भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 3.50

3.50.1

आसीद्राजा नलो नाम वीरसेनसुतो बली ।
उपपन्नो गुणैरिष्टै रूपवानश्वकोविदः ॥

3.50.2

यज्वा दानपतिर्दक्षः सदा शीलपुरस्कृतः । अतिष्ठन्मनुजेन्द्राणां मूर्ध्नि देवपतिर्यथा ।
उपर्युपरि सर्वेषामादित्य इव तेजसा ॥

3.50.3

ब्रह्मण्यो वेदविच्छ्ररो निषधेषु महीपतिः ।
अक्षप्रियः सत्यवादी महानक्षौहिणीपतिः ॥

3.50.4

ईप्सितो वरनारीणामुदारः संयतेन्द्रियः ।
रक्षिताधन्विनां श्रेष्ठः साक्षादिव मनुः स्वयम् ॥

3.50.5

तथैवासीद्विदर्भेषु भीमो भीमपराक्रमः ।
शूरः सर्वगुणैर्युक्तः प्रजाकामः स चाप्रजाः ॥

3.50.6

स प्रजार्थे परं यत्नमकरोत्सुसमाहितः ।
तमभ्यगच्छद्ब्रह्मर्षिर्दमनो नाम भारत ॥

3.50.7

तं स भीमः प्रजाकामस्तोषयामास धर्मवित् ।
महिष्या सह राजेनद््र सत्कारेण सुवर्चसम् ॥

3.50.8

तस्मै प्रसन्नो दमनः सभार्याय वरं ददौ ।
कन्यारत्नं कुमारांश्च त्रीनुदारान्महायशाः ॥

3.50.9

दमयन्तीं दमं दान्तं दमनं च सुवर्चसम् ।
उपपन्नान्गुणैः सर्वैर्भीमान्भीमपराक्रमान् ॥

3.50.10

दमयन्ती तु रूपेण तेजसा वपुषा श्रिया ।
सौभाग्येन च लोकेषु यशः प्राप सुमध्यमा ॥

3.50.11

अथ तां वसि प्राप्ते दासीनां समलन्कृतम् ।
शतं सखीनां च तदा पर्युपास्ते शचीमिव ॥

3.50.12

तत्र स्म राजते भैमी सर्वाभरणभूषिता ।
सखीमध्येऽनवद्याङ्गी विद्युत्सौदामनी यथा ॥

3.50.13

अतीव रूपसम्पन्ना श्रीरिवायतलोचना ।
न देवेषु न यक्षेषु तादृग्रूपवती क्वचित् ॥

3.50.14

मानुषेष्वपि चान्येषु दृष्टपूर्वाऽथवा श्रुता ।
चित्तप्रमाथिनी बाला देवानामपि सुन्दरी ॥

3.50.15

नलश्च नरशार्दूलो रूपेणाप्रतिमो भुवि ।
कन्दर्प इव रूपेण मूर्तिमानभवत्स्वयम् ॥

3.50.16

तस्याः समीपे तु नलं प्रशशंसुः कुतूहलात् ।
नैषधस्य समीपे तु दमयन्तीं पुनः पुनः ॥

3.50.17

तयोरदृष्टः कामोऽभूच्छृण्वतोः सततं गुणान् ।
अन्योन्यं प्रतिकौन्तेय स व्वर्धत हृच्छयः ॥

3.50.18

अशक्नवन्नलः कामं तदा धारयितुं हृदा ।
अन्तःपुरसमीपस्थे वन आस्ते रहोगतः ॥

3.50.19

स ददर्शै ततो हंसाञ्जातरूपपरिच्दान् ।
वने विचरतां तेषामेकं जग्राह पक्षिणम् ॥

3.50.20

ततो.डन्तरिक्षगो वाचं व्याजहार नलं तदा ।
हन्तव्योस्मि न तेराजन्करिष्यामि तवप्रियम् ॥

3.50.21

दमयन्तीसकाशे त्वां कथयिष्यामि नैषध ।
यथा त्वदन्यं पुरुषं न सा मंस्यति कर्हिचित् ॥

3.50.22

तव चैव यथा भार्या भविष्यति तथाऽनघ । विधास्यामि नरव्याघ्र सोऽनुजानातु मां भवान् ॥

3.50.23

एवमुक्तस्ततो हंसमुत्ससर्ज महीपतिः ।
ते तु हंसाः समुत्पत्य विदर्भानगमंस्ततः ॥

3.50.24

विदर्भनगरीं गत्वा दमयन्त्यास्तदान्तिके ।
निपेतुस्ते गरुत्मन्तः सा ददर्शाथ तान्खगान् ॥

3.50.25

सा तानद्भुतरूपान्वै दृष्ट्वा सखिगणावृता ।
हृष्टा ग्रहीतुं खगमांस्त्वरमाणोपचक्रमे ॥

3.50.26

अथ हंसा विससृपुः सर्वतः प्रमदावने ।
एकैकशस्तदा कन्यास्तान्हंसान्समुपाद्रवन् ॥

3.50.27

दमयन्ती तु यं हंसं समुपाधावदन्तिके ।
स मानुषीं गिरं कृत्वा दमयन्तीमथाब्रवीत् ॥

3.50.28

दमयन्ति नलो नाम निषधेषु महीपतिः ।
अश्विनोः सदृशो रूपे न समास्तस्य मानुषाः ॥

3.50.29

[कन्दर्प इव रूपेण मूर्तिमानभवत्स्वयम्.] तस्य वै यदिभार्या त्वं भवेथा वरवर्णिनि ।
सफलन्ते भवेज्जन्म रूपं चेदं सुमध्यमे ॥

3.50.30

वयं हि देवगन्धर्वमनुष्योरगराक्षसान् ।
दृष्टवन्तो न चास्माभिर्दृष्टपूर्वस्तथाविधः ॥

3.50.31

त्वं चापि रत्नं नारीणां नरेषु च नलो वरः ।
विशिष्टाया विशिष्टेन सन्गमो गुणवान्भवेत् ॥

3.50.32

एवमुक्ता तु हंसेन दमयन्ती विशाम्पते ।
अब्रवीत्तत्र तं हंसं त्वमप्येवं नलं वद ॥

3.50.33

तथेत्युक्त्वाऽण्डजः कन्यां विदर्भस्य विशाम्पते । पुनरागम्य निषधान्नले सर्वं न्यवेदयत् ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc