भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 3.69

3.69.1

श्रुत्वा वचः सुदेवस्य ऋतुपर्णो नराधिपः । सारथीन्स समानीय वार्ष्णेयप्रभृतीन्नृपः ।
कथयामास यद्वृत्तं ब्राह्मणेन श्रुतं तथा ॥

3.69.2

बाहुकं च समाहूय दमयन्त्याः स्वयंवरम् ।
सान्त्यञ्श्र्लक्ष्णया वाचा बाहुकं प्रत्यभाषत ॥

3.69.3

विदर्भान्यातुमिच्छामि दमयन्त्याः स्वयंवरम् ।
एकाह्ना हयतत्त्वज्ञ मन्यसे यदि बाहुक ॥

3.69.4

एवमुक्तस्य कौन्तेय तेन राज्ञा नलस्य ह ।
व्यदीर्यत मनो दुःखात्प्रदध्यौ च महामनाः ॥

3.69.5

दमयन्ती भवेदेवं किन्नु दुःखेन मोहिता ।
अस्मदर्थे भवेद्बाऽयमुपायश्चिन्तितो महान् ॥

3.69.6

नृशंसं बत वैदर्भी कर्तुकामा तपस्विनी । यया क्षुद्रेण निकृताकृपणा पापबुद्धिना ।
स्त्रीस्वभावश्चलो लोके मम दोषश्च दारुणः ॥

3.69.7

मम शोकेन संविग्ना नैराश्यात्तनुमध्यमा ।
नैवं सा कर्हिचित्कुर्यात्सापत्या च विशेषतः ॥

3.69.8

यदत्र सत्यं वाऽसत्यं गत्वा वेत्स्यामि निश्चयम् ।
ऋतुपर्णस्य वै काममात्मार्थं च करोम्यहम् ॥

3.69.9

इति निश्चित्य मनसा बाहुको दीनमानसः ।
कृतालुरुवाचेदमृतुपर्णं जनाधिपम् ॥

3.69.10

प्रतिजानामि ते वाक्यं गमिष्यामि नराधिप । एकाह्ना पुरुषव्याघ्र विदर्भनगरीं नृप ।
तत्रादित्योदये काले श्वो विदर्भान्गमिष्यसि ॥

3.69.11

एवमुक्तोऽब्रवीद्राजा बाहुकं प्रहसन्निव ।
किं ते कामं करोम्यद्य तुष्टोऽस्मि तव बाहुक ॥
बाहुक उवाच ।

3.69.12

यावद्यानमिदं सज्जमृतुपर्ण करोम्यहम् ॥

3.69.13

ततः परीक्षामश्वानां चक्रे राजन्स बाहुकः ।
अश्वशालामुपागम्य भागस्वरिनृपाज्ञया ॥

3.69.14

स त्वर्यमाणो बहुश ऋतुपर्णन बाहुकः । अश्वाञ्जिज्ञासमानो वै विचार्य च पुनःपुनः ।
अध्यगच्छत्कृशानश्वान्समर्थानध्वनि क्षमान् ॥

3.69.15

तेजोबलसमायुक्तान्कुलशीलसमन्वितान् ।
वर्जिताँल्लक्षणैर्हीनैः पृथुप्रोथान्महाहनून् ॥

3.69.16

शुद्धान्दशभिरावर्तैः सिन्धुजान्वातरंहसः ।
दृश्यमानान्कृशानङ्गैर्जवेनाप्रतिमान्पथि ॥

3.69.17

तान्दृष्ट्वा दुर्बलान्नाजा प्राह कोपसमन्वितः ।
किमिदं प्रार्थितं कर्तुं प्रलब्धव्या न ते वचम् ॥

3.69.18

कथमल्पबलप्राणा वक्ष्यन्तीमे हया रथम् ।
महानध्वा स चैकाह्ना गन्तव्यः कथमीदृशैः ॥
बाहुक उवाच ।

3.69.19

[एको ललाटे द्वे मूर्ध्नि द्वौद्वौ पार्श्वोपपार्श्वयोः । द्वौद्वौ वक्षसि विज्ञैर्यौ प्रयाणे चैक एव तु ॥ ]

3.69.20

एते हया गमिष्यन्ति विदर्भान्नात्र संशयः ।
यानन्यान्मन्यसे राजन्ब्रूहि तान्योजयामिते ॥
ऋतुपर्ण उवाच ।

3.69.21

त्वमेव हयतत्त्वज्ञः कुशलो ह्यसि बाहुक ।
यान्मन्यसे समर्थास्त्वं क्षिप्रं तानेव योजय ॥

3.69.22

ततः सदश्वांश्चतुरः कुलशीलसमन्वितान् ।
योजयामास कुशलो जवयुक्तान्रथे नलः ॥

3.69.23

ततो युक्तं रथं राजा समारोहत्त्वरान्वितः ।
अथ पर्यपतन्भूमौ जानुभिस्ते हयोत्तमाः ॥

3.69.24

ततो नरवरः श्रीमान्नलो राजा विशाम्पते ।
सान्त्वयामास तानश्वांस्तेजोबलसमन्वितान् ॥

3.69.25

रश्मिभिश्च समुद्यम्य नलो यातुमियेष सः ।
सूतमारोप्य वार्ष्णेयं जवमास्थाय वै परम् ॥

3.69.26

ते चोद्यमाना विधिवद्बाहुकेन हयोत्तमाः ।
समुत्पेतुरिवाकाशं रथिनं मोहयन्ति च ॥

3.69.27

तथा तु दृष्ट्वा तानश्वान्वहतो वातरंहसः ।
अयोध्याधिपतिः श्रीमान्विस्मयं परमं ययौ ॥

3.69.28

रथघोषं तु तं श्रुत्वा हयसन्ग्रहणं च तत् ।
वार्ष्णेयश्चिन्तयामास बाहुकस्य हयज्ञताम् ॥

3.69.29

किन्नु स्यान्मातलिरयं देवराजस्य सारथिः ।
तथा तल्लक्षणं वीरे बाहुके दृश्यते महत् ॥

3.69.30

शालिहोत्रोऽथ किन्तु स्याद्धयानां कुलतत्त्ववित् ।
मानुपं समनुप्राप्तो वपुः परमशोभनम् ॥

3.69.31

उताहोस्विद्भवेद्राजा नलः परपुरञ्जयः ।
सोयं नृपतिरायात इत्येवं समचिन्तयत् ॥

3.69.32

अथवाऽयन्नलात्प्राप्तो विद्यां तामेव बाहुकः ।
तुल्यं हि लक्षये ज्ञानं बाहुकस्य नलस्य च ॥

3.69.33

अपिचेदं वयस्तुल्यं बाहुकस्य नलस्य च ।
नायं नलो महावीर्यस्तद्विद्यश्च भविष्यति ॥

3.69.34

प्रच्छन्ना हि महात्मानश्चरन्ति पृथिवीमिमाम् ।
दैवेन विधिना युक्ताः शास्त्रोक्तैश्च निरूपणैः ॥

3.69.35

भवेन्न मतिभेदो मे गात्रवैरूप्यता प्रति ।
प्रमाणात्परिहीनस्तु भवेदिति मतिर्मम ॥

3.69.36

वयःप्रमाणं तत्तुल्यं रूपेण तु विपर्ययः ।
नलं सर्वगुणैर्युक्तं मन्ये बाहुकमन्ततः ॥

3.69.37

एवं विचार्य बहुशो वार्ष्णोयः पर्यचिन्तयत् ।
हृदयेन महाराज पुण्यश्लोकस्य सारथिः ॥

3.69.38

ऋतुपर्णश्च राजेनद्रो बाहुकस्य हयज्ञताम् ।
चिन्तयन्मुमुदे राजा सहवार्ष्णेयसारथिः ॥

3.69.39

ऐकाग्र्यं च तथोत्साहं हयसन्ग्रहणं च तत् । कौशलं चापि सम्प्रेक्ष्य परां सुदमवाप ह ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc