भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 4.41

4.41.1

सारथे किमिदं दिव्यं नागो वा यदि वा धनुः । सौवर्णान्यत्र पद्मानि शतपत्राणि भागशः ।
कुशाग्निप्रतितप्तानि भानुमन्ति बृहन्ति च ॥

4.41.2

बिन्दवश्चात्र सौवर्णा मणिप्रोताः समन्ततः ।
शशिसूर्यप्रभाः पृष्ठे भान्ति रुक्मपरिष्कृताः ॥

4.41.3

पुष्पाण्यत्र सुवर्णानि शतपत्राणि भागशः ।
विस्मापनीयरूपं च भीमं भीमप्रदर्शनम् ॥

4.41.4

नीलोत्पलनिभं कस्य शातकुम्भपरिष्कृतम् ।
ऋषभा यस्य सौवर्णाः पृष्ठे तिष्ठन्ति शृङ्गिणः ॥

4.41.5

तालप्रमाणं कस्येदं मणिरुक्मविभूषितम् हाटकस्य सुवर्णस्य यस्मिञ्शाखामृगा दश ॥

4.41.6

दुरानमं महादीर्घं सुरूपं दुष्प्रधर्षणम् ।
कस्येदमीदृशं चित्रं धनुः सर्वे च दंशिताः ॥

4.41.7

चन्द्रार्कविमलाभासः सुरूपाः सुप्रदर्शनाः . हंसाः पृष्ठं श्रिता यस्य कुशाग्निप्रतिमार्चिषः ।
शार्ङ्गगाण्डीवसदृशं कस्येदं सारथे धनुः ॥

4.41.8

चतुर्तं काञ्चनवपुर्भाति विद्युद्गणोपमम् । नीलोपलिप्तमच्छिदं जातरूपमयं धनुः ।
मत्स्यश्चास्य हिरण्यस्य पृष्ठे तिष्ठन्ति दंशिताः ॥

4.41.9

शक्रचापोपमं दिव्यं कस्येदं सारथे धनुः ।
उच्छ्रितं फणिवद्दिव्यं सारवत्त्वाद्दुरानमम् ॥

4.41.10

सहस्रगोधाः सौवर्णा द्वीपिनश्च चतुर्दश . बर्हिणश्चात्र सौवर्णाः शतचन्द्रार्कभूषिताः ।
जाम्बूनदविचित्राङ्गं कस्येदं पञ्चमं धनुः ॥

4.41.11

कस्येमे क्षुरनाराचाः सहस्रं लोमवापिनः ।
प्रक्षिप्तास्तीक्ष्णतुण्डाग्रा उपासङ्गे हिरण्मये ॥

4.41.12

हारिद्रवर्णाः कस्येमे शिता पञ्चशतं शराः ।
आशीविषसमस्पर्शाः शिताश्चाजिंहगा दृढाः ॥

4.41.13

विपाठाः पृथवः कस्य गृध्रपत्रार्धवाजिताः ।
वराहकर्णास्तीक्ष्णाग्राः कस्येमे रुचिराः शराः ॥

4.41.14

वज्राशनिसमस्पर्शा वैश्वानरशिखार्चिषः ।
सुवर्णपुङ्खास्तीक्ष्णाग्राः कस्य सप्तशतं शराः ॥

4.41.15

कस्यायं सायको दीर्घो गव्ये कोशे च दंशितः ।
कस्य दण्डो दृढः श्लक्ष्णो रुचिरोऽयं प्रकाशते ॥

4.41.16

वैयाघ्रकोशः कस्यायं दिव्यः शङ्खो महाप्रभः ।
कस्यार्थमसयश्चैते पञ्च शार्दूललक्षणाः ॥

4.41.17

कस्यायं निर्मलः खङ्गो द्वीपिचर्मनिवासितः ।
नीलोत्पलसवर्णोऽयं कस्य खङ्गः पृथुर्महान् ॥

4.41.18

मृगेन्द्रचर्मावसितस्तीक्ष्णधारः सुनिर्मलः ।
ऋषभाजिनकोशस्तु कस्य खङ्गो महानयम् ॥

4.41.19

यस्यापिधाने दृश्यन्ते सूर्याः पञ्च परिष्कृताः ।
कस्यायं विपुलः खङ्गः शृङ्गत्सरुमनोहरः ॥

4.41.20

निहितः पार्षते कोशे तैलधौतः समाहितः । प्रमाणवर्णयुक्तश्च कस्य खङ्गो महानयम् ।
एतेन प्रतिविद्धः सञ्जीवेत्कश्चिन्न कुञ्जरः ॥

4.41.21

निर्दिशस्व यथामार्गं मया पृष्टा बृहन्नले ।
विस्मयो मे परो जातो दृष्ट्वा सर्वमिदं महत् ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc