भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 4.44

4.44.1

ततः पार्थं स वैराटिः प्राञ्जलिस्त्वभ्यवादयत् ।
अहं भूमिञ्जयो नाम प्रणतोस्मि धनञ्जय ॥

4.44.2

दिष्ट्या त्वां पार्थ पश्यामि स्वागतं ते धनञ्जय ।
लोहिताक्ष महाबाहो नागराजवरोपम ॥

4.44.3

यदज्ञानादवोचं त्वां प्रमादेन नरोत्तम ।
अकृत्वा हृदये सर्वं क्षन्तुमर्हसि तन्मम ॥

4.44.4

यतस्त्वया कृतं पूर्वं चित्रं कर्म सुदुष्करम् ।
अतो भयं व्यपेतं मे प्रीतिश्च परमा त्वयि ॥

4.44.5

दासोऽहं ते भविष्यामि पश्य मामनुकम्पया ॥

4.44.6

या प्रतिज्ञा कृता पूर्वं तव सारथ्यकारणात् ।
सेयं प्रतिज्ञा पूर्णा मे हर्षश्चार्जुन जायते ॥

4.44.7

देवेन्द्रतनयस्येह सारथिः स्यां महामृधे ।
इति पूर्वं कृताऽस्माभिः प्रतिज्ञा युद्धदुर्मद ॥

4.44.8

प्रतिज्ञा मम सम्पूर्णा तव सारथ्यकारणात् ।
मनस्स्वास्थ्यं च मे जातं जातं भाग्यं च मे महत् ॥

4.44.9

आस्थाय विपुलं वीर रथं सारथिना मया ।
दुर्योधनं च जित्वाऽजौ निवर्तय पशून्मम ॥
अर्जुन उवाच ।

4.44.10

प्रीतोस्मि राजपुत्राद्य न भयं विद्यते तव ।
सर्वान्नुदामि ते शत्रून्रणे रणविशारद ॥

4.44.11

स्वस्थो भव महान्युद्धे पश्य मां शत्रुभिः सह ।
युध्यमानं विमर्देऽस्मिन्कुर्वाणं भैरवं रवम् ॥

4.44.12

गाण्डीवं देवदत्तं च शरान्कनकभूषणान् । एतान्सर्वानुपासङ्गान्क्षिप्रं बध्नीहि मे रथे ।
एकं चाहर निस्त्रिंशं जातरूपपरिष्कृतम् ॥

4.44.13

अहं वै कुरुभिर्योत्स्ये मोक्षयिष्यामि ते पशून् ।
तोषयिष्यामि राजानं प्रवेक्ष्यामि पुरं पुनः ॥

4.44.14

सन्कल्पागाधपरिधं बाहुप्राकारतोरणम् ।
त्रिदण्डतूणसम्बाधं नैकध्वजसमाकुलम् ॥

4.44.15

ज्याक्षेपनिनदारावं नेमीनिनददुन्दुभिः . शरजालवितानाढ्यमाक्ष्वेडितमहास्वनम् ।
नगरं ते मया गुप्तं रथोपस्थं भविष्यति ॥

4.44.16

अधिष्ठितो मया सङ्ख्ये रथो गाण्डीवधन्विना ।
अजय्यः शत्रुसैन्यानां वैराटे व्येतु ते भयम् ॥
उत्तर उवाच ।

4.44.17

बहुना किं प्रलापेन शृणु मे परमं वचः ।
नाहं बिभेमि कौन्तेय साक्षादपि शतक्रतोः ॥

4.44.18

यमवायुकुबेरेभ्यो द्रोणभीष्मशतादपि . बिभेमि नाहमेतेभ्यो जानामि त्वां स्थिरं युधि ।
केशवेनापि सन्ग्रामे साक्षादिन्द्रेण वा समम् ॥

4.44.19

इदं तु चिन्तयन्नेव परिमुह्यामि केवलम् ।
निश्चयं नाधिगच्छामि नावगच्छामि किञ्चन ॥

4.44.20

एवं वराङ्गरूपस्य लक्षणैः सूचितस्य च ।
केन कर्मविपाकेन क्लीबत्वं त्वामुपागतम् ॥

4.44.21

मन्ये त्वां क्लीबरूपेण चरन्तं शूलपाणिनम् ।
गन्धर्वराजप्रतिमं देवं वाऽपि शतक्रतुम् ॥
अर्जुन उवाच ।

4.44.22

भ्रातुर्नियोगाञ्ज्येष्ठस्य संवत्सरमिदं व्रतम् ।
चरामि ब्रह्मचर्यं वै सत्यमेतद्ब्रवीमि ते ॥

4.44.23

नास्मि क्लीबो महाबाहो परवान्धर्मसंयुतः ।
उर्वशीशापसम्भूतं क्लैब्यं समुपसंस्थितम् ॥

4.44.24

पुराऽहमाज्ञया भ्रातुर्ज्येष्ठस्यास्मि सुरालयम् ।
प्राप्तवानुर्वशी दृष्टा सुधर्मायां मया तदा ॥

4.44.25

नृत्यन्तीं परमं रूपं बिभ्रतीं वज्रिसन्निधौ ।
अपश्यं तामनिमिषं कूटस्थामन्वयस्य मे ॥

4.44.26

रात्रौ समागता मह्यं शयनं रन्तुमिच्छया ।
अहं तामभिवाद्यैव मातृसत्कारमाचरम् ॥

4.44.27

सा च मामशपत्क्रुद्धा शिखण्डी त्वं भवेति वै ।
श्रुत्वा तमिन्द्रो मामाह मा भैस्त्वं पार्थ षण्डता ॥

4.44.28

उपकारो भवेत्तुभ्यमज्ञातवसतौ पुरा ।
इतीन्द्रो मामनुग्राह्य ततः प्रेषितवान्वृषा ॥

4.44.29

तदिदं समनुप्राप्तं व्रतं चीर्णं मयाऽनघ ।
समाप्तव्रतमुत्तीर्णं विद्धि मां त्वं नृपात्मज ॥
उत्तर उवाच ।

4.44.30

परमोऽनुग्रहो मेऽद्य यत्प्रतर्को न मे वृथा ।
न हीदृशाः क्लीबरूपा भवन्ति तु नरोत्तमाः ॥

4.44.31

सहायवानस्मि रणे युद्ध्येयममरैरपि ।
साध्वसं तत्प्रनष्टं मे किं करोमि ब्रवीहि मे ॥

4.44.32

अहं ते सन्ग्रहीष्यामि हयाञ्शत्रुनिर्बहण ।
शिक्षितो ह्यस्मि सारथ्ये निष्ठितः पुरुषर्षभ ॥

4.44.33

दारुको वासुदेवस्य यथा शक्रस्य मातलिः ।
तथा मां विद्धि सारथ्ये शिक्षितं नरपुङ्गव ॥

4.44.34

अश्वा ह्येते महाबाहो तवैवाहवदुर्जयाः ।
योग्या रथवरे युक्ताः प्राणवन्तो जितश्रमाः ॥

4.44.35

यस्य यातेन पश्यन्ति भूमौ क्षिप्तं पदम्पदम् ।
दक्षिणां यो धुरं वोढा सुग्रीवोण समो हयः ॥

4.44.36

योऽयं हयो धुर्यवरो वामां वहति शोभनः ।
तं मन्ये मेघपुष्पस्य जवेन सदृशं हयम् ॥

4.44.37

योऽयं वहति वै पार्ष्णिं दक्षिणामञ्चितोद्यतः ।
वलाहकादभिमतस्तेजसा वीर्यवत्तरः ॥

4.44.38

योऽयं काञ्चनसन्नाहो वामं वहति शोभनः ।
धुर्यं शैब्यस्य तं मन्ये जवेन बलवत्तरम् ॥

4.44.39

त्वामेवायं रथो वोढुं सन्ग्रामेऽर्हति धन्विनम् . त्वं चे ॥ रथमास्थाय योद्धुमर्हो मतो मम ।
शर्वशत्रुभिरायातो देवराज इवासुरैः ॥
वैशम्पायन उवाच ।

4.44.40

ततो रथादवस्कन्द्य वीर्यवानरिमर्दनः ।
प्रणम्य देवान्गाण्डीवमादाय रुरुचे श्रिया ॥

4.44.41

ततो विमुच्य बाहुभ्यां सङ्खचूडानि पाण्डवः ।
तौ च दुन्दुभिसन्नादौ प्रतिबद्ध्य तलावुभौ ॥

4.44.42

इन्द्रदत्ते च ते दिव्ये उद्धृत्यामुच्य कुण्डले ।
श्लक्ष्णान्केशान्मृदून्स्निग्धाञ्श्वेतेनोद्ग्रथ्य वाससा ॥

4.44.43

अथासौ प्राङ्मुखो भूत्वा शुचिः प्रयतमानसः ।
अभिदध्यौ महाबाहुः सर्वास्त्राणि रथोत्तमे ॥

4.44.44

ऊचुश्च पार्थं सर्वाणि प्राञ्जलीनि नृपात्मजम् ।
इमानि स्मो महोदार किङ्कराणीन्द्रनन्दन ॥

4.44.45

प्रणिपत्य ततः पार्थः समालभ्य च पाणिना ।
सर्वाणि मानसानीह भवतेत्यभ्यभाषत ॥

4.44.46

प्रतिगृह्य ततोऽस्त्राणि प्रह्लष्टवदनोऽभवत् ।
अधिज्यं तरसा कृत्वा गाण्डीवं व्याक्षिपद्धनुः ॥

4.44.47

तस्य विक्षिप्यमाणस्य धनुषोऽभून्महास्वनः ।
यथा शैलस्य महतः शैलानाक्षिप्य जघ्रुषः ॥

4.44.48

सनिर्घाताऽभवद्भूमिर्दिक्षु वायुर्ववौ भृशम् ।
भ्रान्तद्विजं खमभवत्प्राकम्पन्त महाद्रुमाः ॥

4.44.49

तं शब्दं कुरवो राजन्विस्फोटमशनेरिव ।
तार्क्ष्यं शब्दमिव श्रुत्वा वित्रेसुर्दीनमानसाः ॥

4.44.50

यथेन्द्रो व्याक्षिपद्भीमं विस्फोटमशनेर्भुवि ।
तथाऽर्जुनो धनुःश्रेष्ठं बाहुभ्यामाक्षिपद्बली ॥

4.44.51

महाशनिमहाशब्दसदृशो ज्यास्वनो महान् ।
शत्रून्वीरांश्च सन्तर्ज्य निग्रहस्थो रथे स्थितः ॥
उत्तर उवाच ।

4.44.52

एकस्त्वं पाण्डवश्रेष्ठ बहूनोतान्महारथान् ।
कथं जेष्यसि सन्ग्रामे सर्वशस्त्रास्त्रपारगान् ॥

4.44.53

असहायो.सि कोन्तेय ससहायाश्च कौरवाः ।
अत एव महाबाहो भीतस्तिष्ठामि तेऽग्रतः ॥
वैशम्पायन उवाच ।

4.44.54

उवाच पार्थो मा भैषीः प्रहस्य स्वनवत्तदा ॥

4.44.55

युध्यमानस्य मे वीर गन्धर्वैः सुमहाबलैः ।
सहायो घोषयात्रायां कस्तदासीत्सखा मम ॥

4.44.56

तथा प्रतिभये तस्मिन्देवदानवसन्कुले ।
खाण्डवे युध्यमानस्य कस्तदासीत्सखा मम ॥

4.44.57

निवातकवचैः सार्धं पौलोमैश्च महाबलैः ।
युध्यतो देवराजार्थे कः सहायस्तदाऽभवत् ॥

4.44.58

स्वयंवरे तु पाञ्चाल्या राजभिः सह संयुगे ।
युध्यतो बहुभिस्तात कः सहायस्तदाऽभवत् ॥

4.44.59

उपजीव्य गुरुं द्रोणं शुक्रं वैश्रवणं यमम् । वरुणं पावकं चैव कृपं कृष्णं च माधवम् ।
पिनाकपाणिनं चैव कथमेतान्न योधये ॥

4.44.60

रथं वाहय मे शीघ्रं व्येतु ते मानसो ज्वरः ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc