भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 4.71

4.71.1

युद्धं तु मानुषं द्रष्टुमागतास्त्रिदशाः पुरा ।
किमकुर्वन्त ते पश्चात्कथयस्व ममानघ ॥
वैशम्पायन उवाच ।

4.71.2

वासवप्रमुखाः सर्वे देवाः सर्षिपुरोगमाः ।
यक्षगन्धर्वसङ्घाश्च गणा अप्सरसां तथा ॥

4.71.3

युद्धं तु मानुषं दृष्ट्वा कुरूणां फल्गुनस्य च ।
एकस्य च बहूनां च रौद्रमत्युग्रदर्शनम् ॥

4.71.4

अस्त्राणामथ दिव्यानां प्रयोगानथ सन्ग्रहान् ।
लघु सुष्ठु च चित्रं च कृतीनां च प्रयत्नतः ॥

4.71.5

भीष्मं शारद्वतं द्रोणं कर्णं गाण्डीवधन्वना ।
जितानन्यान्भूमिपालान्दृष्ट्वा जग्मुर्दिवौकसः ॥

4.71.6

सर्वे ते परितुष्टाश्च प्रशस्य च मुहुर्मुहुः । असङ्गतिना तेन विमानेनाशुगामिना ।
प्रतिजग्मुरसङ्गास्ते त्रिदिवं च दिवौकसः ॥

4.71.7

[*कुरवो निर्जिताः सर्वे भीष्मद्रोणकृपादयः । अजय्यास्त्रिदशैः सर्वैः सेन्द्रैः सर्वैः सुरासुरैः ।
पार्थेनैकेन सन्ग्रामे विस्मयो नो महानहो ॥

4.71.8

कस्मिन्मुहूर्ते सञ्जातः कस्य धर्मस्य वा फलम् ॥

4.71.9

किमाश्चर्यं फल्गुनेऽस्मिन्यो रुद्रेण न्ययोधयत् ।
निवातकवचानाजौ यस्त्रिंशत्कोटिसम्मितान् ॥

4.71.10

तस्य चैतत्किमाश्चर्यं स्तुवन्त इति ते सुराः . जग्मुः सुरालयं हृष्टा विस्मयाविष्टचेतसः ॥ ]

4.71.11

कुरवोऽर्जुनबाणैश्च ताडिताः शरविक्षताः ।
कुरूनभिमुखां याताः समग्रबलवाहनाः ॥

4.71.12

विराटनगराच्चैव गजाश्वरथसन्कुलाः ।
योधैः क्षत्रियदायादैर्बलवद्भिरधिष्ठिताः ॥

4.71.13

विराटप्रहिता सेना नगराच्छीघ्रयायिनी ।
उत्तरं सह सूतेन प्रत्ययात्तमरिन्दमम् ॥

4.71.14

तस्मिंस्तूर्यशताकीर्णे हस्त्यश्चरथसन्कुले ।
प्रहर्षः स्त्रीकुमाराणां तुमुलः समपद्यत ॥

4.71.15

अर्जुनस्तु ततो दृष्ट्वा सैन्यरेणुं समुत्थितम् ।
सैन्यध्वजं निशम्याथ वैराटिं समभाषत ॥

4.71.16

नगरे तुमुलः शब्दो रेणुश्चाक्रमते नभः ।
किन्नु खल्वपयातास्ते कुरवो नगरं गताः ॥

4.71.17

ते चैव निर्जिताऽस्माभिर्महेष्वासाः सुतेजसः . आमुञ्च कवचं वीर चोदयस्व च वाजिनः ।
जवेनाभिप्रपद्यस्व विराटनगरं प्रति ॥

4.71.18

न तावत्तलनिर्घोषं गाण्डीवस्य च निस्वनम् ।
ध्वजं वा दर्शयिष्यामि अथवा स्वजनो भवेत् ॥
उत्तर उवाच ।

4.71.19

सेनाग्रमेतन्मात्स्यानां गणिकाश्च स्वलन्कृताः ।
कन्या रथेषु दृश्यन्ते योधा विविधवाससः ॥

4.71.20

उत्तरामत्र पश्यामि सखीभिः परिवारिताम् ।
अनीकिन्यः प्रदृश्यन्ते हस्तिनोश्वाश्च वर्मिताः ॥

4.71.21

रथिनश्च पदाताश्च बहवो न च शस्त्रिणः । विराटवचनात्सर्वे संहृष्टाः प्रतिभान्ति मे ।
न च मेऽत्र प्रतीघातश्चित्तस्य स्वजने यथा ॥
वैशम्पायन उवाच ।

4.71.22

ततः शीघ्रं समासाद्य उत्तरं स्वजनो बहु ।
परस्परममित्रघ्नं सस्वजे तं समागतम् ॥
जना ऊचुः ।

4.71.23

प्रीतिमान्पुरुषव्याघ्रो हर्षयुक्तः पुनः पुनः . दिष्ट्या जयसि भद्रं ते दिष्ट्या सूतो बृहन्नलाः ।
दिष्ट्या सन्ग्राममागम्य भयं तव न किञ्चन ॥
उत्तर उवाच ।

4.71.24

अजैषीदेष जाञ्जिष्णुः कुरूनेकरथो रणे । एतस्यक बाहुवीर्यं तद्येन गावो जिता मया ।
कुरवो निर्जिता यस्मात्सग्रामेऽमिततेजसः ॥

4.71.25

अकार्षीदेष तत्कर्म देवपुत्रोपमो युवा । एष तत्पुरुषव्याघ्रो विक्षोभ्य कुरुमण्डलम् ।
गावः प्रसह्य विजिता रणे मां चाभ्यपालयत् ॥
वैशम्पायन उवाच ।

4.71.26

उत्तरस्य वचः श्रुत्वा शंसमानस्य चार्जुनम् ।
चोदिता राजपुत्रेण जयं मङ्गलवादिनः ॥

4.71.27

ततो गन्धैश्च माल्यैश्च धूपैश्च वसुसम्भृतैः ।
कन्याः पार्थममित्रघ्नं किरन्त्यः समपूजयन् ॥

4.71.28

आपूर्यमाणो माल्यैश्च गन्धैश्च विविधैः शुभैः ।
सम्पूज्यमानो लोकेन नगरद्वारमागमत् ॥

4.71.29

भेर्यश्च तूर्याणि च वेणवश्च विचित्रवेषाः प्रमदाजनाश्च ।
पुरो विराटस्य महाबलस्य निष्क्रम्य भूमिञ्जयमभ्यनन्दनम् ॥

4.71.30

प्रशस्यमानस्तु जयेन तत्र पुत्रो विराटस्य न हृष्यति स्म ।
सम्भाष्यमाणस्तु जयेन तत्र सोऽन्तर्मनाः पाण्डवमीक्षमाणः ॥

4.71.31

पुत्र्यै विराटस्य ततो वराणि वस्त्राण्यदात्पाण्डुसुतः सखीभ्यः ।
सभाजयंश्चापि समागतास्ता दृष्ट्वा जयं तच्च बलं कुमार्यः ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc