भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 3.96

3.96.1

ततो जगाम कौरव्य सोऽगस्त्यो भिक्षितुं वसु ।
श्रुतर्वाणं महीपालं यं वेदाभ्यधिकं नृपैः ॥

3.96.2

स विदित्वा तु नृपतिः कुम्भयोनिमुपागतम् ।
विषयान्ते सहामात्यः प्रत्यगृह्णात्सुसत्कृतम् ॥

3.96.3

तस्मै चार्घ्यं थान्यायमानीय पृथिवीपतिः ।
प्राञ्जलिः प्रयतो भूत्वापप्रच्छागमनेऽर्थिताम् ॥
अगस्त्य उवाच ।

3.96.4

वित्तार्थिनमनुप्राप्तं विद्धि मां पृथिवीपते ।
थाशक्त्यविहिंस्यान्यान्संविभागं प्रयच्छ मे ॥
लोमश उवाच ।

3.96.5

तत आयव्ययौ पूर्णो तस्मै राजा न्यवेदयत् ।
अतो विद्वन्नुपादत्स्व यदत्रव्यतिरिच्यते ॥

3.96.6

तत आयव्ययौ दृष्ट्वा समौ सममतिर्द्विजः ।
सर्वथा प्राणिनां पीडामुपादानादमन्यत ॥

3.96.7

स श्रुतर्वाणमादाय ब्रध्नश्वमगमत्ततः ।
स च तौ विषयस्यान्ते प्रत्यगृह्णाद्यथाविधि ॥

3.96.8

तयोरर्ध्यं च पाद्यं च ब्रध्नश्वः प्रत्यवेदयत् । अनुज्ञाप्यच पप्रच्छ प्रयोजनमुपक्रमे ।
वद कामं मुनिश्रेष्ठ धन्योस्म्यागमनेन ते ॥
अगस्त्य उवाच ।

3.96.9

वित्तकामाविह प्राप्तौ विद्ध्यावां पृथिवीपते ।
यथाशक्त्यविहिंस्यान्यान्संविभागं प्रयच्छ नौ ॥
लोमश उवाच ।

3.96.10

तत आयव्ययौ पूर्णौ ताभ्यां राजा न्यवेदयत् ।
अतो ज्ञात्वा तु गृह्णीतं यदत्रव्यतिरिच्यते ॥

3.96.11

तत आयव्ययौ दृष्ट्वासमौ सममतिर्द्विजः ।
सर्वथा प्राणिनां पीडामुपादानादमन्यत ॥

3.96.12

पौरुकुत्सं ततो जग्मुस्त्रसदस्युं महाधनम् ।
अगस्त्यश्च श्रुतर्वा च ब्रध्नश्वश्च महीपतिः ॥

3.96.13

त्रसदस्युस्तु तान्दृष्ट्वा प्रत्यगृह्णाद्यथाविधि ।
अभिगम्य महाराज विषयान्ते महामनाः ॥

3.96.14

अर्चयित्वा यथान्यायमैक्ष्वाको राजसत्तमः ।
समस्तांश्च ततोऽपच्छत्प्रयोजनमुपक्रमे ॥
अगस्त्य उवाच ।

3.96.15

वित्तकामानिह प्राप्तान्विद्धि नः पृथिवीपते ।
यथाशक्त्यवीहिंस्यान्यान्संविभागं प्रयच्छ नः ॥
लोमश उवाच ।

3.96.16

तत आयव्ययौ पूर्णौ तेषां राजा न्यवेदयत् ।
एतज्ज्ञात्वा ह्युपादद्ध्वं यदत्रव्यतिरिच्यते ॥

3.96.17

तत आयव्ययौ दृष्ट्वासमौ सममतिर्द्विजः ।
सर्वथा प्राणिनां पीडामुपादानादमन्यत ॥

3.96.18

ततः सर्वे समेत्याथ ते नृपास्तं महामुनिम् ।
इदमूचुर्महाराज समवेक्ष्य परस्परम् ॥

3.96.19

अयं वै दानवो ब्रह्मन्निल्वलो वसुमान्भुवि ।
तमतिक्रम्य सर्वेऽद्यवयं चार्तामहे वसु ॥
लोमश उवाच ।

3.96.20

तेषां तदासीदुचितमिल्वलस्यैव भिक्षणम् ।
ततस्ते सहिता राजन्निल्वलं समुपाद्रवन् ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc