्वा तु विजयं तस्य कुमारस्यामितौजसः ।
सन्तोषयित्वा दूतांस्तान्धनरत्नैश्च सर्वशः ॥

4.69.25

गते त्वनुजने तस्मिन्दूतवाक्यं निशम्य च ।
उत्तरस्य जयात्प्रीतो विराटः प्रत्यभाषत ॥

4.69.26

राजमार्गाः क्रियन्तां वै पताकाभिरलन्कृताः ।
पुष्पोपहारैरर्च्यतां देवताश्चापि सर्वशः ॥

4.69.27

कुमारा योधमुख्याश्च गणिकाश्च स्वलन्कृताः ।
वादित्राणि च सर्वाणि प्रत्युद्यान्तु सुतं मम ॥

4.69.28

भवन्तु ते लब्धजये सुते मे पौराश्च मर्त्याश्च परे च नार्यः ।
ते शुक्लवस्त्राः प्रभवन्तु मार्गे सुगन्धमाल्याभरणाश्च नार्यः ॥

4.69.29

भजन्तु सर्वा गणिकाः सुतं मे नार्यश्च कन्याः सहसैनिकाश्च ।
स्वलन्कृतास्ताः सुभगाः सुवेषाः पुत्रस्य पन्थानमनुव्रजन्तु ॥

4.69.30

घण्टापणवकाः शीघ्रं मत्तमारुह्य कुञ्जरम् ।
शृङ्गाटकेषु सर्वेषु समाख्यान्तु जयं मम् ॥

4.69.31

उत्तरा च कुमारीभिर्बह्वाभरणभूषिता ।
सखीं विजितसन्ग्रामां प्रत्युद्यातु बृहन्नलाम् ॥

4.69.32

श्रुत्वा तु वचनं तस्य पार्थिवस्य महात्मन ।
तथैव चक्रुः संहृष्टाः पौराः स्वस्तिकपाणयः ॥

4.69.33

मूताश्च सर्वे सहमागधाश्च हृष्टा विराटस्य पुरे जनौघाः ।
भेर्यश्च तूर्याणि च वारिजाश्च वेपैः परार्ध्यैः प्रमदाजनाश्च ॥

4.69.34

वन्दिप्रवादाः पणवादिकाश्च तथैव वाद्यानि च वंशशब्दाः ।
कांस्यं सतालं मधुरं च गीत- मादाय नार्यो नगरान्निरीयुः ॥

4.69.35

प्रत्युद्ययुः पुत्रमनन्तवीर्यं ते ब्राह्मणाः शान्तिपराः प्रधानाः ।
स्वाध्यायवेदाध्ययनक्रमज्ञाः स्वस्तिक्रियागीतजपप्रधानाः ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc