भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 3.49

3.49.1

अस्त्रहेतोर्गते पार्थे शक्रलोकं महात्मनि ।
युधिष्ठिरप्रभृतयः किमकुर्वत पाण्डवाः ॥
वैशम्पायन उवाच ।

3.49.2

अस्त्रहेतोर्गते पार्थे शक्रलोकं महात्मनि ।
न्यवसन्कृष्णया सार्धं काम्यके भरतर्षभाः ॥

3.49.3

ततः कदाचिदेकान्ते विविक्ते मृदुशाद्वले ।
दुःखार्ता भरतश्रेष्ठा निषेदुः सह कृष्णया ॥

3.49.4

धनञ्जयं शोचमानाः साश्रुकण्ठाः सुदुःखिताः ।
तद्वियोगार्दितान्सर्वाञ्शोकः समभिपुप्लुवे ॥

3.49.5

धनञ्जयवियोगाच्च राज्यभ्रंशाच्च दुःखिताः ।
अथ भीमो महाबाहुर्युधिष्ठिरमभाषत ॥

3.49.6

निदेशात्ते महाराज गतोऽसौ भरतर्षभः ।
अर्जुनः पाण्डुपुत्राणां यस्मिन्प्राणाः प्रतिष्ठिताः ॥

3.49.7

यस्मिन्विनष्टे पाञ्चालाः सह पुत्रैस्तथा वयम् ।
सात्यकिर्वासुदेवश्च विनश्येयुर्न संशयाः ॥

3.49.8

योसौ गच्छति धर्मात्मा बहून्क्लेशान्विचिन्तयन् ।
भवन्नियोगाद्बीभत्सुस्ततो दुःखतरं नु किम् ॥

3.49.9

यस्य बाहू समाश्रित्य वयं सर्वे महात्मनः ।
मन्यामहे जितानाजौ परान्प्राप्तां च मेदिनीम् ॥

3.49.10

यस्य प्रभावाद्धि वयं सभामध्ये धनुष्मतः ।
जितान्मन्यामहे सर्वान्धार्तराष्ट्रात्ससौबलान् ॥

3.49.11

यस्य प्रभावान्न मया सभामध्ये महाबलाः ।
नीता लोकममुं सर्वे धार्तराष्ट्राः ससौबलाः ॥

3.49.12

तेवयं बाहुबलिनः क्रोधमुत्थितमात्मनः ।
सहामहे भवन्मूलं वासुदेवेन पालिताः ॥

3.49.13

मया हि सह कृष्णेन हत्वा कर्णमुखान्परान् ।
स्वबाहुविजितां कृत्स्नां प्रशाधीनां वसुन्धराम् ॥

3.49.14

भतो द्यूतदोषेण सर्वेवयमुपप्लुताः ।
अहीनपौरुषा राजन्बलिभिर्बलवत्तराः ॥

3.49.15

क्षात्रं धर्मं महाराज त्वमवेक्षितुमर्हसि ।
ग हिधर्मो महाराज त्रियस्य वनाश्रयः ॥

3.49.16

राज्यमेव परन्धर्मं क्षत्रियस्य विदुर्बुधाः ।
स क्षत्रधर्मविद्राजन्माधर्म्यान्नीनशः पथः ॥

3.49.17

प्राग्द्वादश समा राजन्धार्तराष्ट्रान्निहन्महि ।
निवर्त्य च वनात्पार्थमानाय्य च जनार्दनम् ॥

3.49.18

व्यूढानीकान्महाराज जवेनैव महाहवे ।
धार्तराष्ट्रानमुं लोकं गमयाम विशाम्पते ॥

3.49.19

सर्वानहं हनिष्यामि धार्तराष्ट्रान्ससौबलान् ।
दुर्योधनं च कर्णं च यो वाऽन्यः प्रतियोत्स्यते ॥

3.49.20

मया प्रशमिते पश्चात्त्वमेष्यसि वनं पुनः ।
एवं कृते न ते दोषो भविष्यति विशाम्पते ॥

3.49.21

यज्ञैश्च विविधैस्तात कृतम्पापमरिन्दम ।
अवधूय महाराजगच्छेम स्वर्गमुत्तमम् ॥

3.49.22

एवमेतद्भवेद्राजन्यदि राजा न बालिशः ।
अस्माकं दीर्घसूत्रः स्याद्भवान्धर्मपरायणः ॥

3.49.23

निकृत्या निकृतिप्रत्रा हन्तव्या इति निश्चयः । न हि नैकृतिकं हत्वा निकृत्या पापमुच्यते ।
तथा भारत धर्मेषु धर्मज्ञैरिह दृश्यते ॥

3.49.24

अहोरात्रं महाराज तुल्यं संवत्सरेण ह । तथैव वेदवचनं श्रूयते नित्यदा विभो ।
संवत्सरो महाराज पूर्णो भवति कृच्छ्रतः ॥

3.49.25

यदि वेदाः प्रमाणं ते दिवसादूर्ध्वमच्युत ।
तयोदशादितः कालो ज्ञायतां परिनिष्ठितः ॥

3.49.26

कालो दुर्योधनं हन्तुं सानुबन्धमरिन्दम ।
एकाग्रां पृथिवीं सर्वां पुरा राजन्करोति सः ॥

3.49.27

द्यूतप्रियेण राजेन्द्र तथा तद्भवता कृतम् ।
प्रायेणाज्ञातच्रयायां वयं सर्वेनिपातिताः ॥

3.49.28

न तं देशं प्रपश्यामि यत्र सोऽस्मान्सुदुर्जनः ।
न विज्ञास्यति दुष्टात्मा चारैरिति सुयोधनः ॥

3.49.29

अधिगम्य च सर्वान्नो वनवासमिमं ततः । प्रव्राजयिष्यतिपुनर्निकृत्याऽधमपूरुषः ।
यद्यस्मानभिगच्छेत पापः स हि कथञ्चन ॥

3.49.30

अज्ञातचर्यामुत्तीर्णान्दृष्ट्वा च पुनराह्वयेत् ।
द्यूतेन ते महाराज पुनर्युद्धं प्रवर्तते ॥

3.49.31

भवांश्च पुनराहूतो द्यूतेनैवापनेष्यति ।
स तथाऽक्षेषु कुशलो निश्चितो गतचेतनः ॥

3.49.32

चरिष्यसि महाराज वनेषु वसतीः पुनः ॥

3.49.33

यद्यस्मान्सुमहाराज कृपणान्कर्तुमर्हसि । यावज्जीवमवेक्षस्व वेदधर्मांश्च कृत्स्नशः ।
निकृत्या निकृतिप्रज्ञो हन्तव्य इति निश्चयः ॥

3.49.34

अनुज्ञातस्त्वया गत्वायावच्छक्ति सुयोधनम् । यथैव कक्षमुत्सृष्टो दहेदनिलसारथिः ।
हनिष्यामि तथा मन्दमनुजानातु मे भवान् ॥
वैशम्पायन उवाच ।

3.49.35

एवं ब्रुवाणं भीमं तु धर्मराजो युधिष्ठिरः ।
उवाच सान्त्वयन्राजा मूर्न्ध्युपाघ्राय पाण्डवम् ॥

3.49.36

असशयं महाबाहो हनिष्यसि सुयोधनम् ।
वर्षात्रयोदशादूर्ध्वं सह गाण्डीवधन्वना ॥

3.49.37

यत्त्वमाभाषसे पार्थ प्राप्तः काल इति प्रभो ।
अनृतं नत्सहे वक्तुं न ह्येतन्मयि विद्यते ॥

3.49.38

अन्तरेणापि कौन्तेय निकृतिम्पापनिश्चयम् ।
हन्ता त्वमसि दुर्धर्ष सानुबन्धं सुयोधनम् ॥

3.49.39

एवं ब्रुवति भीमं तु धर्मराजे युधिष्ठिरे ।
आजगाम महाभागो बृहदश्वो महानृषिः ॥

3.49.40

तमभिप्रेक्ष्यधर्मात्मा सम्प्राप्तं धर्मचारिणम् ।
शास्त्रवन्मधुपर्केण पूजयामास धर्मराट् ॥

3.49.41

आश्वस्तं चैनमासीनमुपासनो युधिष्ठिरः ।
अभिप्रेक्ष्य महाबाहुः कृपणं बह्वभाषत ॥

3.49.42

अक्षद्यूते च भगवन्धनं राज्यं च मे हृतम् ।
आहूय निकृतिप्रज्ञैः कितवैरक्षकोविदैः ॥

3.49.43

अनक्षज्ञस्य हि सतो निकृत्या पापनिश्चयैः ।
भार्या च मे सभां नीता प्राणेभ्योपि गरीयसी ॥

3.49.44

पुनर्द्यूतेन मां जित्वा वनवासां सुदारुणम् ।
प्राव्राजयन्मंहारण्यमजिनैः परिवारितम् ॥

3.49.45

अहं वने दुर्वसतीर्वसन्परमदुःखितः ।
अक्षद्यूताभिषङ्गेण गिरः शृण्वन्सुदारुणाः ॥

3.49.46

आर्तानां सुहृदां वाचो द्यूतप्रभृति शंसताम् ।
अहं हृदि श्रिताः स्मृत्वा सर्वरात्रीर्विचिन्तयन् ॥

3.49.47

यस्मिंश्च वयमायत्ताः सदा गाण्डीवधन्वनि । स चेन्द्रलोकं गतवानस्त्रहेतोर्महाबलः ॥

3.49.48

विना महात्मना तेन गतसत्व इवास्महे ।
कदा द्रक्ष्यामि बीभत्सुं कृतास्त्रं पुनरागतम् ॥

3.49.49

इति सर्वे महेष्वासं चिन्तयाना धनञ्जयम् ।
अनेन तु विषण्णोऽहं कारणेन सहानुजः ॥

3.49.50

वनवासान्निवृत्तं मां पुनस्ते पापबुद्धयः । जानन्तः प्रीयमाणा वै देवने भ्रातृभिः सह ।
द्यूतेनैवाह्वयिष्यन्ति बलादक्षेषु तद्विदः ॥

3.49.51

आहूतश्च पुनर्द्यूते नास्मि शक्तो निवर्तितुम् ।
पणे च मम नात्यर्थं वसु किञ्चन विद्यते ॥

3.49.52

एतत्सर्वमनुध्यायंश्चिन्तयानो दिवानिशम् ।
न मत्तो दुःखिततरः पुमानस्तीह कश्चन ॥

3.49.53

नास्ति राजा मया कश्चिदल्पभाग्यतरो भुवि । भवता दृष्टपूर्वो वा श्रुतपूर्वोपि वा क्वचित् ।
न मत्तो दुःखिततरः पुमानस्तीति मे मतिः ॥

3.49.54

एवं ब्रुवन्तं दुःखार्तमुवाच भगवानृषिः ।
शोकं व्यपनुदन्राज्ञो धर्मराजस्य धीमतः ॥
बृहदश्व उवाच ।

3.49.55

न विषादे मनः त्वया बुद्धिमतांवर ।
आगमिष्यति बीभत्सुरमित्रांश्च विजेष्यते ॥

3.49.56

यद्ब्रवीषि महाराज न मत्तो विद्ते क्वचित् ।
अल्पभाग्यतरः कश्चित्पुमानस्तीति पाण्डव ॥

3.49.57

अत्र ते वर्णयिष्यामि यदि शुश्रूषसेऽनघ ।
यस्त्वत्तो दुःखिततरो राजाऽसीत्पृथिवीपते ॥
वैशम्पायन उवाच ।

3.49.58

अथैनमब्रवीद्राजा ब्रवीतु भगवानिति ।
इमामवस्थां सम्प्राप्तं श्रोतुमिच्छामि पार्थिवम् ॥
बृहदश्व उवाच ।

3.49.59

शृणु राजन्नवहितः सह भ्रातृभिरच्युत ।
यस्त्वत्तो दुःखिततरो राजाऽसीत्पृथिवोपते ॥

3.49.60

निषधेषु महीपालो वीरसेन इति श्रुतः ।
तस्य पुत्रोऽभवन्नाम्ना नलो धर्मार्तकोविदः ॥

3.49.61

स निकृत्याजतो राजा पुष्करेणेति नः श्रुतम् ।
वनवासं सुदुःखार्तो भार्यया न्यवसत्सह ॥

3.49.62

न तस्य दासा न रथो न भ्राता न च भान्धवाः ।
वने निवसतो राजन्नश्रूयन्त कदाचन ॥

3.49.63

भवान्हि संवृतो वीरैर्भ्रातृभिर्देवसम्मितैः ।
ब्रह्मकल्पैर्द्विजाग्र्यैश्च तस्मान्नार्हसि शोचितुम् ॥
युधिष्ठिर उवाच ।

3.49.64

विस्तरेणाहमिच्छामि नलस्य सुमहात्मनः । चरितं वदतांश्रेष्ठ तन्ममाख्यातुमर्हसि ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc