भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 4.42

4.42.1

अत्तरेणैवमुक्तस्तु पार्थो वैराटिमब्रवीत् ।
मृद्व्या प्रत्याययन्वाचा भीतं शङ्कावशं गतम् ॥
अर्जुन उवाच ।

4.42.2

अत्त्वया प्रथमं पृष्टं शत्रुसेनाङ्गमर्दनम् ।
पार्थस्येदं धनुर्दिव्यं गाण्डीवमिति विश्रुतम् ॥

4.42.3

अभेद्यमभयं श्रीमद्दिव्यमच्छेद्यमव्रणम् ।
सर्वायुधमहामात्रं शातकुम्भमयं धनुः ॥

4.42.4

एतच्छतसहस्रेण सम्मितं राष्ट्रवर्धनम् ।
देवदानवगन्धर्वैः पूजितं शाश्वतीः समाः ॥

4.42.5

येन देवासुरान्पार्थः सर्वान्विषहते रणे ।
एतद्वर्षसहस्रं तु ब्रह्मा पूर्वमधारयत् ॥

4.42.6

उमापतिश्चतुःषष्टिं शक्रोऽशीतिं च पञ्च च ।
सोमः पञ्चसहस्राणि तथा च वरुणः शतम् ॥

4.42.7

तस्माच्च वरुणादग्निः प्रेम्णा प्राहृत्य तच्छुभम् । अग्निना प्रातिभाव्येन दत्तं पार्थाय गाण्डिवम् ।
पञ्चषष्टिं च वर्षाणि कौन्तेयो धारयिष्यति ॥

4.42.8

एवंवीर्यं महावेतेतच्च धनुरुत्तमम् ।
नीलोत्पलसमं राज्ञः कौरव्यस्य महात्मनः ॥

4.42.9

बिन्दवश्चात्र सौवर्णाः पृष्ठे साधुनियोजिताः ।
विश्रुतं भीमसेनस्य जातरूपग्रहं दृढम् ॥

4.42.10

सहस्रगोधाः सौवर्णा द्वीपिनश्च चतुर्दश ।
ऋषभा यत्र सौवर्णाः पृष्ठे तिष्ठन्ति शृङ्गिणः ॥

4.42.11

येन भीमोऽजयत्कृत्स्नां दिशं प्राचीं परन्तपः ।
पृष्ठे विभक्ताः शोभन्ते कुशाग्निप्रतिदीपिताः ॥

4.42.12

पूजितं सुरमर्त्येषु प्रथितं धनुरुत्तमम् ।
तालप्रमाणं भीमस्य रत्नरुक्मविभूषितम् ॥

4.42.13

दुरानमं महद्दीर्घं सुरूपं दुष्प्रधर्षणम् ।
बर्हिणश्चात्र सौवर्णाः शतचन्द्रकभूषणाः ॥

4.42.14

नकुलस्य धनुस्त्वेतन्माद्रीपुत्रस्य धीमतः । एतेन सदृशं चित्रं धनुरेतद्यवीयसः ।
हारिद्रवर्णं राज्ञस्तु कौरव्यस्य महात्मनः ॥

4.42.15

विपाठा भीमसेनस्य गिरीणामपि दारणाः . सुप्रभाः सुमहाकायास्तीक्ष्णाग्राः सुतरां दृढाः ।
भीमेन प्रहिता ह्येते वारणानां निवारणाः ॥

4.42.16

सुवर्णदण्डरुचिराः कालदण्डोपमाः शुभाः ।
नकुलस्य शरा ह्येते वज्राशनिसमप्रभाः ॥

4.42.17

यांश्च त्वं पृच्छसे दीप्तान्समधारान्समाहितान् ।
वराहकर्णास्तीक्ष्णाग्राः सहदेवस्य ते शराः ॥

4.42.18

यस्त्वयं सायको दीर्घो गव्ये कोशे च दंशितः ।
पार्थस्यायं महाघोरः सर्वभारसहो महान् ॥

4.42.19

यस्त्वयं निर्मलः खङ्गो द्वीपिचर्मणि दंशितः । राज्ञो युधिष्ठिरस्यायं कुन्तीपुत्रस्य धीमतः ।

4.42.20

वैयाघकोशो भीमस्य पञ्चशार्दूललक्षणः ।
वारणानां सुदृप्तानां शिक्षितः स्कन्धशातने ॥

4.42.21

नीलोत्पलसवर्णाभः खङ्गः पार्थस्य धीमतः ।
मृगेन्द्रचर्मपिहितस्तीक्ष्णधारः सुनिर्मलः ॥

4.42.22

दर्शनीयः सुतीक्ष्णाग्रः कुन्तीपुत्रस्य धीमतः ।
अर्जुनस्यैष निस्त्रिंशः परसैन्याग्रदूषणः ॥

4.42.23

यस्त्वयं पार्षते कोशे निक्षिप्तो रुचिरत्सरुः ॥
नकुलस्यैष निस्त्रिंशो वैश्वानरसमप्रभः ॥

4.42.24

यस्त्वयं पिङ्गलः खङ्गश्चित्रो मणिमयत्सरुः । सहदेवस्य खङ्गोऽयं भारसाहोऽतिदंशितःक ।
भीमस्यायं महादण्डः सर्वामित्रविनाशनः ॥
वैशम्पायन उवाच ।

4.42.25

भेदतो ह्यर्जुनस्तूर्णं कथयामास तत्त्वतः ।
आयुधानि कलापांश्च निस्त्रिंशांश्चातुलप्रभान् ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc