भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 3.63

3.63.1

उत्सृज्य दमयन्तीं तु नलो राजा विशाम्पते ।
ददर्श दावं दह्यन्तं महान्तं गहने वने ॥

3.63.2

तत्र सुश्राव शब्दंवै मध्ये भूतस्य कस्यचित् ।
अभिधाव नलेत्युच्चैः पुण्यश्लोकेति चासकृत् ॥

3.63.3

मा भैरिति नलश्चोक्त्वा मध्यमग्नेः प्रविश्य तम् ।
दद्रश नागराजानं शयानं कुण्डलीकृतम् ॥

3.63.4

स नागः प्रञ्जलिर्भूत्वा वेपमानो नलं तदा ।
उवाच मां विद्धिराजन्नागं कर्कोटकं नृप ॥

3.63.5

मया प्रलब्धो ब्रह्मर्षिरनागाः सुमहातपाः ।
तेन मन्युपरीतेन शप्तोस्मि मनुजाधिप ॥

3.63.6

तिष्ठ त्वं स्थावर इव यावदेति नलः क्वचित् ।
इतो नेतासि तत्स त्वं शापान्मोक्ष्यसि मत्कृतात् ॥

3.63.7

तस्य शापान्न शक्नोमि पदाद्विचलितुं पदम् ।
उपदेक्ष्यामि ते श्रेयस्त्रातुमर्हति मां भवान् ॥

3.63.8

सखा च ते भविष्यामि मत्समो नास्ति पन्नगः ।
लघुश्च ते भविष्यामि शीघ्रमादाय गच्छ माम् ॥

3.63.9

एवमुक्त्वा स नागेन्द्रो बभूवाङ्गुष्ठमात्रकः ।
दं गृहीत्वा नलः प्रायाद्देशं दावविवर्जितम् ॥

3.63.10

आकाशदेशमासाद्य विमुक्तं कृष्णवर्त्मना ।
उत्स्रष्टुकामं तं नागः पुनः कर्कोटकोऽब्रवीत् ॥

3.63.11

पदानि गणयन्गच्छ स्वानि नैषध कानिचित् ।
तत्रतेऽहं महाबाहो श्रेयो धास्यामि यत्परम् ॥

3.63.12

ततः संख्यातुमारब्धमदशद्दशमे पदे ।
तस्य दष्टस्य तद्रूपं क्षिप्रमन्तरधीयत ॥

3.63.13

स दृष्ट्वा विस्मितस्तस्थावात्मानं विकृतं नलः ।
स्वरूपधारिणं नागं ददर्श स महीपतिः ॥

3.63.14

ततः कर्कोटको नागः सान्त्वयन्नलमब्रवीत् ।
मया तेऽन्तर्हितं रूपं न त्वां विद्युर्जना इति ॥

3.63.15

यत्कृते चासि निकृतो दुःखेन महता नल ।
विषेण स मदीयेन त्वयि दुःखं निवत्स्यति ॥

3.63.16

विषेण संवृतैर्गात्रैर्यावत्त्वां न विमोक्ष्यति ।
तावत्तु त्वां महाराज क्लेशेऽस्मिन्स नियोक्ष्यति ॥

3.63.17

अनागा येन निकृतस्त्वमनर्हो जनाधिप ।
क्रोधादसूययित्वा तं रक्षा मे भवतः कृता ॥

3.63.18

न ते भयं नरव्याघ्र दंष्ट्रिभ्यः शत्रुतोपि वा ।
ब्रह्मवित्त्वं च भविता मत्प्रसादान्नराधिप ॥

3.63.19

राजन्विषनिमित्ता च न ते पीडा भविष्यति ।
सन्ग्रामेषु न राजेन्द्रशश्वज्जयमवाप्स्यसि ॥

3.63.20

गच्छ राजन्नितः सूतो बाहुकोऽहमिति ब्रुवन् ।
समीपमृतुपर्णस्य स हि वेदाक्षनैपुणम् ॥

3.63.21

अयोध्यां नगरीं रम्यामद्य वै निषधेश्वर ।
स तेऽक्षहृदयं दाता राजाऽश्वहृदयेन वै ॥

3.63.22

इक्ष्वाकुकुलजः श्रीमान्मित्रं चैव भविष्यति ।
भविष्यसि यदाऽक्षज्ञः श्रेयसा योक्ष्यसे तदा ॥

3.63.23

संयोक्ष्यसे स्वदारैस्त्वं मा स्म शोके मनः कृथाः ।
राज्येन तनयाभ्यां च सत्यमेतद्ब्रवीमि ते ॥

3.63.24

स्वं रूपं च यदा द्रष्टुमिच्छेथास्त्वं नराधिप ।
संस्मर्तव्यस्तदा तेऽहंवासश्चदं विवासयेः ॥

3.63.25

अनेन वाससाच्छन्नः स्वं रूपं प्रतिपत्स्यसे ।
इत्युक्त्वा प्रददौ तस्मै दिव्यं वासोयुगं तदा ॥

3.63.26

एवं नलं च सन्दिश्य वासो दत्ताव च कौरव । नागराजस्ततो राजंस्तत्रैवान्तरधीयत ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc