भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 3.61

3.61.1

सा निहत्य मृगव्याधं प्रतस्थे कमलेक्षणा ।
वनं प्रतिभयं शून्यं झिल्लिकागणनादितम् ॥

3.61.2

सिंहद्वीपिरुरुव्याघ्रवराहर्क्षगणैर्युतम् ।
नानापक्षिगणाकीर्णां म्लेच्छतस्करसेवितम् ॥

3.61.3

सालवेणुधवाश्वत्थतिन्दुकेङ्गुदिकिंशुकैः ।
अर्जुनारिष्टसञ्छन्नं स्यन्दनैश्च सशाल्मलैः ॥

3.61.4

जम्ब्वाम्रलोध्रखदिरशाकवेत्रसमाकुलम् ।
पद्मकामलकप्लक्षकदम्बोदुम्बरावृतम् ॥

3.61.5

बदरीबिल्वसञ्छन्नं न्यग्रोधैश्च समाकुलम् ।
प्रियालतालखर्जूरहरीतकिबिभीतकैः ॥

3.61.6

नानाधातुशतैर्नद्धान्विविधानपि चाचलान् ।
निकुञ्जान्पक्षिसन्घुष्टान्दरीश्चाद्भुतदर्शनाः ॥

3.61.7

नदी सरांसि वापीश्च विविधांश्चरतो द्विजान् ।
सा बहून्भीमरूपांश्च पिशाचोरगराक्षसान् ॥

3.61.8

पल्वलानि तटाकानि गिरिकूटानि सर्वशः ।
सरित्सरांसि च तदा ददर्शाद्भुतदर्शनाम् ॥

3.61.9

यूथशो ददृशे चात्र विदर्भाधिपनन्दिनी ।
महिषान्वराहान्गोमायूनृक्षवानरपन्नगान् ॥

3.61.10

तेजसा यशसा लक्ष्म्या स्थित्या च परया युता ।
वैर्दभी विचचारैका नलमन्वेषती तदा ॥

3.61.11

नाबिभ्यत्सा नृपसुता भैमी तत्राथ कस्यचित् ।
दारुणामटवीं प्राप्य भर्तृव्यसनकर्शिता ॥

3.61.12

विदर्भतनया राजन्विललाप सुदुःखिता ।
भर्तृशोकपरीताङ्गी शिलातलमथाश्रिता ॥
दमयन्त्युवाच ।

3.61.13

सिह्योरस्क महाबाहो निषधानां जनाधिप ।
क्वनु राजन्गतोसि त्वं त्यक्त्वा मां विजने वने ॥

3.61.14

अश्वमेधादिभिर्वीर क्रतुभिश्चाप्तदक्षिणैः ।
कथमिष्ट्वा नरव्याघ्र मयि मिथ्या प्रवर्तसे ॥

3.61.15

यत्त्वयोक्तं नरश्रेष्ठ मत्समक्षं महाद्युते ।
कर्तुमर्हसि कल्याण तदृतं पार्थिवर्षभ ॥

3.61.16

यच्चोक्तं विहगैर्हंसैः समीपे तव भूमिप ।
मत्सकाशे च तैरुक्तं तदवेक्षितुमर्हसि ॥

3.61.17

चत्वार एकतो वेदाः साङ्गोपाङ्गाः सविस्तराः ।
स्वधीता मनुजव्याघ्र सत्यमेकं किलैकतः ॥

3.61.18

तस्मादर्हसि शत्रुघ्न सत्यं कर्तुं नरेश्वर ।
उक्तवानसि यद्वीर मत्सकाशे पुरा वचः ॥

3.61.19

हा वीर ननुनामाहमिष्टा किल तवानघ ।
अस्यामटव्यां घोरायां किं मां न प्रतिभाषसे ॥

3.61.20

भर्त्सयत्येष मां रौद्रो व्यात्तास्यो दारुणाकृतिः ।
अरण्यराट् क्षुधाविष्टः किं मां न त्रातुमर्हसि ॥

3.61.21

न मे त्वदन्या काचिद्धि प्रियाऽस्तीत्यब्रवीस्तदा ।
तामृतां कुरु कल्याण पुरोक्तां भारतीं नृप ॥

3.61.22

उन्मत्तां विलपन्तीं मां भार्यामिष्टां नराधिप ।
ईप्सितामीप्सितोसि त्वं किं मां न प्रतिभाषसे ॥

3.61.23

कृशां दीनां विवर्णां च मलिनां वसुधाधिप ।
वस्त्रार्धप्रावृतामेकां विलपन्तीमनाथवत् ॥

3.61.24

यूथभ्रष्टामिवैकां मां हरिणीं पृथुलोचन ।
न मानयसि मामार्य रुदन्तीमरिकर्शन ॥

3.61.25

महाराज महारण्ये मामिहैकाकिनीं सतीम् ।
आभाषमाणां स्वां पत्नीं किं मां न प्रतिभाषसे ॥

3.61.26

कुलशीलोपसम्पन्नां चारुसर्वाङ्गशोभनाम् । अनुव्रतां महाराज किं मां न प्रतिभाषसे ॥

3.61.27

नाद्यत्वां प्रतिपश्यामि गिरावस्मिन्नरोत्तम ।
वने चास्मिन्महाधोरे सिंहव्याघ्रनिषेविते ॥

3.61.28

शयानमुपविष्टं वा स्थितं वा निषधाधिप ।
प्रस्थितं वा नरश्रेष्ठ मम शोकनिबर्हण ॥

3.61.29

कं नु पृच्छामि दुःखार्ता त्वदर्थे शोककर्शिता ।
कच्चिद्दृष्टस्त्वयाऽरण्ये सन्गत्येति नलो नृपः ॥

3.61.30

को नु मे कथयेदद्य वनेऽस्मिन्विष्ठितं नृपम् ।
अभिरूपं महात्मानं परव्यूहविनाशनम् ॥

3.61.31

यमन्वेपसि राजानं नलं पद्मनिभेक्षणम् ।
अयंस इति कस्याद्य श्रोष्यामि मधुरां गिरम् ॥

3.61.32

अरण्यराडयं श्रीमांश्चतुर्दंष्ट्रो महाहनुः ।
शार्दूलोऽभिमुखोऽभ्येति पृच्छाम्येनमशङ्किता ॥

3.61.33

भवान्मृगाणामधिपस्त्वमस्मिन्कानने प्रभुः ।
विदर्भराजतनयां दमयन्तीति विद्धि माम् ॥

3.61.34

निषधाधिपतेर्भार्यां नलस्यामित्रघातिनः ।
पतिमन्वेषतीमेकां कृपणां शोककर्शिताम् ॥

3.61.35

आश्वासय मृगेन्द्रेह यदि दृष्टस्त्वया नलः । सिंहस्कन्धो महाबाहुः पद्मपत्रनिभेक्षणः ॥

3.61.36

अथवाऽरण्यनृपते नलं यदि न शंससि ।
मां खादय मृगश्रेष्ठ दुःखादस्माद्विमोचय ॥

3.61.37

श्रुत्वाऽरण्ये विलपितं ममैष मृगराट् स्वयम् ।
यात्येष मृष्टसलिलामापगां सागरोपमाम् ॥

3.61.38

इमं शिलोच्चयं पृच्छे शृङ्गैर्बहुभिरुच्छितैः ।
विराजितं दिवस्पृग्भिर्नैकवर्णैर्मनोरमैः ॥

3.61.39

नानाधातुसमाकीर्णं विविधोपलभूषितम् ।
आस्यारण्यस्य महतः केतुभूतमिवोच्छितम् ॥

3.61.40

सिंहशार्दूलमातङ्गवराहर्क्षमृगायुतम् ।
पतत्रिभिर्बहुविधैः समन्तादनुनादितम् ॥

3.61.41

किंशुकाशोकबकुलपुन्नागैरुपशोभितम् । [कर्णिकारधवप्लक्षैः सुपुष्पैरुपशोभितम् ॥ ]

3.61.42

सरिद्भिः सविहङ्गाभिः शिखरैश्च समाकुलम् । पृथिव्या रुचिराकारं चूडामणिमिव स्थितम् ।
निरिराजमिमं तावत्पृच्छामि नृपतिं प्रति ॥

3.61.43

भगवन्नचलश्रेष्ठ दिव्यद्रशन विश्रुत ।
शरण्य बहुकल्याण नमस्तेऽस्तु महीधर ॥

3.61.44

प्रणमे त्वाऽभिगम्याहं राजपुत्रीं निबोध माम् ।
राजस्नुषां राजभार्यां दमयन्तीति विश्रुताम् ॥

3.61.45

राजा विदर्भाधिपतिः पिता मम महारथः ।
भीमो नाम क्षितिपतिश्चातुर्वर्ण्यस्य रक्षिता ॥

3.61.46

राजसूयाश्वमेधानां क्रतूनां दक्षिणावताम् ।
आहर्ता पार्थिवश्रेष्ठः पृथुचार्वञ्चितेक्षणः ॥

3.61.47

ब्रह्मण्यः साधुवृत्तश्च सत्यवागनसूयकः ।
शीलवान्वीर्यसम्पन्नः पृथुश्रीर्धर्मविच्छुचिः ॥

3.61.48

सम्यग्गोप्ता विदर्भाणां निर्जितारिगणः प्रभुः ।
तस्य मां विद्धि तनयां भगवंस्त्वामुपस्थिताम् ॥

3.61.49

निषधेषु महाराजः श्वशुरो मे नरोत्तमः ।
गृहीतनामा विख्यातो वीरसेन इति स्म ह ॥

3.61.50

तस्य राज्ञः सुतो वीरः श्रीमान्सत्यपराक्रमः ।
क्रमप्राप्तं पितुः स्वं यो राज्यं समनुशास्ति ह ॥

3.61.51

नलो नामारिहा श्यामः पुण्यल्को इति श्रुतः ।
ब्रह्मण्यो वेदविद्वाग्मी पुण्यकृत्सोमपोऽग्निचित् ॥

3.61.52

यष्टा दाता च योद्धा च सम्यक्चैव प्रशासिता ।
तस्य मामचलश्रेष्ठ विद्धि भार्यामिहागताम् ॥

3.61.53

त्यक्तश्रियं भर्तृहीनामनाथां व्यसनान्विताम् ।
अन्वेषमाणां भर्तारं नलं नरवरोत्तमम् ॥

3.61.54

खमुल्लिखद्भिरेतैर्हि त्वया शृङ्गशतैर्नृपः ।
कच्चिद्दृष्टोऽचलश्रेष्ठ वनेऽस्मिन्दारुणे नलः ॥

3.61.55

विक्रान्तः सत्त्ववान्वीरो भर्ता मम महायशाः ।
निषधानामधिपतिः कच्चिद्दृष्टस्त्वया नलः ॥

3.61.56

कं मीं विलपतीमेकां पर्वतश्रेष्ठ विह्वलाम् ।
गिरा नाश्वासयस्यद्यस्वां सुतामिव दुखितां ॥

3.61.57

वीर विक्रान्त धर्मज्ञ सत्यसन्ध महीपते ।
यद्यस्यस्मिन्वने राजन्दर्शयात्मानमात्मना ॥

3.61.58

कदा सुस्निग्गम्भीरां जीमूतस्वनसन्निभाम् ।
श्रोष्यामि नैषधस्याहं वाचं ताममृतोपमाम् ॥

3.61.59

वैदर्भ्येहीति विस्पष्टां शुभां राज्ञो महात्मनः ।
आत्माभिधायिनीमृद्धां मम शोकविनाशिनीं ॥

3.61.60

इतिसा तं गिरिश्रेष्ठमुक्त्वा पार्थिवनन्दिनी ।
दमयन्ती ततो भूयो जगाम दिशमुत्तराम् ॥

3.61.61

सा गत्वा त्रीनहोरात्रान्ददर्श परमाङ्गना ।
तापसारण्यमतुलं दिव्यकाननशोभितम् ॥

3.61.62

वसिष्ठभृग्वत्रिसमैस्तापसैरुपशोभितम् ।
नियतैः संयताहारैर्दमशौचसमन्वितैः ॥

3.61.63

अब्भक्षैर्वायुभक्षैश्च पत्राहारैस्तथैव च ।
जितेन्द्रियैर्महाभागैः स्वर्गमार्गदिदृक्षुभिः ॥

3.61.64

वल्कलाजिनसंवीतैर्मुनिभिः संयतेन्द्रियैः ।
तापसाध्युषितं रम्यं ददर्शाश्रममण्डलम् ॥

3.61.65

नानामृगगणैर्जुष्टं शाखामृगगणायुतम् ।
तापसैः समुपेतं च सा दृष्ट्वैव समाश्वसत् ॥

3.61.66

सुभ्रूः सुकेशी सुश्रोणी सुकुचा सुद्विजानना ।
वर्चस्विनी सुप्रतिष्ठा स्वसितायतलोचना ॥

3.61.67

सा विवेशाश्रमपदं वीरसेनसुतप्रिया ।
योषिद्रत्नं महाभागा दमयन्ती तपस्विनी ॥

3.61.68

साऽभिवाद्य तपोवृद्धान्विनयावनता स्थिता ।
स्वागतं त इतिप्रोक्ता तैः सर्वैस्तापसोत्तमैः ॥

3.61.69

पूजां चास्या यथान्यायं कृत्वा तत्रतपोधनाः ।
आस्यतामित्यथोचुस्ते ब्रूहि किं करवामहे ॥

3.61.70

तानुवाच वरारोहा कच्चिद्भगवतामिह ।
तपःस्वग्निषु धर्मेषु मृगपक्षिषु चानघाः ॥

3.61.71

कुशलं वो महाभागाः स्वधर्माचरणेषु च ।
तैरुक्ता कुशलं भद्रे सर्वत्रेति यशस्विनी ॥

3.61.72

ब्रूहि सर्वानवद्याङ्गि का त्वं किञ्च चिकीर्षसि ।
दृष्ट्वैव ते परंरूपं द्युतिं च परमामिह ॥

3.61.73

विस्मयो नः समुत्पन्नः समाश्वसिहि मा शुचः । अस्यारण्यस्य देवी त्वमुताहोऽस्य महीभृतः ।
अस्याश्च नद्याः कल्याणि वद सत्यमनिन्दिते ॥

3.61.74

साऽब्रवीत्तानृपीन्नाहमरण्यस्यास्य देवता ।
न चाप्यस्य गिरर्विप्रा नैव नद्याश्च देवता ॥

3.61.75

मानुषीं मां विजानीत यूयं सर्वेतपोधनाः ।
विस्तरेणाभिधास्यामि तन्मे शृणुत सर्वशः ॥

3.61.76

विदर्भेपु महीपालो भीमो नाम महीपतिः ।
तस्य मां तनयां सर्वे जानीत द्विजसत्तमाः ॥

3.61.77

निपधाधिपतिर्धीमान्नलो नाम महायशाः ।
वीरः सन्ग्रामजिद्विद्वान्मम भर्ता विशाम्पतिः ॥

3.61.78

देवताभ्यर्चनपरो द्विजातिजनवत्सलः ।
गोप्ता निपधवंशस्य महातेजा महाबलः ॥

3.61.79

सत्यवान्धर्मवित्प्राज्ञः सत्यसन्धोऽरिमर्दनः ।
ब्रह्मण्यो दैवतपरः श्रीमान्परपुरञ्जयः ॥

3.61.80

नलो नाम नृपश्रेष्ठो देवराजसमद्युतिः ।
मम भर्ता विशालाक्षः पूर्णेन्दुवदनोऽरिहा ॥

3.61.81

आहर्ता क्रतुमुख्यानां वेदवेदाङ्गपारगः ।
सपत्नानां मृधे हन्ता रविसोमसमप्रभः ॥

3.61.82

स कैश्चिन्निकृतिप्रज्ञैरनार्यैरकृतात्मभिः । आहृय पृथिवीपालः सत्यधर्मपरायणः ।
देवनेकुशलैर्जिह्मैर्जितो राज्यं वसूनि च ॥

3.61.83

तस्य मामवगच्छध्वं भार्यां राजर्पभस्य वै ।
दमयन्तीति विख्यातां भर्तुर्दर्शनलालसाम् ॥

3.61.84

सा वनानि गिरींश्चैव सरांसि सरितस्तथा ।
पल्वलानि च सर्वाणि तथाऽरण्यानि सर्वशः ॥

3.61.85

अन्वेपमाणआ भर्तारं नलं रणविशारदम् ।
महात्मानं कृतास्त्रं च विचरामीह दुःखिता ॥

3.61.86

कच्चिद्भगवतां रम्यं तपोवनमिदं नृपः ।
भवेत्प्राप्तो नलो नाम निपधानां जनाधिपः ॥

3.61.87

यत्कृतेऽहमिदं दुःखं प्रपन्ना भृशदारुणम् ।
वनं प्रतियं धोरं शार्दूलमृगसेवितम् ॥

3.61.88

यदि कैश्चिदहोरात्रैर्न द्रक्ष्यामि नलं नृपम् ।
आत्मानं श्रेयसा योक्ष्ये देहस्यास्य विमोक्षणात् ॥

3.61.89

कोनु मे जीवितेनार्थस्तमृते पुरुषर्षभम् ।
कथं भविष्याम्यद्याहं भर्तृशोकाभिपीडिता ॥

3.61.90

तथा विलपतीमेकामरण्ये भीमनन्दिनीम् ।
दमयन्तीमथोचुस्ते तापसाः सत्यवादिनः ॥

3.61.91

उदर्कस्तव कल्याणि कल्याणो भविता शुभे ।
वयं पश्याम तपसा क्षिप्रं द्रक्ष्यसि नैषधम् ॥

3.61.92

निपधानामधिपतिं नलं रिपुनिपातिनम् ।
भैमि धर्मभृतां श्रेष्ठं द्रक्ष्यसे विगतज्वरम् ॥

3.61.93

विमुक्तं सर्वपापेभ्यः सर्वरत्नसमन्वितम् ।
तदेव नगरं श्रेष्ठं प्रशासतमरिन्दमम् ॥

3.61.94

द्विपतां भयकर्तारं सुहृदां शोकनाशनम् ।
पतिमेष्यसि कल्याणि कल्याणाभिजनं नृपम् ॥

3.61.95

एवमुक्त्वा नलस्येष्टां महिषीं पार्थिवात्मजाम् ।
अन्तर्हितास्तापसास्ते साग्निहोत्राश्रमास्तथा ॥

3.61.96

सा दृष्ट्वा महदाश्चर्यं विस्मिता ह्यभवत्तदा ।
दमयन्त्यनवद्याङ्गी वीरसेननृपस्नुषा ॥

3.61.97

चिन्तयामास वैदर्भी किमेतद्दृष्टवत्यहम् ॥

3.61.98

किन्नु स्वप्नो मया दृष्टः कोऽयंविधिरिहाभवत् ।
क्वनु ते तापसाः सर्वे क्व तदाश्रममण्डलम् ॥

3.61.99

क्व सा पुण्यजला रम्या नदी द्विजनिषेविता ।
क्वनु ते ह नगा हृद्याः फलपुष्पोपशोभिताः ॥

3.61.100

इत्येवं नरशार्दूल विस्मिता कमलेक्षणा । ध्यात्वा चिरं भीमसुता दमयन्ती शुचिस्मिता ।
भर्तृशोकपरा दीनाविवर्णवदनाऽभवत् ॥

3.61.101

सा गत्वाऽथापरां भूमिं बाष्पसन्दिग्धया गिरा ।
विललापाश्रुपूर्णाक्षी दृष्ट्वाऽशोकतरुं ततः ॥

3.61.102

उपगम्य तरुश्रेष्ठमशोकं पुष्पितं वने ।
पल्लवापीडितं हृद्यं विहङ्गैरनुनादितम् ॥

3.61.103

अहो बतायमगमः श्रीमानस्मिन्वनान्तरे ।
आपीडैर्बहुभिर्भाति श्रीमान्पर्वतराडिव ॥

3.61.104

विशोकां कुरु मां क्षिप्रमशोक प्रियदर्शन ।
वीतशोकभयाबाधं कच्चित्त्वं दृष्टवान्नृपम् ॥

3.61.105

नलं नामारिदमनं नमयन्त्याः प्रियं पतिम् ।
निमधानामधिपतिं दृष्टवानसि मे प्रियम् ॥

3.61.106

एकवस्त्रार्धसंवीतं सुकुमारतनुत्वचम् ।
व्यसनेनार्दितं वीरमरण्यमिदमागतम् ॥

3.61.107

यथा विशोका गच्छेयमशोकनग तत्कुरु ।
सत्यनामा भवाशोक मम शोकविनाशनात् ॥

3.61.108

एवंसाऽशोकवृत्तं तमार्ता वै परिगम्य ह ।
जगाम दारुणतरं देशं भैमी वराङ्गना ॥

3.61.109

सा ददर्श नागान्नैकान्नैकाश्च सरितस्तथा ।
नैकांश्च पर्वतान्रम्यान्नैकांश्च मृगपक्षिणः ॥

3.61.110

कन्दरांश्च नितम्बांश्च नदीश्चाद्भुतदर्शनाः ।
ददर्श तान्भीमसुता पतिमन्वेषती तदा ॥

3.61.111

गत्वा प्रकृष्टमध्वानं दमयन्ती शुचिस्मिता ।
ददर्शाथ महासार्थं हस्त्यश्वरथसन्कुलम् ॥

3.61.112

उत्तरन्तं नदीं रम्यां प्रसन्नसलिलां शुभाम् ।
सुशीततोयां विस्तीर्णां ह्रदिनीं वेतसैर्वृताम् ॥

3.61.113

प्रोद्धुष्टां क्रौञ्चकुररैश्चक्रबाकोपकूजिताम् ।
कूर्मग्राहझवाकीर्णां विपुलद्वीपशोभिताम् ॥

3.61.114

सा दृष्ट्वैव महासार्थं नलपत्नी यशस्विनी ।
उपसर्प्य वरारोहा जनमध्यं विवेश ह ॥

3.61.115

उन्मत्तरूपा शोकार्ता तथा वस्त्रार्धसंवृता ।
कृशा विवर्णा मलिना पांसुध्वस्तशिरोरुहा ॥

3.61.116

तां दृष्ट्वा तत्रमनुजाः केचिद्भीताः प्रदुद्रुवुः ।
केचिच्चिन्तापरास्तस्थुः केचित्तत्रविचुक्रुशुः ॥

3.61.117

प्रहसन्ति स्म तां केचिदभ्यसूयन्ति चापरे ।
कुर्वन्त्यस्यान्दयान्केचित्पप्रच्छुश्चापि भारत ॥

3.61.118

काऽसि कस्यासि कल्याणि किं वा मृगयसे वने ।
त्वां दृष्ट्वा व्यथिताः स्मेह कच्चित्त्वमसिं मानुषी ॥

3.61.119

वद सत्यं वनस्यास्य पर्वतस्याथवा दिशः ।
देवता त्वं हि कल्याणि त्वां वयं शरणं गताः ॥

3.61.120

यक्षी वा राक्षसी वा त्वमुताहोसि सुराङ्गना ।
सर्वथाकुरु नः स्वस्ति रक्ष चास्माननिन्दिते ॥

3.61.121

यथाऽयंसर्वथा सार्थः क्षेमी शीघ्रमितो व्रजेत् ।
तथा विधत्स्व कल्याणि यथा श्रेयो हि नो भवेत् ॥

3.61.122

तथोक्ता तेन सार्थेन दमयन्ती नृपात्मजा ।
प्रत्युवाच ततः साध्वी भर्तृव्यसनपीडिता ॥

3.61.123

सार्तवाहं च सार्थं च जना ये चात्र केचन ।
युवस्थविरबालाश् सार्थस्य च पुरोगमाः ॥

3.61.124

मानुषीं मां विजानीत मनुजाधिपतेः सुताम् ।
नृपस्नुषां राजभार्यां भर्तृदर्शनलालसाम् ॥

3.61.125

विदर्भराण्मम पिता भर्ता राजा च नैषधः ।
नलोनाम महाभागस्तं मार्गाम्यपराजितम् ॥

3.61.126

यदि जानीत नृपतिं क्षिप्रं शंसत मे प्रियम् ।
नलं पुरुषशार्दूलममित्रगणसूदनम् ॥

3.61.127

तामुवाचानवद्याङ्गीं सार्थस्य महतः प्रभुः ।
सार्थवाहः शुचिर्नाम शृणु कल्याणि मद्वचः ॥

3.61.128

अहं सार्थस्य नेता वै सार्थवाहः शुचिस्मिते ।
मनुष्यं नलनामानं न पश्यामि यशस्विनि ॥

3.61.129

कुञ्जरद्वीपिमहिषशार्दूलर्क्षमृगानपि ।
पश्याम्यस्मिन्वने कृत्स्ने ह्यमनुष्यनिषेविते ॥

3.61.130

ऋते त्वां मानुषीं मर्त्यं न पश्यामि महावने ।
तथा नो यक्षराडद्य मणिभद्रः प्रसीदतु ॥

3.61.131

साऽब्रवीद्वणिजः सर्वान्सार्थवाहं च तं ततः ।
क्वनु यास्यति सार्थोऽयमेतदाख्यातुमर्हसि ॥
सार्तवाह उवाच ।

3.61.132

सार्थोऽयं चेदिराजस्य सुबाहोः सत्यदर्शिनः । क्षिप्रं जनपदं गन्ता लाभाय मनुजात्मजे ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc