भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 3.98

3.98.1

युधिष्ठिर निबोधेदं त्रिषु लोकेषु विश्रुतम् ।
भृगोस्तीर्थं महाराज महर्षिगणसेवितम् ॥

3.98.2

यत्रोपस्पृष्टवान्रामो हृतन्तेजस्तदाप्तवान् ।
अत्र त्वम्भ्रातृभिः सार्धं कृष्णया चैव पाण्डव ॥

3.98.3

दुर्योधनहृतन्तेजः पुनरादातुमर्हसि ।
कृतवैरेण रामेण यथा कचोपहृतं पुनः ॥
वैशम्पायन उवाच ।

3.98.4

स तत्रभ्रातृभिश्चैव कृष्णया चैव पाण्डवः ।
स्नात्वा देवान्पितॄंश्चैव तर्पयामास भारत ॥

3.98.5

तस्य तीर्थस्य रूपं वै दीप्ताद्दीप्ततरं बभौ ।
अप्रवृष्यतरश्चासीच्छात्रवाणां नरर्षभ ॥

3.98.6

अपृच्छच्चैव राजेन्द्र लोमशं पाण्डुनन्दनः । भगवन्किमर्थं रामस्य हृतमासीद्वपुः प्रभो ।
कथं प्रत्याहृतञ्चैव एतदाचक्ष्व पृच्छतः ॥
लोमश उवाच ।

3.98.7

शृणु रामस्य राजेन्द्र भार्गवस्य च धीमतः ।
जातो दशरथस्यासीत्पुत्रो रामो महात्मनः ॥

3.98.8

विष्णुः स्वेन शरीरेण रावणस्य वधाय वै ।
पश्यामस्तमयोध्यायां जातं दाशरथिं ततः ॥

3.98.9

ऋचीकनन्दनो राभो भार्गवो रेणुकासुतः ।
तस् दाशरथेः श्रुत्वा ररामस्याक्लिष्टकर्मणः ॥

3.98.10

कौतूहलान्वितो रामस्त्वयोध्यामगमत्पुनः ।
जिज्ञासमानो रामस्य वीर्यं दाशरथेस्तदा ॥

3.98.11

तं वै दशरथः श्रुत्वा वियान्तमुपागतम् ।
प्रेषयामास रामस्य रामं पुत्रं पुरस्कृतम् ॥

3.98.12

स तमभ्यागतं दृष्ट्वा उद्यतास्त्रमवस्थितम् ।
प्रहसन्निव कोन्तेय रामो वचनमब्रवीत् ॥

3.98.13

कृतकालं हि राजेन्द्र धनुरेतन्मया विभो ।
समारोपय यत्नेन यदि शक्नोषि पार्तिव ॥

3.98.14

इत्युक्तस्त्वाह भगवंस्त्वं नाधिक्षेप्तुमर्हसि । नाहमप्यधमो धर्मे क्षत्रियाणां द्विजातिषु ।
इश्र्वाकूणां विशेषेण बाहुवीर्ये न कत्थनम् ॥

3.98.15

तमेवं वादिनं तत्र रामो वचनमब्रवीत् ।
अलं वै व्यपदेशेन धनुरायच्छ राघव ॥

3.98.16

ततो जग्राह रोषेण क्षत्रियर्षभमूदनम् ।
रामो दाशरथिर्दिव्यं हस्ताद्रामस्य कार्मुकम् ॥

3.98.17

धनुरारोपयामास सलील इव भारत । ज्याशब्दमकरोच्चैव स्मयमानः स वीर्यवान् ।
तस्य शब्दस् भूतानि वित्रसन्त्यशनेरिव ॥

3.98.18

अथाब्रवीत्तदा रामो रामं दाशरथिस्तदा ।
इदमारोपितं ब्र्हमन्किमन्यत्करवाणि ते ॥

3.98.19

तस्य रामो ददौ दिव्यं जामदग्न्यो महात्मनः ।
शरमाकर्णदेशान्तमयमाकृष्यतामिति ॥
लोमश उवाच ।

3.98.20

एतच्छ्रुत्वाऽब्रवीद्रामः प्रदीप्त इव मन्युना ।
श्रूयते क्षम्यते चैव दर्पपूर्णोसि भार्गव ॥

3.98.21

त्वया ह्यधिगतं तेजः क्षत्रियेभ्यो विशेषतः । पितामहप्रसादेन तेन मां क्षिपसि ध्रुवम् ।
पश्य मां स्वेन रूपेण चक्षुस्ते वितराम्यहम् ॥

3.98.22

ततो रामशरीरे वै रामः पश्यति भार्गवः ।
आदित्यान्सवसून्रुद्रान्साध्यांश्च समरुद्गणान् ॥

3.98.23

पितरो हुताशनश्चैव नक्षत्राणि ग्रहास्तथा ।
गन्धर्वा राक्षसा यक्षा नद्यस्तीर्थानि यानि च ॥

3.98.24

ऋषयो वालखिल्याश्च ब्र्हमभूताः सनातनाः ।
देवर्षयश्च कार्त्स्न्येन समुद्राः पर्वतास्तथा ॥

3.98.25

वेदाश्च सोपनिषदो वषट्कारैः सहाध्वरैः । चेतोमन्ति च सामानि धनुर्वेदश्च भारत ।
मेघवृन्दानि वर्षाणि विद्युतश्च युधिष्ठिर ॥

3.98.26

ततः स भगवान्विष्णुस्तं वै बाणं मुमोच ह ।
शुष्काशनिसमाकीर्णं महोल्काभिश्च भारत ॥

3.98.27

पांसुवर्षेण महता मेघवर्षैश्च भूतलम् ।
भूमिकम्पैश्च निर्घातैर्नादैश्च विपुलैरपि ॥

3.98.28

स रामं विह्वलं कृत्वा तेजश्चाक्षिप्य केवलम् ।
आगच्छज्ज्वलितो बाणो रामबाहुप्रचोदितः ॥

3.98.29

स तु विह्वलतां गत्वा प्रतिलभ्य च चेतनाम् ।
रामः प्रत्यागतप्राणः प्राणमद्विष्णुतेजसम् ॥

3.98.30

विष्णुना सोभ्यनुज्ञातो महेन्द्रमगमत्पुनः ।
भीतस्तु तत्रन्यवसद्ब्रीडितस्तु महातपाः ॥

3.98.31

ततः संवत्सरेऽतीते हृतौजसमवस्थितम् ।
निर्मदं दुःखितं दृष्ट्वा पितरो राममब्रुवन् ॥

3.98.32

न वै सम्यगिदं पुत्र विष्णुमासाद्य वैकृतम् ।
स हि पूज्यश्च मान्यश्च त्रिषु लोकेषु सर्वदा ॥

3.98.33

गच्छ पुत्रनदीं पुण्यां वधूसरकृताह्वयाम् ।
तत्रोपस्पृश्य तीर्थेषु पुनर्वपुरवाप्स्यसि ॥

3.98.34

दीप्तोदं नाम तत्तीर्थं यत्रते प्रतितामहः ।
भृगुर्देवयुगे राम तप्तवानुत्तमं तपः ॥

3.98.35

तत्तथा कृतवान्रामः कौन्तेय वचनात्पितुः ।
प्राप्तवांश्च पुनस्तेजस्तीर्थेऽस्मिन्पाण्डुनन्दन ॥

3.98.36

एतदीदृशकं तात रामेणाक्लिष्टकर्मणा । प्राप्तमासीन्महाराज विष्णुमासाद्य वै पुरा ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc