भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 3.48

3.48.1

तेषां तच्चरितं श्रुत्वा मनुष्यातीतमद्भुतम् ।
चिन्ताशोकपरीतात्मा मन्युनाभिपरिप्लुतः ॥

3.48.2

दीर्घमुष्णं च निःश्वस्य धृतराष्ट्रोऽम्बिकासुतः ।
अब्रवीत्सञ्जयं सूतमामन्त्र्य भरतर्षभ ॥

3.48.3

न रात्रौ न दिवा सूत शान्तिं प्राप्नोमि वैक्षणम् ।
सञ्चिन्त्य दुर्णयं घोरमतीतं द्यूतजं हि तत् ॥

3.48.4

तेषामसह्यवीर्याणां शौर्यं धैर्यं धृतिं पराम् ।
अन्योन्यमनुरागं च भ्रातॄणामतिमानुषम् ॥

3.48.5

देवपुत्रौ महाभागौ देवराजसमद्युती ।
नकुलः सहदेवश्च पाण्डवौ युद्धदुर्मदौ ॥

3.48.6

दृढायुधौ दूरपातौ युद्धे च कृतनिश्चयौ ।
शीघ्रहस्तौ दृढक्रोधौ नित्ययुक्तौ रथे स्थितौ ॥

3.48.7

भीमार्जुनौ पुरोधाय यदा तौ रणमूर्धनि ।
स्थास्येते सिंहविक्रान्तावश्विनाविव दुःसहौ ॥

3.48.8

निःशेषमिह पश्यामि मम सैन्यस्य सञ्जय ॥

3.48.9

तौ ह्यप्रतिरथौ युद्धे देवपुत्रौ महारथौ ।
द्रौपद्यास्तं परिक्लेशं न क्षंस्येतेऽत्यमर्षिणौ ॥

3.48.10

वृष्णयोऽथ महेष्वासाः पाञ्चाला वा महौजसः । युधि सत्याभिसन्धेन वासुदेवेन रक्षिताः ।
प्रधक्ष्यन्ति रणे पार्थाः पुत्राणां मम वाहिनीम् ॥

3.48.11

रामकृष्णप्रणीतानां वृष्णीनां सूतनन्दन ।
न शक्यः सहितुं वेगः पर्वतैरपि दुःसहः ॥

3.48.12

तेषां मध्ये महेष्वासो भीमो भीमपराक्रमः ।
शैक्यया वीरघातिन्या गदया विचरिष्यति ॥

3.48.13

तथा गाण्डीवनिर्घोषं विस्फूर्जितमिवाशनेः ।
गदावेगं च भीमस्य नालं सोढुं नराधिपाः ॥

3.48.14

ततोऽहं सुहृदां वाचो दुर्योधनवशानुगः ।
स्मरणीयाः स्मरिष्यामि मया या न कृताः पुरा ॥
सञ्जय उवाच ।

3.48.15

व्यतिक्रमोऽयं सुमहांस्त्वया राजन्नुपेक्षितः ।
समर्थेनापि यन्मोहात्पुत्रस्ते न निवारितः ॥

3.48.16

श्रुत्वाऽयं निर्जितान्द्यूते पाण्डवान्मधुसूदनः ।
त्वरितः कामय्के पार्थान्समभावयदच्युतः ॥

3.48.17

द्रुपदस्य तथा पुत्रा धृष्टद्युम्नपुरोगमाः ।
विराटो धृष्टकेतुश्च केकयाश्च महारथाः ॥

3.48.18

तैश्च यत्कथितं राजन्दृष्ट्वा पार्थान्पराजितान् ।
चारेण विदितं सर्वं तन्मया वेदितं च ते ॥

3.48.19

समागम्य वृतस्तत्र पाण्डवैर्मधुसूदनः ।
सारथ्ये फल्गुनस्याजौ तथेत्याह च तान्हरिः ॥

3.48.20

अमर्षितो हि कृष्णोपि दृष्ट्वा पार्थांस्तदा गतान् ।
कृष्णाजिनोत्तरासङ्गानब्रवीच्च युधिष्ठिरम् ॥

3.48.21

या सा समृद्धिः पार्थानामिन्द्रप्रस्थे बभूव ह ।
राजसूये मया दृष्टा नृपैरन्यैः सुदुर्लभा ॥

3.48.22

यत्रसर्वान्महीपालाञ्शस्त्रतेजोभयार्दितान् ।
सवङ्गाङ्गान्सपौण्ड्रौढ्रान्सचोलद्रविडान्ध्रकान् ॥

3.48.23

सागरानूपकांश्चैव ये च पत्तनवासिनः ।
सिंहलान्बर्बरान्म्लेच्छान्ये च लङ्कानिवासिनः ॥

3.48.24

पश्चिमानि चराष्ट्राणि शतशः सागरान्तिकान् ।
पह्लवान्दरदान्सर्वान्किरातान्यवनाञ्शकान् ॥

3.48.25

हारहूणांश्च चीनांश्च तुषारान्सैन्धवांस्तथा ।
जागुडान्रामठान्मुण्डान्स्त्रीराज्यमथ तङ्गणान् ॥

3.48.26

केकयान्मालवांश्चैव तथा काश्मीरकानपि ।
अद्राक्षमहमाहूतान्यज्ञे ते परिवेषकान् ॥

3.48.27

सा ते समृद्धिर्यैरात्ता चपला प्रतिसारिणी ।
आदाय जीवितं तेषामाहरिष्यामि तामहम् ॥

3.48.28

रामेण सह कौरव्य भीमार्जुनवयैस्तथा ।
अक्रूरगदसाम्बैश्च प्रद्युम्नेनाहुकेन च ॥

3.48.29

धृष्टद्युम्नेन वीरेण शिशुपालात्मजेन च । दुर्योधनं रणे हत्वा सद्यः कर्णं च भारत ।
दुःशासनं सौबलेयं यश्चान्यः प्रतियोत्स्यति ॥

3.48.30

ततस्त्वं हास्तिनपुरे भ्रातृभिः सहितो वसन् ।
धार्तराष्ट्रीं श्रियं प्राप्य प्रशाधि पृथिवीमिमां ॥

3.48.31

अथैनमब्रवीद्राजा तस्मिन्वीरसमागमे ।
शृण्वत्स्वेतेषु वीरेषु धृष्टद्युम्नमुखेषु च ॥

3.48.32

प्रतिगृह्णामि ते वाचमिमां सत्यां जनार्दन ।
अमित्रान्मे महाबाहो सानुबन्धान्हनिष्यसि ॥

3.48.33

वर्षात्रयोदशादूर्ध्वं सत्यं मां कुरु केशव ।
प्रतिज्ञातो वने वासो राज्ञाम्मध्ये मया ह्ययम् ॥

3.48.34

धर्मराजस्य वचनं प्रतिश्रुत्य सभासदः ।
धृष्टद्युम्नपुरोगास्ते समयामासुṟअञ्जसा ॥

3.48.35

केशवं मधुरैर्वाक्यैः कालयुक्तैरमर्षितम् ।
पाञ्चालीं प्राहुरक्लिष्टां वासुदेवस्य शृण्वतः ॥

3.48.36

दुर्योधनस्तव क्रोधाद्देवि त्यक्ष्यति जीवितम् ।
प्रतिजानीम ते सत्यं मा शुचो वरवर्णिनि ॥

3.48.37

ये स्म ते कुरवः कृष्णे दृष्ट्वा त्वां प्राहसंस्तदा ।
मांसानि तेषां खादन्तो हरिष्यन्ति वृकद्विजाः ॥

3.48.38

पास्यन्ति रुधिरं तेषां गृध्रा गोमायवस्तथा ।
उत्तमाङ्गानि कर्षन्तो यैः कृष्टाऽसि सभातले ॥

3.48.39

तेषां द्रक्ष्यसि पाञ्चालि गात्राणि पृथिवीतले ।
क्रव्यादैः कृष्यमाणानि भक्ष्यमाणानि चासकृत् ॥

3.48.40

परिक्लिष्टाऽसियैस्तत्रयैश्चासि समुपेक्षिता ।
तेषामुत्कृत्तशिरसां भूमिः पास्यति शोणितम् ॥

3.48.41

एवं बहुविधा वाचस्त ऊचुः पुरुषर्षभाः ।
सर्वेतेजस्विनः शूराः सर्वेचाहतलक्षणाः ॥

3.48.42

ते धर्मराजेन वृतावर्षादूर्ध्वं त्रयोदशात् ।
पुरस्कृत्योपयास्यन्ति वासुदेवं महारथाः ॥

3.48.43

रामश्च कृष्णश्च धनञ्जयश्च प्रद्युम्नसाम्बौ युयुधानभीमौ ।
माद्रीसुतौ केकयराजपुत्राः पाञ्चालपुत्राः सह मत्स्यराज्ञा ॥

3.48.44

एतान्सर्वाल्लोँकवीरानजेया- न्महात्मनः सानुबन्धान्ससैन्यान् ।
को जीवितार्थी समरेऽभ्युदीया- त्क्रुद्धान्सिंहान्केसरिणो यथैव ॥
धृतराष्ट्र उवाच ।

3.48.45

यन्माऽब्रवीद्विदुरो द्यूतकाले त्वं पाण्डवाञ्जेषय्सि चेन्नरेन्द्र ।
ध्रुवं कुरूणामयमन्तकालो महाभयो भविता शोणितौधः ॥

3.48.46

मन्ये यथा तद्भवितेति सूत यथा क्षत्ता प्राह वचः पुरा माम् ।
असंशयं भविता युद्धमेत- द्गते काले पाण्डवानां यथोक्तम् ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc