भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 3.97

3.97.1

इल्वलस्तान्विदित्वा तु महर्षिसहितान्नृपान् ।
उपस्थितान्सहामात्यो विषयान्ते ह्यपूजयत् ॥

3.97.2

तेषां ततोऽसुरश्रेष्ठस्त्वातिथ्यमकरोत्तदा ।
सुसंस्कृतेन कौरव्य भ्रात्रा वातापिना तदा ॥

3.97.3

ततो राजर्षयः सर्वे विषण्णा गतचेतसः ।
वातापिं संस्कृतं दृष्ट्वा मेषभूतं महासुरम् ॥

3.97.4

अथाब्रवीदगस्त्यस्तान्राजर्षीनृषिसत्तमः ।
विषादो वो न कर्तव्यो ह्यहं भोक्ष्ये महासुरम् ॥

3.97.5

धुर्यासनमथासाद्य निषसाद महानृषिः ।
तं पर्यवेषद्दैत्येन्द्र इल्वलः प्रहसन्निव ॥

3.97.6

अगस्त्य एव कृत्स्नं तु वातापिं बुभुजे ततः ।
बह्वन्नाशापि ते मेऽस्तीत्यवदद्भक्षयन्स्वयम् ॥

3.97.7

भुक्तवत्यसुरोऽह्वानमकरोत्तस्य चेल्वलः । वातापे प्रतिबुध्यस्व दर्शयन्बलतेजसी ।
तपसा दुर्जयो यावदेष त्वां नातिवर्तते ॥

3.97.8

ततस्तस्योदरं भेत्तुं वातापिर्वेगमाहरत् ।
तमबुध्यत तेजस्वी कुम्भयोनिर्महातपाः ॥

3.97.9

स वीर्यात्तपसोग्रस्तु ननर्द भगवानृषिः ।
एष जीर्णोसि वातापे मया लोकस्य शान्तये ॥

3.97.10

इत्युक्त्वा स्वकराग्रेण उदरं समताडयत् ।
त्रिरेवं प्रतिसंरब्धस्तेजसा प्रज्वलन्निव ॥

3.97.11

ततो वायुः प्रादुरभूदधस्तस्य महात्मनः ।
शब्देन महता तात गर्जन्निव यथा घनः ॥

3.97.12

वातापे निष्क्रमस्वेति पुनः पुनरुवाच ह । तं प्रहस्याब्रवीद्राजन्नगस्त्यो मुनिसत्तमः ।
कुतो निष्क्रमितुं शक्तो मया जीर्णस्तु सोसुरः ॥

3.97.13

इल्वलस्तु विषण्णोऽभूद्दृष्ट्वा जीर्णं महासुरम् । प्राञ्जलिश्च सहामात्यैरिदं वचनमब्रवीत् ।
किमर्थमुपयाताः स्थ ब्रूत किं करवाणि वः ॥

3.97.14

प्रत्युवाच ततोऽगस्त्यः प्रहसन्निल्वलं तदा ।
ईशोस्यसुर विद्मस्त्वां वयं सर्वे धनेश्वरम् ॥

3.97.15

एते च नातिधनिनो धनाशा महती मम ।
यथाशक्त्यविहिंस्यान्यान्संविभागं प्रयच्छ नः ॥

3.97.16

ततोऽवमत्य तमृषिमिल्वलो वाक्यमब्रवीत् ।
दित्सितं यदि वेत्सि त्वन्ततो दास्यामि ते वसु ॥
अगस्त्य उवाच ।

3.97.17

गवां दशसहस्राणि राज्ञामेकैकशोऽसुर ।
तावदेव सुवर्णस्य दित्सितं ते महासुर ॥

3.97.18

मह्यं ततो वै द्विगुणं रथश्चैव हिरण्मयः ।
मनोजवौ वाजिनौ च दित्सितं ते महासुर ॥
लोमश उवाच ।

3.97.19

उल्वलस्तु मुनिं प्राह सर्वमस्ति यथाऽत्थ माम् । सर्वमेतत्प्रदास्यामि हिरण्यं गाश्च यद्धनम् ।
रथं तु यदवोचो मां नैतं विद्म हिरण्मयम् ॥
आगस्त्य उवाच ।

3.97.20

न मे वागनृता काचिदुक्तपूर्वा महाऽसुर ।
विज्ञायतां रथः साधु व्यक्तमस्ति हिरण्मयः ॥
लोमश उवाच ।

3.97.21

विज्ञायमानः स रथः कौन्तेयासीद्धिरण्मयः ।
ततः प्रव्यथितो दैत्यो ददावभ्यधिकं वसु ॥

3.97.22

विवाजी च सुवाजी च तस्मिन्युक्तौ रथे हयौ । ऊहतुः स वसूनाशु तावगस्त्याश्रमं प्रति ।
सर्वान्राज्ञः सहागस्त्यान्निमेषादिव भारत ॥

3.97.23

इल्वलस्त्वनुगम्यैनमगस्त्यं हन्तुमैच्छत ।
भस्म चक्रे महातेजा हुङ्कारेण महाऽसुरम् ॥

3.97.24

अगस्त्येनाभ्यनुज्ञाता जग्मू राजर्षयस्तदा ।
कृतवांश् मुनिः सर्वं लोपामुद्राचिकीर्षितम् ॥
लोपामुद्रोवाच ।

3.97.25

कृतवानसि तत्सर्वं भगवन्मम काङ्क्षितम् ।
उत्पादय सकृन्मह्यमपत्यं वीर्यवत्तरम् ॥
अगस्त्य उवाच ।

3.97.26

तुष्टोऽहमस्मि कल्याणि तव वृत्तेन शोभने ।
विचारणामपत्ये तु तव वक्ष्यामि तां शृणु ॥

3.97.27

सहस्रं तेऽस्तु पुत्राणआं शतं वा तत्समं तव ।
दश वा शततुल्याः स्युरेको वाऽपि सहस्रजित् ॥
लोपामुद्रोवाच ।

3.97.28

सहस्रसम्मितः पुत्र एकोप्यस्तु तपोधन ।
एको हि बहुभिः श्रेयान्विद्वान्साधुरसाधुभिः ॥

3.97.29

स तथेति प्रतिज्ञाय तया समगमन्मुनिः ।
समये समशीलिन्या श्रद्धावान्श्रद्दधानया ॥

3.97.30

तत आधाय गर्भं तमगमद्वनमेव सः ।
तस्मिन्वनगते गर्भो ववृधे सप्त शारदान् ॥

3.97.31

सप्तमेऽब्दे गते चापि प्राच्यवत्स महाकविः ।
ज्वलन्निव प्रभावेन दृढस्युर्नाम भारत ॥

3.97.32

साङ्गोपनिषदान्वेदाञ्जपन्नेव महातपाः ।
तस्य पुत्रोऽभवदृषेः स तेजस्वी महानृषिः ॥

3.97.33

स बाल एवतेजस्वी पितुस्तस्य निवेशने ।
इध्मानां भारमाजह्रे इध्मवाहस्ततोऽभवत् ॥

3.97.34

तथायुक्तं तु तं दृष्ट्वा मुमुदे स मुनिस्तदा । एवं स जनयामास भारतापत्यमुत्तमम् ।
लेभिरे पितरश्चास्य लोकान्राजन्यथेप्सितान् ॥

3.97.35

अगस्त्यस्याश्रमश्चायमत ऊर्ध्वं विशाम्पते ।
ख्यातो भुवि महाराज तेजसा तस्य धीमतः ॥

3.97.36

प्राह्लादिरेवं वातापिर्ब्रह्मघ्नो दुष्टचेतनः । एवं विनाशितो राजन्नगस्त्येन महात्मना ।
तस्यायमाश्रमो राजन्रमणीयैर्गुणैर्युतः ॥

3.97.37

एषा भागीरथी पुण्या देवगन्धर्वसेविता ।
वातेरिता पताकेव विराजति नभस्तले ॥

3.97.38

प्रतार्यमाणा कूटेषु यथा निम्नेषु नित्यशः ।
शिलातलेषु सन्त्रस्ता पन्नगेन्द्रवधूरिव ॥

3.97.39

दक्षिणां वै दिशं सर्वां प्लावयन्ती च मातृवत् । पूर्वं शम्भोर्जटाभ्रष्टा समुद्रमहिषी प्रिया ।
अस्यां नद्यां मुपुण्यायां यथेष्टमवगाह्यताम् ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc