महाभारत · अध्याय 3.68
अथ दीर्घस्य कालस्य पर्णादो नाम वै द्विजः ।
प्रत्येत्य नगरं भैमीमिदं वचनमब्रवीत् ॥
नैषधं मृगयाणेन दमयन्ति दिवानिशम् ।
अयोध्यां नगरीं गत्वा भागस्वरिरुपस्थितः ॥
श्रावितश्च मया वाक्यं त्वदीयं स महाजने ।
ऋतुपर्णो महाभागो यथोक्तं वरवर्णिनि ॥
तच्छ्रुत्वा नाब्रवीत्किञ्चिदृतुपर्णो नराधिपः ।
न च पारिषदः कश्चिद्भाष्यमाणो मयाऽसकृत् ॥
अनुज्ञातं तु मां राज्ञा विजने कश्चिदब्रवीत् ।
ऋतुपर्णस्य पुरुषो बाहुको नाम नामतः ॥
सूतस्तस्य नरेन्द्रस्य विरूपो ह्रस्वबाहुकः ।
शीघ्रयानेषु कुशलो मृष्टकर्ता च भोजने ॥
स विनिःश्वस्य बंहुशो रुदित्वा च षुनःपुनः ।
कुशलं चैव मां पृष्ट्वा पश्चादिदमभाषत ॥
वैषम्यमपि सम्प्राप्ता गोपायन्ति कुलस्त्रियः ।
आत्मानमात्मना सत्यो जितः स्वर्गो न संशयः ॥
रहिता भर्तृभिश्चैव न कुप्यन्ति कदाचन । 3-68-9ब्प्राणांश्चारित्रकवचान्धारयन्ति वरस्त्रियः ॥
विषमस्थेन मूढेन परिभ्रष्टसुखेन च ।
यत्सा तेन परित्यक्ता तत्र न क्रोद्धुमर्हति ॥
प्राणयात्रां परिप्रेप्सोः शकुनैर्हृतवाससः ।
आधिभिर्दह्यमानस्य श्यामा न क्रोद्धुमर्हति ॥
सत्कृताऽसत्कृता वाऽपि पतिं दृष्ट्वा तथागतम् ।
भ्रष्टराज्यं श्रित्या हीनं श्यामा न क्रोद्धुमर्हति ॥
तस्य तद्वचनं श्रुत्वा त्वरितोऽहमिहागतः ।
श्रुत्वा प्रमाणं भवती राज्ञश्चैव निवेदयः ॥
एतच्छ्रुत्वाऽश्रुपूर्णाक्षी पर्णादस्य विशाम्पते ।
दमयन्ती रहोऽभ्येत्य मातरं प्रत्यभापत ॥
अयमर्थौ न संवेद्यो भीमे मातः कदाचन ।
त्वत्सन्निधौ नियोक्ष्येऽहंसुदेवं द्विजसत्तमम् ॥
यथा न नृपतिर्भीमः प्रतिपद्येत मे मतम् ।
यथा त्वया प्रकर्तव्यं मम चेत्प्रियमिच्छसि ॥
यथा चाहं समानीता सुदेवेनाशु बान्धवान् ।
तेनैव मङ्गलेनाद्य सुदेवो यातु मा चिरम् ॥
समानेतुं नलं मातरयोध्यां नगरीमितः ।
ऋतुपर्णस्य नगरे निवसन्तमरिन्दमम् ॥
विश्रान्तं तु ततः पश्चात्पर्णादं द्विजसत्तमम् ।
अर्चयामास वैदर्भी धनेनातीव भामिनी ॥
लवाच चैनं महता सम्पूज्य द्रविणेन वै । नले चेहागते विप्र भूयो दास्याभि ते वसु ॥
त्वया हि मे बहुकृतंयदन्यो न करिष्यति ।
यद्भर्त्राऽहं समेष्यामि शीघ्रमेव द्विजोत्तम ॥
स एवमुक्तोऽथाश्वास्य आशीर्वादैः सुमङ्गलैः ।
गृहानुपययौ चापि कृतार्थः सुमहामनाः ॥
ततः सुदेवमानाय्य दमयन्ती युधिष्ठिर ।
अब्रवीत्सन्निदौ मातुर्दुःखशोकसमन्विता ॥
गत्वा सुदेव नगरीमयोध्यावासिनं नृपम् ।
ऋतुपर्णं वचो ब्रूहि पतिमन्यं चिकीर्षती ॥
आस्थास्यति पुनर्भैमी दमयन्ती स्वयंवरम् ।
तत्र गच्छन्ति राजानो राजपुत्राश्च सर्वशः ॥
तथा च गणितः कालः श्वोभूते स भविष्यति ।
यदि सम्भाविनीयं ते गच्छ शीघ्रमरिन्दम ॥
सूर्योदये द्वतीयं सा भर्तारं वरयिष्यति ।
न हि स ज्ञायते वीरो नलो जीवन्मृतोपि वा ॥
एवं तथा यथोक्तो वै गत्वा राजानमब्रवीत् । ऋतुपर्णं महाराज सुदेवो ब्राह्मणस्तदा ॥
मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0