भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 3.62

3.62.1

सा तच्छ्रुत्वाऽनवद्याङ्गी सार्थवाहवचस्तदा ।
जगाम सह तेनैव सार्थेन पतिलालसा ॥

3.62.2

अथ काले बहुतिथे वने महति दारुणे ।
तटाकं सर्वतोभद्रं पद्मसौगन्धिकायुतम् ॥

3.62.3

ददृशुर्वणिजो रम्यं प्रभूतयवसेन्धनम् ।
बहुमूलफलोपेतं नानापक्षिनिषेवितम् ॥

3.62.4

तं दृष्ट्वा मृष्टसलिलं मनोहारि सुशीतलम् ।
सुपरिश्रान्तवाहास्ते निवेशाय मनो दधुः ॥

3.62.5

सम्मते सार्थवाहस्य विविशुर्वनमुत्तमम् ।
उवास सार्थः सुमहान्निशामासाद्य पद्मिनीम् ॥

3.62.6

अथार्धरात्रसमये निःशब्दे तिमिरे तदा । सुप्ते सार्थे परिश्रान्ते हस्तियूथमुपागमत् ।
पानीयार्थं गिरितटान्मदप्रस्रवणाविलम् ॥

3.62.7

[अथापश्यत सार्थं तं सार्थजान्सुबहून्गजान् ॥

3.62.8

ते तान्ग्राम्यगजान्दृष्ट्वा सर्वे वनगजास्तदा ।
समाद्रवन्त वेगेन जिघांसन्तो मदोत्कटाः ॥

3.62.9

तेषामापततां वेगः करिणां दुःसहोऽभवत् । नगाग्रादिव शीर्णानां शृङ्गाणां पततां क्षितौ ।
स्पन्दतामपि नागानां मार्गा नष्टा वनोद्भवाः ॥ ]

3.62.10

मार्गं संरुद्ध्य संसुप्तं पद्मिन्याः सार्थमुत्तमम् ।
ते तं ममर्दुः सहसा वेष्टमानं महीतले ॥

3.62.11

महारवं प्रमुञ्चतो वद्ध्यन्ते शरणार्थिनः ।
वनगुल्मांश्च धावन्तो निद्रया महतो भयात् ॥

3.62.12

केचिद्दन्तैः करैः केचित्केचित्पद्भ्यां हता गजैः ॥

3.62.13

निहतोष्ट्राश्वबहुलाः पदातिजसन्कुलाः ।
भयादाधावमानाश् परस्परहतास्तदा ॥

3.62.14

घोरान्नादान्विमुञ्चन्तो निपेतुर्धरणीतले ।
वृक्षेष्वासज्यसम्भग्नाः पतिता विषमेषु च ॥

3.62.15

एवम्प्रकारैर्बहुभिर्दैवेनाक्रम्य हस्तिभिः ।
राजन्विनिहतं सर्वं समृद्धं सार्थमण्डलम् ॥

3.62.16

आरावः सुमहांश्चासीत्रैलोक्यभयकारकः ।
एषोऽग्निरुत्थितः कष्टस्त्रायध्वं धावताऽधुना ॥

3.62.17

रत्नराशिर्विशीर्णोऽयं गृह्णीध्वं किं प्रधावत ।
सामान्यमेतद्द्रविणं न मिथ्या वचनं मम ॥

3.62.18

पुनरेवाभिधास्यामि चिन्तयध्वं सुकातराः ।
एवमेवाभिभाषन्तो विद्रवन्ति भयात्तदा ॥

3.62.19

तस्मिंस्तथा वर्तमाने दारुणे जनसन्क्षये । दमयन्ती च बुबुधे भयसन्त्रस्तमानसा ।
अपश्यद्वैशसं तत्र सर्वलोकभयन्करम् ॥

3.62.20

अदृष्टपूर्वं तद्दृष्ट्वा बाला पद्मनिभेक्षणा ।
संसक्तवदनाश्वासा उत्तस्थौ भयविह्वला ॥

3.62.21

ये तु तत्र विनिर्मुक्ताः सार्थात्केचिदविक्षताः ।
तेऽब्रुवन्सहिताः सर्वे कस्येदं कर्मणः फलम् ॥

3.62.22

नूनं न पूजितोऽस्माभिर्मणिभद्रो महायशाः ।
तथा यक्षाधिपः श्रीमान्न वै वैश्रवणः प्रभुः ॥

3.62.23

न पूजा विघ्रकर्तॄणामथवा प्रथमं कृता ॥

3.62.24

शकुनानां फलं वाऽथ विपरीतिमिदं ध्रुवम् ।
ग्रहा न विपरीतास्तु किमन्यदिदमागतम् ॥

3.62.25

अपरे त्वब्रुवन्दीना ज्ञातिद्रव्यविनाकृता ।
याऽसावद्य महासार्थे नारी ह्युन्मत्तदर्शना ॥

3.62.26

प्रविष्टा विकृताकारा कृत्वा रूपममानुषम् ।
तयैवं विहिता पूर्वं माया परमदारुणा ॥

3.62.27

राक्षसी वा ध्रुवं यक्षी पिशाची वा भयन्करी ।
तस्याः सर्वमिदं पापं नात्र कार्या विचारणा ॥

3.62.28

यदि पश्याम तां पापां सार्थघ्नीं नैकदुःखदाम् । लोष्टभिः पांसुभिश्चैव तृणैः काष्ठैश्च मुष्टिभिः ।
अवश्यमेव हन्यामः सार्थस्य किल कृत्यकाम् ॥

3.62.29

दमयन्ती तु तच्छ्रुत्वा वाक्यं तेषां सुदारुणम् ।
ह्रीता भीता च संविग्रा प्राद्रवद्यत्र काननम् ॥

3.62.30

आशङ्कमाना तत्पापमात्मानं पर्यदेवयत् ॥

3.62.31

अहो ममोपरि विधेः संरम्भो दारुणो महान् ।
नानुबध्नाति कुशलं कस्येदं कर्मणः फलम् ॥

3.62.32

न स्मराम्यशुभं किञ्चित्कृतं कस्यचिदण्वपि ।
कर्मणा मनसा वाचा कस्येदं कर्मणः फलम् ॥

3.62.33

नूनं जन्मान्तरकृतं पापां माऽपतितं महत् ।
अपश्चिमामिमां कष्टामापदं प्राप्तवत्यहम् ॥

3.62.34

भर्तृराज्यापहरणं स्वजनाच्च रपराजयः । भर्त्रा सह वियोगश्च तनयाभ्यां च विच्युतिः ।
निर्नाथता वने वासो बहुव्यालनिषेविते ॥

3.62.35

अथापरेद्युः सम्प्राप्ते हतशिष्टा जनास्तदा । वनगुल्माद्विनिष्क्रम्य शोचन्ते वैशसं कृतम् ।
भ्रातरं पितरं पुत्रं सखायं च नराधिप ॥

3.62.36

हन्यमाने तदा सार्थे दमयन्ती शुचिस्मिता । ब्राह्मणैः सहिता तत्रवने तु न विनाशिता ॥

3.62.37

अशोचत्तत्र वैदर्भी किन्नु मे दुष्कतं कृतम् ।
योपि मे निर्जनेऽरण्ये सम्प्राप्तोऽयं जनार्णवः ॥

3.62.38

स हतो हस्तियूथेन मन्दभाग्यान्ममैव तत् ।
प्राप्तव्यं सुचिरं दुःखं नूनमद्यापि वै मया ॥

3.62.39

नाप्राप्तकालो म्रियते श्रुतं वृद्धानुशासनम् ।
या नाहमद्य मृदिता हस्तियूथेन दुःखिता ॥

3.62.40

न ह्यदैवकृतन्किञ्चिन्नराणामिह विद्यते ।
न च मे बालभावेऽपि किञ्चित्पापकृतं कृतम् ॥

3.62.41

कर्मणा मनसा वाचा यदिदं दुःखमागतम् ।
मन्ये स्वयंवरकृतेलोकपाला समागताः ॥

3.62.42

प्रत्याख्याता मया तत्र नलस्यार्थाय देवताः ।
नूनं तेषां प्रभावेन वियोगं प्राप्तवत्यहम् ॥

3.62.43

एवमादीनि दुःखार्ता सा विलप्य वराङ्गना ।
प्रलापानि तदा तानि दमयन्ती पतिव्रता ॥

3.62.44

हतशेषैः सह तदा ब्राह्मणैर्वेदपारगैः ।
अगच्छद्राजशार्दूल दुःखशोकपरायणा ॥

3.62.45

गच्छन्ती सा चिराद्बाला पुरमासादयन्महत् ।
सायाह्नि चेदिराजस् सुबाहोः सत्यवादिनः ॥

3.62.46

सा तु तच्चारुसर्वाङ्गी सुबाहोस्तुङ्गगोपुरम् । वस्त्रार्धेन च संवीता प्रविवेश पुरोत्तमम् ॥

3.62.47

तां विह्वलां कृशां दीनां मुक्तकेशीममार्जिताम् ।
उन्मत्तामिव गच्छन्तीं ददृशुः पुरवासिनः ॥

3.62.48

प्रविशन्तीं तु तां दृष्ट्वा चेदिराजपुरीं तदा ।
अनुजग्मुस्तत्र बाला ग्रामिपुत्राः कुतूहलात् ॥

3.62.49

सा तैः परिवृताऽगच्छत्समीपं राजवेश्मनः ।
तां प्रासादगताऽपश्यद्राजमाता जनैर्वृताम् ॥

3.62.50

धात्रीमुवाच च्छैनामानयेह ममान्तिकम् ।
जनेन क्लिश्यते बाला दुःखिता शरणार्थिनी ॥

3.62.51

तादृग्रूपं च पश्यामि विद्योतयति मे गृहम् ।
उन्मत्तवेषा कल्याणी श्रीरिवायतलोचना ॥

3.62.52

सा जनं वारयित्वा तं प्रासादतलमुत्तमम् ।
आरोप्य विस्मिता राजन्दमयन्तीमपृच्छत ॥

3.62.53

एवमप्यसुखाविष्टा बिभर्षि परमं वपुः ।
भासि विद्युदिवाभ्रेषु शंस मे काऽसिकस्य वा ॥

3.62.54

न हि ते मानुषं रूपं भूषणैरपि वर्जितम् ।
असहाया नरेभ्यश्च नोद्विजस्यमरप्रभे ॥

3.62.55

तच्छ्रुत्वा वचनं तस्या भैमी वचनमब्रवीत् ।
मानुषीं मां विजानीहि भर्तारं समनुव्रताम् ॥

3.62.56

सैरन्ध्रीं जातिसम्पन्नां भुजिष्यां कामवासिनीम् ।
फलमूलाशनामेकां यत्रसायम्प्रतिश्रयाम् ॥

3.62.57

असङ्ख्येयगुणो भर्ता मां च नित्यमनुव्रतः ।
भक्ताऽहमपि तं वीरं छायेवानुगता पथि ॥

3.62.58

तस्य दैवात्प्रसङ्गोऽभूदतिमात्रं सुदेवने ।
द्यूते स निर्जितश्चैव वनमेक उपेयिवान् ॥

3.62.59

तमेकवसनच्छन्नमुन्म्तमिव विह्वलम् ।
आश्वासयन्ती भर्तारमहमप्यगमं वनम् ॥

3.62.60

स कदाचिद्वने वीरः कस्मिंश्चित्कारणान्तरे ।
क्षुत्परीतस्तु विमना वासश्चैकं व्यसर्जयत् ॥

3.62.61

तमेकवसना नग्नमुन्मत्तवदचेतसम् ।
अनुव्रजन्ती बहुला न स्वपामि निशाः सदा ॥

3.62.62

ततो बहुतिथे काले सुप्तामुत्सृज्य मां क्वचित् ।
वाससोऽर्धं परिच्छिद्य त्यक्तवान्मामनागसम् ॥

3.62.63

तं मार्गमाणा भर्तारं दह्यमाना दिवानिशम् ।
न विन्दाम्यमरप्रख्यं प्रियं प्राणेश्वरं प्रभुम् ॥

3.62.64

इत्युक्त्वा साऽनवद्याङ्गी राजमातरमप्युत ।
स्थिताऽश्रुपरिपूर्णाक्षी वेपमाना सुदुःखिता ॥

3.62.65

तामश्रुपरिपूर्णाक्षीं विलपन्तीं तथा बहु ।
राजमाताऽब्रवीदार्ता भैमीमार्तस्वरां स्वयम् ॥

3.62.66

वस त्वमिह कल्याणि प्रीतिर्मे परमा त्वयि ।
मृगयिष्यन्ति ते भद्रे भर्तारं पुरुषा मम ॥

3.62.67

अपि वा स्वयमागच्छेत्परिधावन्नितस्ततः ।
इहैव वसती भद्रे भर्तारमुपलप्स्यसे ॥

3.62.68

राजमातुर्वचः श्रुत्वा दमयन्ती वचोऽब्रवीत् ।
समयेनोत्सहे वस्तुं त्वि वीरप्रजायिनि ॥

3.62.69

उच्छिष्टं नैव भुञ्जीयां न कुर्यां पादधावनम् ।
न चाहं पुरुषानन्यान्प्रभाषेयं कथञ्चन ॥

3.62.70

प्रार्थयेद्यदि मां कश्चिद्दण्ड्यस्ते स पुमान्भवेत् ।
वध्यश्च ते सकृन्मन्द इतिमे व्रतमाहितम् ॥

3.62.71

भर्तुरन्वेषणार्थं तु पश्येयं ब्राह्मणानहम् । यद्येवमिह वत्स्यामि त्वत्सकाशे न संशयः ।
अतोऽन्यथा न मे वासो वर्तते हृदये क्वचित् ॥

3.62.72

इत्युक्ता दमयन्त्या तु राजमातेदमब्रवीत् ।
सर्वमेतत्करिष्यामि दिष्ट्या ते व्रतमीदृशम् ॥

3.62.73

एवमुक्त्वा ततो भैमीं राजमाता विशाम्पते ।
उवाचेदं दुहितरं सुनन्दां नाम भारत ॥

3.62.74

सैरन्ध्रीमभिजानीष्व सुनन्दे देवरूपिणीम् । वयसा तुल्यतां प्राप्ता सखी तव भवत्वियम् ।
एतया सह मोदस्व निरुद्विग्रमना सदा ॥

3.62.75

ततः परमसंहृष्टा सुनन्दा गृहणागमत् ।
दमयन्तीमुपादाय सखीभिः परिवारिता ॥

3.62.76

सहसा न्यवसद्राजन्राजपुत्र्या सुनन्दया । चिन्तयन्ती नलं वीरमनिशं वामलोचना ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc