भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 4.43

4.43.1

एतस्मिन्नन्तरे पार्थं न मूढात्मा व्यजानत ।
विराटपुत्रः प्रभुखे पप्रच्छ पुनरेव तम् ॥

4.43.2

सुवर्णरुचिराण्येषामायुधानि महात्मनाम् ।
रुचिराणि प्रकाशन्ते पार्थानामाशुकारिणाम् ॥

4.43.3

क्वनु ते पाण्डवाः शूराः सन्ग्रामेष्वपराजिताः । येषामिमानि दीप्तानि श्रिया दीप्यन्ति भान्ति च ।

4.43.4

कस्मिन्वसन्ति देशे च धर्मज्ञा बन्धुवत्सलाः ।
क्व धर्मराजः कौन्तेयो धर्मपुत्रो युधिष्ठिरः ॥

4.43.5

धर्मशीलश्च धर्मात्मा धर्मवान्धर्मवित्सुधीः ।
धर्माध्यक्षो धर्मपुत्रो धर्मज्ञो धर्ममूर्तिमान् ॥

4.43.6

धर्मनिष्ठो धर्मकर्ता धर्मगोप्ता सुधर्मकृत् ।
सत्यार्जवक्षमाधारो घृणी धर्मपरायणः ॥

4.43.7

भीमसेनार्जुनौ चापि सर्वे ते मातुला मम ।
नकुलः सहदेवो वा सर्वास्त्रकुशलौ रणे ॥

4.43.8

सर्व एव महात्मानः सर्वामित्रविनाशनाः ।
राज्यमक्षैः पराजित्य नः श्रूयन्ते वनं गताः ॥

4.43.9

द्रौपदी चापि पाञ्चाली स्त्रीरत्नमिति मे श्रुता ।
जिता चाक्षैस्तदा कृष्णा तानेवान्वगमद्वने ॥

4.43.10

उत्सृज्य राज्यं धर्म्यं ते नः श्रूयन्ते वनं गताः ॥

4.43.11

पाण्डवान्यदि जानीषे क्वनु ते धर्मचारिणः ।
क्वनु वा निवसन्तीति सत्यं ब्रूहि बृहन्नले ॥

4.43.12

किमर्थमागतान्यत्र शस्त्रास्त्राणि महात्मनाम् ।
कथं ज्ञातानि भवता तथा मे ब्रूहि शोभने ॥
वैशम्पायन उवाच ।

4.43.13

ततः प्रहस्य बीभत्सुः कौन्तेयः श्वेतवाहनः ।
उवाच राजपुत्रं तमुत्तरं शृणु मे वचः ॥

4.43.14

मा भैस्त्वं राजशार्दूल सर्वं ते वर्णयाम्यहम् ।
नात्र भेतव्यमद्यापि राजपुत्र यथातथा ॥

4.43.15

वयं ते पाण्डवा नाम वनवासस्य पारगाः । अतीते द्वादशे वर्षे च्छन्नवासमिहोषिताः ।
तस्मादशङ्कितमनाः शृणुष्वावहितोत्तर ॥

4.43.16

अहमस्म्यर्जुनो नाम कङ्को नाम युधिष्ठिरः । भीमसेनस्तु वललः पितुस्ते रसपाचकः ।
अश्वबन्धस्तु नकुलः सहदेवस्तु गोपतिः ॥

4.43.17

सैरन्ध्रीं द्रौपदीं विद्धि यदर्थे कीचको हतः ।
भीमसेनेन दुर्वृत्तः सहभ्रातृभिराहवे ॥

4.43.18

श्रुत्वैतद्वचनं जिष्णोर्विस्मयस्फारितेक्षणः ।
पश्यन्ननिमिषः पार्थं शनैर्वाचमुवाच ह ॥
उत्तर उवाच ।

4.43.19

दश पार्थस्य नामानि श्रूयन्ते मे कथासु च ।
प्रब्रूयास्तानि यदि मे श्रद्दध्यां सर्वमेव ते ॥
अर्जुन उवाच ।

4.43.20

अहं तर्हि तवाचक्षे दश नामानि तानि मे । वैराटे शृणु तानि त्वं यानि पूर्वं श्रुतानि ते ।
ईशानो विदधे देवस्त्रिदिवस्येश्वरो दिवि ॥

4.43.21

अर्जुनः फल्गुनो जिष्णुः किरीटी श्वेतवाहनः । बीभत्सुर्विजयः पार्थः सव्यसाची धनञ्जयः ।
एतानि मम नामानि स्थापितानि सुरोत्तमैः ॥
उत्तर उवाच ।

4.43.22

गुणतो दश नामानि समवेतानि पाण्डवे ।
चरन्ति लोके ख्यातानि विदितानि ममावघ ॥

4.43.23

केनासि विजयो नाम केनासि श्वेतवाहनः ।
सव्यसाची च केनासि जिष्णुर्बीभत्सुरेव च ॥

4.43.24

अर्जुनः फल्गुनः पार्थः किरीटी केन सारथे ।
धनञ्जयश्च केनासि शीघ्रं वद बृहन्नले ॥

4.43.25

श्रुता मे तस्य वीरस्य केवला नामहेतवः । इतस्ततश्चलत्येतन्मनो मे चञ्चलं त्वयि ।
अर्जुनो वा भवान्नेति वद शीघ्रं बृहन्नले ॥
अर्जुन उवाच ।

4.43.26

सर्वाञ्जित्वा जनपदान्धनं चाच्छिद्य सर्वशः ।
मध्ये धनस्य तिष्ठन्तं तन्मामाहुर्धनञ्जयम् ॥

4.43.27

अभिप्रयामि सन्ग्रामे यदाऽहं युद्धदुर्मदान् ।
अजित्वा न निविर्तेयं तेन वै विजयं विदुः ॥

4.43.28

श्वेताः काञ्चनसन्नाहा रथे युज्यन्ति मे हयाः ।
शत्रुभिर्युध्यमानस्य तेनाहं श्वेतवाहनः ॥

4.43.29

किरीटं सूर्यसन्काशं भ्राजते मे शिरोगतम् ।
रणमध्ये रथस्थस्य सूर्यपावकसन्निभम् ॥

4.43.30

अच्छेद्यं रुचिरं चित्रं जाम्बूनदपरिष्कृतम् ।
इन्द्रदत्तमनाहार्यं तेनाहुर्मां किरीटिनम् ॥

4.43.31

न कुर्यां कर्म बीभत्सं युध्यमानः कदाचन ।
तेन देवमनुष्येषु बीभत्सुरिति मां विदुः ॥

4.43.32

उभौ मे तुल्यकर्माणौ गाण्डीवस्य विकर्षणे । भुजौ मे भवतः सङ्ख्ये परसैन्यविनाशिनौ ।
तयोः सव्योऽधिकस्तस्मात्सव्यसाचीति मां विदुः ॥

4.43.33

पृथिव्यां सागरान्तायां वर्णो मे दुर्लभः समः ।
शुद्धत्वाद्रुपवत्त्वाच्च तेन मामार्जुनं विदुः ॥

4.43.34

उत्तराभ्यां तु पूर्वाभ्यां फल्गुनीभ्यामहं दिवा ।
जातो हिमवतः पृष्ठे तेन मां फल्गुनं विदुः ॥

4.43.35

यो ममाङ्गे व्रणं कुर्याद्धातुर्ज्येष्ठस्य पश्यतः । युधिष्ठिरस्य रुधिरं दर्शयेद्वा कदाचन ।
पराभवमहं तस्य कुले कुर्यां न संशयः ॥

4.43.36

योत्स्यामि तैरहं सर्वैर्न मे तेभ्यः पराभवः ।
तेन देवमनुष्येषु जिष्णुर्नामास्मि विश्रुतः ॥

4.43.37

माता मम पृथा नाम तेन मां पार्थमब्रुवन् ॥

4.43.38

देवदानवगन्धर्वपिशाचोरगराक्षसान् ।
अहं पुरा रणे जित्वा खाण्डवेऽग्निमतर्पयम् ॥

4.43.39

हुताशनं तर्पयित्वा सहितः शार्ङ्गधन्वना ।
[ त्रिविष्टपगतौ* दृष्ट्वा पितामहमहेश्वरौ ॥

4.43.40

मूर्च्छया पतितं भूमावागतौ देवसत्तमौ ।
दृष्ट्वा तौ वरदौ देवौ सञ्ज्ञां लब्ध्वोत्थितः पुनः ॥

4.43.41

मूर्ध्ना हि प्रणतं भूमौ तौ देवौ वरदौ वरौ । कृष्णेत्येकादशं नाम प्रीत्या मे चक्रतुस्तदा ।
तुष्टौ च मम वीर्येण कर्मणा चाभिराधितौ ॥

4.43.42

सर्वदेवैः परिवृतौ भूयो मां स्वयमूचतुः ।
वरं तात वृणीष्वेति यं प्रार्थयसि पाण्डव ॥

4.43.43

ततोऽहमस्त्राण्यलभं दिव्यानि च दृढानि च । ब्राह्मं पाशुपतं चैव स्थूणाकर्णं च दुर्जयम् ।
ऐन्द्रं वारुणमाग्नेयं वायव्यमथ वैष्णवम् ॥

4.43.44

ततोऽहमजयं भूयो रथेनैन्द्रेण दुर्जयान् । मातलिं सारथिं कृत्वा निवातकवचान्रणे ।
अवध्यकवचान्न्देवैर्वरदृप्तान्महासुरान् ॥

4.43.45

तिस्रः कोटीर्दानवानां संयुगेष्वनिवर्तिनाम् ।
एको निर्जित्य सन्ग्रामे भूयो देवानतोषयम् ॥

4.43.46

ततो मे भगवानिन्द्रः किरीटमददात्स्वयम् ।
देवाश्च शङ्खमददुः शत्रुसैन्यनिवारणम् ॥

4.43.47

अहं पारे समुद्रस्य हिरण्यपुरवासिनाम् ।
हत्वा षष्टिं सहस्राणि जयं सम्प्राप्तवान्रणे ॥

4.43.48

असम्भ्रान्तो रथे तिष्ठन्सहस्रेषु शतेषु च ।
शत्रुमध्ये दुराधर्षो न मुह्यन्ति च मे दिशः ॥

4.43.49

अहं गन्धर्वराजेन ह्रियमाणं सुयोधनम् । भ्रातृभिः सहितं तात गन्धर्वैः समरे जितम् ।
चतुर्दश सहस्राणि हत्वा चैनममोचयम् ॥

4.43.50

एतानि मम नामानि योऽहन्यहनि कीर्तयेत् ।
तं न पश्यन्ति सत्त्वानि न तं निघ्नन्ति शत्रवः ॥

4.43.51

अद्य पश्य महाबाहो मम वीर्यं सुदुःसहम् ।
मा भैर्विगतसन्त्रासः कुरूनेतान्समागतान् ॥

4.43.52

सुयोधनस्य मिषतः कर्णस्य च कृपस्य च । पितामहस्य भीष्मस्य द्रौणेर्द्रोणस्य च स्वयम् ।
सर्वानेव कुरूञ्जित्वा प्रत्यानेष्यामि ते पशूऩ्] ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc