भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 3.67

3.67.1

मां चेदिच्छसि जीवन्तीं मातः सत्यं ब्रवीमिते ।
नलस्य नरवीरस्य यतस्वानयने पुनः ॥

3.67.2

दमयन्त्या तथोक्ता तु सा देवी भृशदुःखिता ।
बाष्पेणापिहिता राज्ञी नोत्तरं किञ्चिदब्रवीत् ॥

3.67.3

तदवस्थां तु तां दृष्ट्वा सर्वमन्तःपुरं तदा ।
हाहाभूतमतीवासीद्भृशं च प्ररुरोद ह ॥

3.67.4

ततो भीमं महाराजं भार्या वचनामब्रवीत् ।
दमयन्ती नृप भृशं भर्तारमनुशोचति ॥

3.67.5

अपकृष्य च लज्जां सा स्वयमुक्तवती विभो ।
प्रयतन्तु तवप्रेष्याः पुण्यश्लोकस्य दर्शने ॥
बृहदश्व उवाच ।

3.67.6

तयाप्रयोदितो राजा ब्राह्मणान्वशवर्तिनः ।
प्राश्थापयद्दिशः सर्वा यतध्वं नलदर्शने ॥

3.67.7

ततो विदर्भाधिपतेर्नियोगाद्ब्राह्मणास्तदा ।
दमयन्तीमथापृच्छ्य प्रस्थितास्ते तथाऽव्रुवन् ॥

3.67.8

अथ तानब्रवीद्भैमी सर्वराष्ट्रेष्विदं वचः ।
ब्रूत वै जनसंसत्सु तत्रतत्र पुनः पुनः ॥

3.67.9

क्वनु त्वं कितव च्छित्त्वा वस्त्रार्धं प्रस्थितो मम ।
उत्सृज्य वपिने सुप्तामनुरक्तां प्रियां प्रिय ॥

3.67.10

सा वै यथा त्वया दृष्टा तथाऽस्ते त्वत्प्रतीक्षिणी ।
दह्यमाना भृशं बाला वस्त्रार्धेनाभिसंवृता ॥

3.67.11

तस्या रुदन्त्याः सततं तेन शोकेन पार्थिव ।
प्रसादं कुरु वै देव प्रतिवाक्यं वदस्व च ॥

3.67.12

एवमन्यच्च वक्तव्यं कृपां कुर्याद्यथा मयि ।
वायुना धूयमानो हि वनं दहति पावकः ॥

3.67.13

भर्तव्या रक्षणीया त्व पत्नी पत्या हि नित्यदा ।
तन्नष्टमुभयं कस्माद्धर्मज्ञस्य सतस्तव ॥

3.67.14

ख्यातः प्राज्ञः कुलीनश् सानुक्रोशो भवान्सदा ।
संवृत्तो निरनुक्रोशः शङ्के मद्भाग्यसन्क्षयात् ॥

3.67.15

तत्कुरुष्व नरव्याघ्र दयां मयि नरर्पभ ।
आनृशंस्यं परो धर्मस्त्वत्त एव हि मे श्रुतः ॥

3.67.16

एवम्ब्रुवाणान्यदि वः प्रतिब्रूयाद्धि कश्चन ।
स नरः सर्वथा ज्ञेयः कश्चासौ क्वनु वर्तते ॥

3.67.17

यश्चैवं वचनं श्रुत्य्वा बूयात्प्रतिवचो नरः ।
तदादाय वचस्तस्य ममावेद्यं द्विजोत्तमाः ॥

3.67.18

यथा च वो न जानीयाच्चरतो भीमशासनात् ।
पुनरागमनं चेह तथा कार्यमतन्द्रितैः ॥

3.67.19

यदि वाऽसौ समृद्धः स्याद्यदि वाऽप्यधनो भवेत् ।
यदिऽवाप्यसमर्थः स्याज्ज्ञेयमस्य चिकीर्षितम् ॥

3.67.20

एवमुक्तास्त्वगच्छंस्ते ब्राह्मणाः सर्वतो दिशम् ।
नलं मृगयितुं राजंस्तदा व्यसनिनं तथा ॥

3.67.21

ते पुराणि सराष्ट्राणि ग्रामान्धोपांस्तथाऽश्रमान् ।
अन्वेषन्तो नलं राजन्नाधिजग्मुर्दविजातयः ॥

3.67.22

तच्च वाक्यं तथा सर्वेतत्रतत्र विशाम्पते । श्रावयाञ्चक्रिरे विप्रा दमयन्त्या यथेरितम् ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc